तच् छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम्
करिष्यामीति संश्रुत्य प्रतिज्ञां हातुम् इच्छसि । सत्त्ववान् केसरी भूत्वा मृगताम् अभिवाञ्छसि
राघवानाम् अयुक्तो ऽयं कुलस्यास्य विपर्ययः । न कदाचन जायन्ते शीतांशौ कृष्णरश्मयः
यदि त्वं न क्षमो राजन् गमिष्यामि यथागतः । हीनप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः
तस्मिन् कोपपरीते ऽथ विश्वामित्रे महात्मनि । चचाल वसुधा कृत्स्ना सुराश् च भयम् आविशन्
क्रोधाभिभूतं विज्ञाय जगन्मित्रं महामुनिम् । धृतिमान् सुव्रतो धीमान् वसिष्ठो वाक्यम् अब्रवीत्
इक्ष्वाकूणां कुले जातस् साक्षाद् धर्म इवापरः । भवान् दशरथश् श्रीमांस् त्रैलोक्ये गुणभूषितः
नीतिमान् सुव्रतो भूत्वा न धर्मं हातुम् अर्हसि । मुनेस् त्रिभुवनेशस्य वचनं कर्तुम् अर्हसि
त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः । स्वधर्मं प्रतिपद्यस्व न धर्मं हातुम् अर्हसि
करिष्यामीति संश्रुत्य तत् ते राजन्न् अकुर्वतः । इष्टापूर्तः पतेद् धर्मस् तस्माद् रामं विसर्जय
गुप्तं पुरुषसिंहेन ज्वलनेनामृतं यथा । कृतास्त्रम् अकृतास्त्रं वा नैनं द्रक्ष्यन्ति राक्षसाः
इक्ष्वाकुवंशजातो ऽपि स्वयं दशरथो ऽपि सन् । न पालयसि चेद् वाक्यं को ऽपरः पालयिष्यति
युष्मदादिप्रणीतेन व्यवहारेण जन्तवः । मर्यादां न विमुञ्चन्ति तां न हातुम् इहार्हसि
एष विग्रहवान् धर्म एष वीर्यवतां वरः । एष बुद्ध्याधिको लोके तपसां च परायणः
एषो ऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे । नैतद् अन्यः पुमान् वेत्ति न च वेत्स्यति कश्चन
न च देवर्षयः केचिन् नामरा न च राक्षसाः । न नागयक्षगन्धर्वा अनेन सदृशा नृप
अस्त्रम् अस्मै भृशाश्वेन परैः परमदुर्जयम् । कौशिकाय पुरा दत्तं यदा राज्यं समन्वशात्
ते हि पुत्राः भृशाश्वस्य प्रजापतिसुतोपमाः । एनम् अन्वचरन् वीरा दीप्तिमन्तो महौजसः
जया च सुप्रभा चैव दाक्षायण्यौ सुमध्यमे । तयोस् तु यान्य् अपत्यानि शतं परमदुर्जयम्
पञ्चाशतस् सुताञ् जज्ञे जया लब्धवरा पुरा । वधायासुरसैन्यानां ते ऽक्षयाः कामरूपिणः
सुप्रभा जनयाम् आस पुत्रान् पञ्चाशतः परान् । सङ्घर्षान् नाम दुर्धर्षान् दुराक्रोशान् बलीयसः
एवंवीर्यो महातेजा विश्वामित्रो महामुनिः । न रामगमने बुद्धिं विक्लवां कर्तुम् अर्हसि
अस्मिन् महासत्त्वमये मुनीन्द्रे स्थिते समीपे पुरुषस् तु साधुः । प्राप्ते ऽपि मृत्याव् अमरत्वम् एति मा दीनतां गच्छ यथा विमूढः
तथा वसिष्ठे ब्रुवति राजा दशरथस् सुतम् । समुत्स्रष्टुमना रामम् आजुहाव सलक्ष्मणम्
प्रतीहार महाबाहुं रामं सत्यपराक्रमम् । सलक्ष्मणम् अविघ्नेन मुन्यर्थं शीघ्रम् आनय
इति राज्ञा विसृष्टो ऽसौ गत्वान्तःपुरमन्दिरम् । मुहूर्तमात्रेणागत्य समुवाच महीपतिम्
देव दोर्दलिताशेषरिपो रामस् स्वमन्दिरे । विमनास् संस्थितो रात्रौ षट्पदः कमले यथा
आगच्छामि क्षणेनेति वक्ति ध्यायति चैककः । न कस्यचित् स निकटे स्थातुम् इच्छति खिन्नधीः
इत्य् उक्ते तेन भूपालस् तं रामानुचरं जनम् । सर्वम् आश्वासयाम् आस पप्रच्छ च यथाक्रमम्
कथं कीदृक् स्थितो राम इति पृष्टो महीभृता । रामभृत्यजनः खिन्नो वाक्यम् आह महीपतिम्