मूर्खस्थो विश्वशब्दार्थो न तज्ज्ञविषयो यथा । तज्ज्ञस्थो विश्वशब्दार्थो न मूर्खविषयस् तथा
तज्ज्ञाज्ञयोस् तयोश् चैव स्थितयोर् विश्वयोर् यथा । यत्रैकीभूय कचनं तत्र विश्रम्यतां बुधाः
बोधभूमिषु सिद्धानाम् अर्थानां वाविवेकिनाम् । सत्तासत्ते द्वयैक्ये च निर्णीते नेह केनचित्
उपाय एकश् शास्त्रार्थो द्वितीयो ज्ञसमागमः । ध्यानं तृतीयो निर्वाणे श्रेष्ठस् त्व् अत्रोत्तरोत्तरः
जीवादर्शो मिथो रूपं गृह्णात्य् एषां महद् वपुः । जगत्य् उदेति सङ्घट्टाद् अविशेषं समे ऽसमे
ज्ञातपूर्वापराशेषजगदष्टापदस्थितेः । एकसिद्धौ द्वयोस् सिद्धिर् भोगवैतृष्ण्यदा ययोः
मतिवात्या धुतो व्योम्नि दग्धो ज्ञानाग्निनाखिलः । जगत्तूलḫ परे शान्ते न जाने क्वाशु गच्छति
चित्राग्निनेव बोधेन तेन जाड्यं न शाम्यति । निर्मूलापि जगद्भ्रान्तिर् येनाशु न विलीयते
यथाज्ञस्य जगज्ज्ञप्तिर् अपज्ञानात् प्रदीप्यते । तथा ज्ञस्य परिज्ञानात् तदज्ञप्तिḫ प्रदीप्यते
तज्ज्ञस्य त्रिजगज्ज्ञप्तिशब्दार्थरहिता स्थिता । यथा स्थिथैव त्रिजगज्ज्ञप्तिश् चित्र इवोदिता
शून्यत्वेनेव रचिता स्वप्नत्वेनेव निर्मिता । भासते भामयीवाच्छा जगज्ज्ञप्तिर् ज्ञचेतसि
नूनं बोधे विरूढस्य नाहन्ता न जगत्स्थितिः । भासते परमाभासरूपिणẖ काप्य् अवस्थितिः
बोधाबोधात्मकं चित्तं भाति शुष्कार्द्रकाष्ठवत् । बोधाद् एकं जगद्भावैर् जाड्यान् नानात्वम् आगतम्
मिथो ऽबोधाद् विवदति मैत्रीं भजति बोधतः । य एवास्याधिको भागस् तन्मयत्वेन तिष्ठति
बुद्धस् संस् तत्त्वम् आवेत्ति जगतो ऽभावभावयोः । जाग्रत्स्वप्नसुषुप्तानां स्वभावम् इव तुर्यगः
वासनैव मनस् सेयं स्वविचारेण नश्यति । अवस्तुत्वाद् अतो मोक्षे नात्मनाशḫ प्रवर्तते
ध्यानद्रुमात् स्वयम् अनल्पम् उपोढपाकात् कालेन बोधम् उपयातवतẖ क्रमेण । भुक्त्वा रसायनफलं परबोधम् आद्यम् इत्थं मनोहरिणको निगडाद् विमुक्तः
परमार्थफले ज्ञाते भुक्ते परिणतिं गते । बोधे ऽथ स भवत्य् आशु परमार्थो मनोमृगः
क्वापि सा मृगता याति प्रक्षीणस्नेहदीपवत् । परमार्थदशैवास्ते तत्रानन्तावभासिनी
ध्यानद्रुमफलप्राप्तौ बोधताम् आगतं मनः । वज्रसारां स्थितिं धत्ते च्छिन्नपक्ष इवाचलः
मनस्ता क्वापि संयाति तिष्ठ्तत्य् अच्छैव बोधता । निर्वाच्या निर्विभागान्ता सर्वा सर्वात्मिका सती
अविविक्ततया चित्तसत्ता बोधतयोदिता । अनाद्यन्ता भवत्य् अच्छप्रकाशफलदायिनी
स्वयम् एव ततस् तत्र निरस्तसकलैषणम् । अनाद्यन्तम् अनायासं ध्यानम् एवावशिष्यते
यावन् नाधिगतं ब्रह्म न विश्रान्तं परे पदे । तावत् तन्मननत्वेन न ध्यानम् अवगम्यते
परमार्थैकताम् एत्य न जाने क्व मनो गतम् । क्व वासनाẖ क्व कर्माणि क्व हर्षामर्षसंविदः
केवलं दृश्यते योगी गतो ध्यानैकनिष्ठताम् । स्थितो वज्रसमाधाने विपक्ष इव पर्वतः
विरसाखिलभोगस्य प्रशान्तेन्द्रियसंविदः । नीरसाशेषदृश्यस्य स्वात्मारामस्य योगिनः
क्रमेण विगलद्वृत्तेर् बलाद् विश्रन्तिम् ईयुषः । अर्थायातं समाधानं केन नाम निवार्यते
तावद् विषयवैरस्यं भावयत्य् उचिताशयः । न पश्यत्य् एव तान् यावद् भोगांश् चित्रनरो यथा
अपश्यञ् जागतान् अर्थान् निर्वासनतयात्मवान् । बलाद् वज्रसमाधाने त्व् अन्येनेव निवेश्यते