तावन् नायाति वैवश्यं चिन्ताविषविजृम्भणैः । यावद् अर्थमहानर्थो न कदर्थार्थम् अर्थ्यते
अनुत्तमसुखं यस्मै चिराय परिरोचते । जरत्तृणशिखादृष्ट्या सो ऽर्थं पश्यतु शाम्यतु
भूरिभावविकाराणां जरामरणकर्मणाम् । दैन्यदौरात्म्यदाहानाम् अर्थस् सार्थपतिस् स्मृतः
अस्मिञ् जगति जन्तूनां जरामरणशालिनाम् । अजरामरतां कर्तुं सन्तोषो ऽस्ति रसायनम्
वसन्तो नन्दनोद्यानम् इन्दुर् अप्सरसस् स्मरः । इत्य् एकतस् समुदितं सन्तोषामृतम् एकतः
सरसḫ प्रावृषेवान्तस् सन्तोषेणैति पूर्णताम् । गम्भीरां शीतलां हृद्यां प्रसन्नां रसशालिनीम्
साधुर् ओजस्विताम् एत्य सन्तोषेण विराजते । सुपुष्पितवराकारो वसन्तेनेव पादपः
पादपातपरामर्शपिष्टकीटवद् ईहते । दीनप्रकृतिर् अर्थार्थी दुẖखाद् दुẖखान्तरं व्रजन्
कल्लोलविकलाẖ क्षुब्धसमुद्रपतिता इव । नाप्नुवन्ति स्थितिं स्वस्थां विकृताकृतयो ऽर्थिनः
सम्पदḫ प्रमदाश् चैव तरङ्गोत्सङ्गभङ्गुराः । कस् तास्व् अहिफणच्छत्त्रच्छायासु रमते बुधः
अर्थोपार्जनरक्षाणां जानन्न् अपि कदर्थनाम् । यẖ करोति स्पृहां मूढो नृपशुस् तं न संस्पृशेत्
मनसो बाह्यम् आरम्भम् आन्तरं च लुनाति यः । समं वैतृष्ण्यदात्रेण तस्य क्षेत्रं प्रकाशते
जगत्त्वम् अज्ञसम्बुद्धं ज्ञो विदन्न् असद् एव यत् । सतीव तत्र स्फुरति तद् अनभ्यासजृम्भितम्
संसारनिर्वेदवशाद् उपेत्य सत्सङ्गमं शास्त्रम् उपेत्य तेन । शास्त्रार्थभावेन निरस्य भोगान् वैतृष्ण्यदार्ढ्यात् परमार्थम् एति
रूढे संसारनिर्वेदे स्थिते साधुसमागमे । शास्त्रार्थे भाविते बुद्ध्या भोगवैतृष्ण्य आगते
जाते विषयवैरस्ये सज्जनत्वे तथोदिते । प्रकाशे सम्मुखीभूते हृदये कलितोदये
धनानि नाभिवाञ्छ्यन्ते तमांसीव विवेकिना । त्यज्यन्ते विद्यमानानि संशुष्कामेध्यपर्णवत्
नीरागपान्थदृष्ट्यैव दृश्यन्ते दारबन्धवः । यथाशक्ति यथाकालम् उपचर्यन्त एव च
इन्द्रियेष्व् अपि संलग्ना इन्द्रियार्थाḫ पुनḫ पुनः । न भोगा अनुभूयन्ते नूनं शान्तमनस्तया
एकान्तेषु दिगन्तेषु सरस्सु विपिनेषु च । उष्यन्ते पुण्यदेशेषु निजेष्व् एव गृहेषु वा
सुहृत्केलिविलासेषु सभोद्यानाशनादिषु । शास्त्रतर्कविवादेषु न तथास्थीयते स्थिरम्
उपशान्तेन दान्तेन स्वात्मारामेण मौनिना । ज्ञतैवान्विष्यते ज्ञेन विज्ञानैकान्तवादिना
एवम् अभ्यासवशतḫ परे विश्रम्यते पदे । निम्ने ऽम्भसेव शान्तेन स्वयम् एव विवेकिना
सबाह्याभ्यन्तरं शान्ता ज्ञतैवार्थतयोदिता । न सम्भवति भिन्नो ऽर्थ इत्य् एव परमं पदम्
नार्थोपलब्धिर् नो शून्यम् अस्ति बोधात्मतां विना । इत्य् अन्तरनुभूतिस्थम् आहुस् तत् परमं पदम्
अबोधबोधबोधेन द्वैतैक्योपशमे सति । निर्वाणम् आसितं शान्तम् आहुस् स्वं परमं पदम्
स्वसंविन्मात्रविश्रामवताम् अमनसां सताम् । न स्वदन्ते हि विषयाḫ पयांसि दृषदाम् इव
निरोधपदम् आपन्नो निर्मना मौनमन्थरः । स्वभावे स्थित एवास्ते चित्रे कृत इवात्मवान्
सर्वार्थम् अर्थरहितं महद् एव पराणुवत् । अशून्यम् एव शून्यात्म हृदयं वेद्यवेदिनः
अहन्त्वंजगदीहादि दिक्कालकलनादि च । ज्ञस्य ज्ञानादि शून्यादि स्थितम् एव न विद्यते