मनस्ता क्वापि संयाति तिष्ठ्तत्य् अच्छैव बोधता । निर्वाच्या निर्विभागान्ता सर्वा सर्वात्मिका सती
अविविक्ततया चित्तसत्ता बोधतयोदिता । अनाद्यन्ता भवत्य् अच्छप्रकाशफलदायिनी
स्वयम् एव ततस् तत्र निरस्तसकलैषणम् । अनाद्यन्तम् अनायासं ध्यानम् एवावशिष्यते
यावन् नाधिगतं ब्रह्म न विश्रान्तं परे पदे । तावत् तन्मननत्वेन न ध्यानम् अवगम्यते
परमार्थैकताम् एत्य न जाने क्व मनो गतम् । क्व वासनाẖ क्व कर्माणि क्व हर्षामर्षसंविदः
केवलं दृश्यते योगी गतो ध्यानैकनिष्ठताम् । स्थितो वज्रसमाधाने विपक्ष इव पर्वतः
विरसाखिलभोगस्य प्रशान्तेन्द्रियसंविदः । नीरसाशेषदृश्यस्य स्वात्मारामस्य योगिनः
क्रमेण विगलद्वृत्तेर् बलाद् विश्रन्तिम् ईयुषः । अर्थायातं समाधानं केन नाम निवार्यते
तावद् विषयवैरस्यं भावयत्य् उचिताशयः । न पश्यत्य् एव तान् यावद् भोगांश् चित्रनरो यथा
अपश्यञ् जागतान् अर्थान् निर्वासनतयात्मवान् । बलाद् वज्रसमाधाने त्व् अन्येनेव निवेश्यते
प्रावृषीव नदीपूरो यस् समाधिर् उपस्थितः । बलाद् एव तम् आयातं भूयश् चलति नो मनः
सर्वार्थशीतलत्वेन बलाद् ध्यानं यद् आगतम् । ज्ञानाद् विषयवैरस्यं स समाधिर् हि नेतरः
दृढं विषयवैरस्यम् एव ध्यानम् उदाहृतम् । तद् एव परिपाकेन वज्रसारं भवत्य् अलम्
यद् एतद् भोगवैतृष्ण्यं ध्यानम् अङ्कुरितं हि तत् । तद् एव पीठबन्धेन भवति स्कन्धबन्धुरम्
सम्यग्ज्ञानं समुच्छूनं यदैवोज्झितवासनम् । ध्यानं भवति निर्वाणम् आनन्दात् परम् आगतम्
अस्ति चेद् भोगवैतृष्ण्यं किम् अन्यद् ध्यानदुर्धिया । नास्ति चेद् भोगवैतृष्ण्यं किम् अन्यद् ध्यानदुर्धिया
दृश्यस्वदनमुक्तस्य सम्यग्ज्ञानवतो मुनेः । निर्विकल्पं समाधानम् अविरामं प्रवर्तते
यस्मै न स्वदते दृश्यं स सम्बुद्ध इति स्मृतः । न स्वदन्ते यदा भोगास् सम्यग्बोधस् तदोदितः
यस्य स्वभावविश्रान्तिẖ कथं तस्यास्ति भोगिता । अस्वभावो हि भोगित्वं तत्क्षये तत् कथं कुतः
श्रुतिपाठजपान्तेषु समाधिनिरतो भवेत् । समाधिविरतश् शान्तश् श्रुतिपाठजपाञ् श्रयेत्
निर्वाणम् आसीत निरस्तखेदं समस्तशङ्कास्तमयाभिरामम् । सुषुप्तसोम्यं समशान्तचित्तं शरद्घनाभोगविशुद्धम् अन्तः
संसारभारसुश्रान्तस् सङ्कटेषु लुठत्तनुः । यो ऽभिवाञ्छति विश्रान्तिं तस्य क्रमम् इमं शृणु
पूर्वं विवेककणिका यदास्य हृदि जायते । संसारनिर्वेदमयी कारणाद् वाप्य् अकारणात्
तदाश्रयति सच्छायान् साधून् उन्नतिशालिनः । अध्वश्रमहरांस् तापतप्तो मार्गतरून् इव
दूरे परिहरत्य् अज्ञान् यज्ञयूपान् इवाध्वगः । स्नानदानतपोयज्ञान् करोति विबुधानुगः
पेशलं चानुरूपं च व्यवहारम् अकृत्रिमम् । लोक्यम् आह्लादनं धत्ते चन्द्रबिम्बम् इवामृतम्
परप्रज्ञानुगो भावḫ परार्थपरिपूरकः । पवित्रकर्मरसिकẖ को ऽपि सोम्यḫ प्रवर्तते
नवनीतस्थलीवाच्छा स्निग्धा मृद्वी मनोहरा । जनं सुखयति स्वाद्वी तदीया नवसङ्गतिः
शीतलानि पवित्राणि चरितानि विवेकिनः । इन्दोर् इवांशुजालानि जनं शीतलयन्त्य् अलम्
न तथोद्यानषण्डेषु पुष्पप्रकरहारिषु । विश्रम्यते वीतभयं यथा साधुसमागमे