मन्दाकिनीपयांसीव सङ्गतानि विवेकिनाम् । प्रक्षालयन्ति पापानि प्रयच्छन्ति विशुद्धताम्
विवेकिषु विरक्तेषु संसारोत्तरणार्थिषु । जनश् शीतलताम् एति हिमहारगृहेष्व् इव
ननु नागरतोदारा या विवेकिनि विद्यते । सुरगन्धर्वकन्यासु सा नवासु न विद्यते
प्रज्ञा प्रसादम् आयाति क्रमाद् उचितकर्मणः । अन्तẖ करोति शास्त्रार्थम् अर्थं मकुरभूर् इव
सत्प्रज्ञोन्नतिम् आयाति शास्त्रार्थरसशालिनी । विवेकिनी विलासेन कदलीव महावने
अन्तर् एवाशु वहति सर्वार्थान् प्रतिबिम्बितान् । आदर्शवद् अशेषेण प्रज्ञा नैर्मल्यशालिनी
साधुसङ्गमशुद्धात्मा शास्त्रार्थपरिमार्जितः । प्राज्ञो भात्य् उद्धृतं वह्नेर् अग्निशौचम् इवांशुकम्
कचत्काञ्चनकान्तेन विमलालोककारिणा । भुवनं भास्करेणेव भाति साधुस् स्वचेतसा
तथानुगच्छति प्राज्ञश् शास्त्रसाधुसमागमौ । यथात्यन्तानुषङ्गेण ताव् एवाशु भवत्य् अयम्
क्रमात् सज्जनताम् एत्य शास्त्रार्थभरभावितः । भाति भोगान् अधẖ कुर्वन् पञ्जराद् इव निर्गतः
भोगाभिगमदौर्भाग्यं दिनानुदिनम् उज्झता । तेन तत् कुलम् आभाति ताराचक्रम् इवेन्दुना
अभोगकृपणा कापि नवैवास्य प्रवर्तते । मुखे कान्तिर् अपूर्वैव चन्द्रे राहौ मृते यथा
तृणीकृतत्रिजगतां महताम् अभिधेयताम् । स याति कल्पविटपी नभसीव दिवौकसाम्
भोगानां द्वेषणेनान्तर् लज्जमानो मनस्व्य् अपि । भोगानाम् अन्यसम्पत्त्या परमं परितुष्यति
स्वा एवोपहसत्य् अन्तस् तरणी तरलक्रियाः । खेदस्मेरमुखो जातीर् जातिस्मर इवाधमाः
अथ तं द्रष्टुम् आयान्ति सौहार्देनैव साधवः । भूमाव् इवोदितं चन्द्रं विस्मयोत्फुल्ललोचनाः
नित्यानादृतभोगो ऽसौ तम् अप्य् उचितया धिया । प्राप्तम् अप्य् उचितारम्भं भोगं न बहु मन्यते
पूर्वं संसृतिवैरस्यम् अन्तर् एवोदितात्मनः । जायते जीर्णजाड्यस्य पाकाद् इव शरत्तरोः
ततस् सज्जनसम्पर्कम् उदर्कश्रेयसे स्वयम् । करोति स्वस्थतागृध्नुर् भिषगाश्रयणं यथा
तेनोदारमतिर् भूत्वा शास्त्रार्थेषु निमज्जति । महान् महाप्रसन्नेषु सरस्स्व् इव महागजः
सज्जनो हि समुत्तार्य विपद्भ्यो निकटस्थितम् । नियोजयति सम्पत्सु स्वालोकेष्व् इव भास्करः
परस्वादानविरतिḫ पूर्वम् एव प्रवर्तते । विवेकिनो निजार्थेषु सन्तोषश् चोपजायते
परस्वादानविरतस् सन्तोषामृतनिर्भरः । विवेकी क्रमशस् स्वार्थान् अप्य् उपेक्षितुम् इच्छति
ददाति कणपिण्याकशाकान्य् अपि हि याचते । तेनैवाभ्यासयोगेन स्वमांसानि ददात्य् असौ
नूनं विरलचिन्तानां विवेकम् अनुधावताम् । मौर्ख्यं लघुत्वम् आयाति धावताम् इव गोष्पदम्
परार्थादानविरतिं पूर्वम् अभ्यस्य यत्नतः । आहर्तव्या विवेकेन ततस् स्वार्थेष्व् अरक्तता
ततो भोगनिरासेन सह स्वार्थनिराकृतिः । परमायै स्वविश्रान्त्यै क्रियते कृतिभिẖ क्रमात्
न तादृशं जगत्य् अस्ति दुẖखं नरककोटिषु । यादृशं यावदायुष्कम् अर्थोपार्जनशासनम्
आसने शयने याने गमने रमणे ऽर्जने । आढ्याश् चिन्तापरा एव न तु मूढा विदन्ति ताम्
नन्व् अर्था विततानर्थास् सम्पदस् सन्ततापदः । भोगा भवमहारोगा विपरीतेन भाविताः