सकलार्थपरित्यागाद् दिनानुदिनम् आततात् । शुद्धस्वभावविश्रान्तिḫ परमार्थाप्तिर् उच्यते
भेदबुद्धौ विलीनायां बोध एवावशिष्यते । शुद्धम् एकम् अनाद्यन्तं तद् ब्रह्मेति विदुर् बुधाः
लोकैषणाविरक्तेन त्यक्तदारैषणेन च । धनैषणाविमुक्तेन तस्मिन् विश्रम्यते पदे
परेण परिणामेन मिथश् चित्परमार्थयोः । तापेन हिमलेखेव भेदबुद्धिर् विलीयते
तज्ज्ञस्याक्लिष्टमुक्तस्य स्वभावं सुसमं विना । स्थितिस् स्रग्दामकस्येव न सम्भवति काचन
यथाप्रकटिताङ्गान्तस् संस्थिता सालभञ्जिका । न सती नासती स्तम्भे तथा विश्वस्थितिḫ परे
ध्यानं न शक्यते कर्तुं न चैतद् उपयुज्यते । अबोधेन विबुद्धस् तु स्वयम् अत्रैव तिष्ठति
आत्यन्तिकी विरसता यस्य दृश्येषु दृश्यते । स बुद्धो नाप्रबुद्धस्य दृश्यत्यागे हि शक्तता
दृश्यस्य बोधताबोधो यो बोधाद् अपरिक्षयः । स समाधानशब्देन कथ्यते सुसमाहितैः
द्रष्टृदृश्यैकतारूपḫ प्रत्ययो मनसो यदा । उदेत्य् एकसमाधाने तदा विश्राम्यति स्वयम्
स्वभावो दृश्यवैरस्यम् एव तत्त्वविदो जनाः । दृश्यस्वदनम् एवाहुर् अतत्त्वज्ञत्वम् उत्तमाः
अतज्ज्ञस्यैव विषयास् स्वदन्ते न तु तद्विदः । न हि पीतामृतायान्तस् स्वदते कटु काञ्चिकम्
वितृष्णस्यात्मनिष्ठत्वाद् एषणात्रयम् उज्झतः । ज्ञस्याप्य् अनिच्छतो ध्यानम् अर्थायातं प्रवर्तते
बोधस् स्फुरति तृष्णायां सैव यस्य न विद्यते । तस्य स्वं रूपम् उत्सृज्य क्वासौ तिष्ठति कẖ कथम्
ज्ञस्यानाधारको ऽध्येयो बोधो नेयत्तया भवेत् । अनन्तो ऽसाव् अतृष्णस्य निर्विभागोदितस् स्वयम्
अनन्तम् अपतृष्णस्य स्वयम् एव प्रवर्तते । ध्यानं गलितपक्षस्य संस्थानम् इव भूभृतः
शुद्धबोधात्मनि ज्ञत्वाद् असमाहिततोदिता । लभ्यते न समिद्धे ऽग्नौ बुकपुष्पम् इव स्थितम्
परं विषयवैतृष्ण्यं समाधानम् उदाहृतम् । आहृतं येन तन् नूनं तस्मै नृब्रह्मणे नमः
नूनं विषयवैतृष्ण्ये परिप्रौढिम् उपागते । शक्नुवन्ति निहन्तुं न ध्यानं सेन्द्रास् सुरासुराः
परं विषयवैतृष्ण्यं वज्रध्यानं प्रसाध्यताम् । भेदे विगलिते ज्ञानाद् अन्यानन्दतृणेन किम्
मूर्खस्थो विश्वशब्दार्थो न तज्ज्ञविषयो यथा । तज्ज्ञस्थो विश्वशब्दार्थो न मूर्खविषयस् तथा
तज्ज्ञाज्ञयोस् तयोश् चैव स्थितयोर् विश्वयोर् यथा । यत्रैकीभूय कचनं तत्र विश्रम्यतां बुधाः
बोधभूमिषु सिद्धानाम् अर्थानां वाविवेकिनाम् । सत्तासत्ते द्वयैक्ये च निर्णीते नेह केनचित्
उपाय एकश् शास्त्रार्थो द्वितीयो ज्ञसमागमः । ध्यानं तृतीयो निर्वाणे श्रेष्ठस् त्व् अत्रोत्तरोत्तरः
जीवादर्शो मिथो रूपं गृह्णात्य् एषां महद् वपुः । जगत्य् उदेति सङ्घट्टाद् अविशेषं समे ऽसमे
ज्ञातपूर्वापराशेषजगदष्टापदस्थितेः । एकसिद्धौ द्वयोस् सिद्धिर् भोगवैतृष्ण्यदा ययोः
मतिवात्या धुतो व्योम्नि दग्धो ज्ञानाग्निनाखिलः । जगत्तूलḫ परे शान्ते न जाने क्वाशु गच्छति
चित्राग्निनेव बोधेन तेन जाड्यं न शाम्यति । निर्मूलापि जगद्भ्रान्तिर् येनाशु न विलीयते
यथाज्ञस्य जगज्ज्ञप्तिर् अपज्ञानात् प्रदीप्यते । तथा ज्ञस्य परिज्ञानात् तदज्ञप्तिḫ प्रदीप्यते
तज्ज्ञस्य त्रिजगज्ज्ञप्तिशब्दार्थरहिता स्थिता । यथा स्थिथैव त्रिजगज्ज्ञप्तिश् चित्र इवोदिता