सज्जनो हि समुत्तार्य विपद्भ्यो निकटस्थितम् । नियोजयति सम्पत्सु स्वालोकेष्व् इव भास्करः
परस्वादानविरतिḫ पूर्वम् एव प्रवर्तते । विवेकिनो निजार्थेषु सन्तोषश् चोपजायते
परस्वादानविरतस् सन्तोषामृतनिर्भरः । विवेकी क्रमशस् स्वार्थान् अप्य् उपेक्षितुम् इच्छति
ददाति कणपिण्याकशाकान्य् अपि हि याचते । तेनैवाभ्यासयोगेन स्वमांसानि ददात्य् असौ
नूनं विरलचिन्तानां विवेकम् अनुधावताम् । मौर्ख्यं लघुत्वम् आयाति धावताम् इव गोष्पदम्
परार्थादानविरतिं पूर्वम् अभ्यस्य यत्नतः । आहर्तव्या विवेकेन ततस् स्वार्थेष्व् अरक्तता
ततो भोगनिरासेन सह स्वार्थनिराकृतिः । परमायै स्वविश्रान्त्यै क्रियते कृतिभिẖ क्रमात्
न तादृशं जगत्य् अस्ति दुẖखं नरककोटिषु । यादृशं यावदायुष्कम् अर्थोपार्जनशासनम्
आसने शयने याने गमने रमणे ऽर्जने । आढ्याश् चिन्तापरा एव न तु मूढा विदन्ति ताम्
नन्व् अर्था विततानर्थास् सम्पदस् सन्ततापदः । भोगा भवमहारोगा विपरीतेन भाविताः
तावन् नायाति वैवश्यं चिन्ताविषविजृम्भणैः । यावद् अर्थमहानर्थो न कदर्थार्थम् अर्थ्यते
अनुत्तमसुखं यस्मै चिराय परिरोचते । जरत्तृणशिखादृष्ट्या सो ऽर्थं पश्यतु शाम्यतु
भूरिभावविकाराणां जरामरणकर्मणाम् । दैन्यदौरात्म्यदाहानाम् अर्थस् सार्थपतिस् स्मृतः
अस्मिञ् जगति जन्तूनां जरामरणशालिनाम् । अजरामरतां कर्तुं सन्तोषो ऽस्ति रसायनम्
वसन्तो नन्दनोद्यानम् इन्दुर् अप्सरसस् स्मरः । इत्य् एकतस् समुदितं सन्तोषामृतम् एकतः
सरसḫ प्रावृषेवान्तस् सन्तोषेणैति पूर्णताम् । गम्भीरां शीतलां हृद्यां प्रसन्नां रसशालिनीम्
साधुर् ओजस्विताम् एत्य सन्तोषेण विराजते । सुपुष्पितवराकारो वसन्तेनेव पादपः
पादपातपरामर्शपिष्टकीटवद् ईहते । दीनप्रकृतिर् अर्थार्थी दुẖखाद् दुẖखान्तरं व्रजन्
कल्लोलविकलाẖ क्षुब्धसमुद्रपतिता इव । नाप्नुवन्ति स्थितिं स्वस्थां विकृताकृतयो ऽर्थिनः
सम्पदḫ प्रमदाश् चैव तरङ्गोत्सङ्गभङ्गुराः । कस् तास्व् अहिफणच्छत्त्रच्छायासु रमते बुधः
अर्थोपार्जनरक्षाणां जानन्न् अपि कदर्थनाम् । यẖ करोति स्पृहां मूढो नृपशुस् तं न संस्पृशेत्
मनसो बाह्यम् आरम्भम् आन्तरं च लुनाति यः । समं वैतृष्ण्यदात्रेण तस्य क्षेत्रं प्रकाशते
जगत्त्वम् अज्ञसम्बुद्धं ज्ञो विदन्न् असद् एव यत् । सतीव तत्र स्फुरति तद् अनभ्यासजृम्भितम्
संसारनिर्वेदवशाद् उपेत्य सत्सङ्गमं शास्त्रम् उपेत्य तेन । शास्त्रार्थभावेन निरस्य भोगान् वैतृष्ण्यदार्ढ्यात् परमार्थम् एति
रूढे संसारनिर्वेदे स्थिते साधुसमागमे । शास्त्रार्थे भाविते बुद्ध्या भोगवैतृष्ण्य आगते
जाते विषयवैरस्ये सज्जनत्वे तथोदिते । प्रकाशे सम्मुखीभूते हृदये कलितोदये
धनानि नाभिवाञ्छ्यन्ते तमांसीव विवेकिना । त्यज्यन्ते विद्यमानानि संशुष्कामेध्यपर्णवत्
नीरागपान्थदृष्ट्यैव दृश्यन्ते दारबन्धवः । यथाशक्ति यथाकालम् उपचर्यन्त एव च
इन्द्रियेष्व् अपि संलग्ना इन्द्रियार्थाḫ पुनḫ पुनः । न भोगा अनुभूयन्ते नूनं शान्तमनस्तया
एकान्तेषु दिगन्तेषु सरस्सु विपिनेषु च । उष्यन्ते पुण्यदेशेषु निजेष्व् एव गृहेषु वा