प्रावृषीव नदीपूरो यस् समाधिर् उपस्थितः । बलाद् एव तम् आयातं भूयश् चलति नो मनः
सर्वार्थशीतलत्वेन बलाद् ध्यानं यद् आगतम् । ज्ञानाद् विषयवैरस्यं स समाधिर् हि नेतरः
दृढं विषयवैरस्यम् एव ध्यानम् उदाहृतम् । तद् एव परिपाकेन वज्रसारं भवत्य् अलम्
यद् एतद् भोगवैतृष्ण्यं ध्यानम् अङ्कुरितं हि तत् । तद् एव पीठबन्धेन भवति स्कन्धबन्धुरम्
सम्यग्ज्ञानं समुच्छूनं यदैवोज्झितवासनम् । ध्यानं भवति निर्वाणम् आनन्दात् परम् आगतम्
अस्ति चेद् भोगवैतृष्ण्यं किम् अन्यद् ध्यानदुर्धिया । नास्ति चेद् भोगवैतृष्ण्यं किम् अन्यद् ध्यानदुर्धिया
दृश्यस्वदनमुक्तस्य सम्यग्ज्ञानवतो मुनेः । निर्विकल्पं समाधानम् अविरामं प्रवर्तते
यस्मै न स्वदते दृश्यं स सम्बुद्ध इति स्मृतः । न स्वदन्ते यदा भोगास् सम्यग्बोधस् तदोदितः
यस्य स्वभावविश्रान्तिẖ कथं तस्यास्ति भोगिता । अस्वभावो हि भोगित्वं तत्क्षये तत् कथं कुतः
श्रुतिपाठजपान्तेषु समाधिनिरतो भवेत् । समाधिविरतश् शान्तश् श्रुतिपाठजपाञ् श्रयेत्
निर्वाणम् आसीत निरस्तखेदं समस्तशङ्कास्तमयाभिरामम् । सुषुप्तसोम्यं समशान्तचित्तं शरद्घनाभोगविशुद्धम् अन्तः
संसारभारसुश्रान्तस् सङ्कटेषु लुठत्तनुः । यो ऽभिवाञ्छति विश्रान्तिं तस्य क्रमम् इमं शृणु
पूर्वं विवेककणिका यदास्य हृदि जायते । संसारनिर्वेदमयी कारणाद् वाप्य् अकारणात्
तदाश्रयति सच्छायान् साधून् उन्नतिशालिनः । अध्वश्रमहरांस् तापतप्तो मार्गतरून् इव
दूरे परिहरत्य् अज्ञान् यज्ञयूपान् इवाध्वगः । स्नानदानतपोयज्ञान् करोति विबुधानुगः
पेशलं चानुरूपं च व्यवहारम् अकृत्रिमम् । लोक्यम् आह्लादनं धत्ते चन्द्रबिम्बम् इवामृतम्
परप्रज्ञानुगो भावḫ परार्थपरिपूरकः । पवित्रकर्मरसिकẖ को ऽपि सोम्यḫ प्रवर्तते
नवनीतस्थलीवाच्छा स्निग्धा मृद्वी मनोहरा । जनं सुखयति स्वाद्वी तदीया नवसङ्गतिः
शीतलानि पवित्राणि चरितानि विवेकिनः । इन्दोर् इवांशुजालानि जनं शीतलयन्त्य् अलम्
न तथोद्यानषण्डेषु पुष्पप्रकरहारिषु । विश्रम्यते वीतभयं यथा साधुसमागमे
मन्दाकिनीपयांसीव सङ्गतानि विवेकिनाम् । प्रक्षालयन्ति पापानि प्रयच्छन्ति विशुद्धताम्
विवेकिषु विरक्तेषु संसारोत्तरणार्थिषु । जनश् शीतलताम् एति हिमहारगृहेष्व् इव
ननु नागरतोदारा या विवेकिनि विद्यते । सुरगन्धर्वकन्यासु सा नवासु न विद्यते
प्रज्ञा प्रसादम् आयाति क्रमाद् उचितकर्मणः । अन्तẖ करोति शास्त्रार्थम् अर्थं मकुरभूर् इव
सत्प्रज्ञोन्नतिम् आयाति शास्त्रार्थरसशालिनी । विवेकिनी विलासेन कदलीव महावने
अन्तर् एवाशु वहति सर्वार्थान् प्रतिबिम्बितान् । आदर्शवद् अशेषेण प्रज्ञा नैर्मल्यशालिनी
साधुसङ्गमशुद्धात्मा शास्त्रार्थपरिमार्जितः । प्राज्ञो भात्य् उद्धृतं वह्नेर् अग्निशौचम् इवांशुकम्
कचत्काञ्चनकान्तेन विमलालोककारिणा । भुवनं भास्करेणेव भाति साधुस् स्वचेतसा
तथानुगच्छति प्राज्ञश् शास्त्रसाधुसमागमौ । यथात्यन्तानुषङ्गेण ताव् एवाशु भवत्य् अयम्
क्रमात् सज्जनताम् एत्य शास्त्रार्थभरभावितः । भाति भोगान् अधẖ कुर्वन् पञ्जराद् इव निर्गतः