स्मृत्वा स्मृत्वापदḫ पूर्वास् सन्तोषामृतपोषितः । अर्थानाम् अप्य् अनर्थानां नाशे न परितप्यते
व्यवहारेषु कार्येषु भोगसम्पादकेष्व् अपि । परम् उद्वेगम् आयाति सनिद्र इव बोधितः
दीर्घाध्वग इवोदाराम् अनारतम् अबाधिताम् । चिरं मौर्ख्यश्रमाक्रान्तो विश्रान्तिम् अभिवाञ्छति
निश्श्वासबोधितो ऽप्य् अग्निर् अनिन्धन इवात्मनि । श्वासमात्रभ्रमे ऽप्य् अन्तर् अतिष्ठन्न् एव शाम्यति
आपतन्तीं बलाद् एव पदार्थेष्व् अरतिं शनैः । न शक्नोति निराकर्तुं वृष्टिम् अभ्रच्युताम् इव
तां महापदवीं गच्छन् परमार्थफलप्रदाम् । भूमिं काम् अप्य् उपायाति वचसाम् अप्य् अगोचराम्
कुतो ऽप्य् अचेष्टितेष्व् एव सम्प्राप्तेषु विधेर् वशात् । भोगेष्व् अरतिम् आयाति पान्थो मरुमहीष्व् इव
घूर्णन् क्षीव इवानन्दी सुप्तस् संसारवृत्तिषु । अन्तḫपूर्णमना मौनी काम् अपि स्थितिम् ऋच्छति
स तादृग्रूपताम् एत्य परमार्थफलस्य तत् । क्रमान् निकटम् आप्नोति खगो ऽर्कपदवीम् इव
ततस् तद् अखिला बुद्धीर् विहाय वियता समः । गृह्णात्य् अथास्वादयति भुङ्क्ते ऽथ परितृप्यति
सकलार्थपरित्यागाद् दिनानुदिनम् आततात् । शुद्धस्वभावविश्रान्तिḫ परमार्थाप्तिर् उच्यते
भेदबुद्धौ विलीनायां बोध एवावशिष्यते । शुद्धम् एकम् अनाद्यन्तं तद् ब्रह्मेति विदुर् बुधाः
लोकैषणाविरक्तेन त्यक्तदारैषणेन च । धनैषणाविमुक्तेन तस्मिन् विश्रम्यते पदे
परेण परिणामेन मिथश् चित्परमार्थयोः । तापेन हिमलेखेव भेदबुद्धिर् विलीयते
तज्ज्ञस्याक्लिष्टमुक्तस्य स्वभावं सुसमं विना । स्थितिस् स्रग्दामकस्येव न सम्भवति काचन
यथाप्रकटिताङ्गान्तस् संस्थिता सालभञ्जिका । न सती नासती स्तम्भे तथा विश्वस्थितिḫ परे
ध्यानं न शक्यते कर्तुं न चैतद् उपयुज्यते । अबोधेन विबुद्धस् तु स्वयम् अत्रैव तिष्ठति
आत्यन्तिकी विरसता यस्य दृश्येषु दृश्यते । स बुद्धो नाप्रबुद्धस्य दृश्यत्यागे हि शक्तता
दृश्यस्य बोधताबोधो यो बोधाद् अपरिक्षयः । स समाधानशब्देन कथ्यते सुसमाहितैः
द्रष्टृदृश्यैकतारूपḫ प्रत्ययो मनसो यदा । उदेत्य् एकसमाधाने तदा विश्राम्यति स्वयम्
स्वभावो दृश्यवैरस्यम् एव तत्त्वविदो जनाः । दृश्यस्वदनम् एवाहुर् अतत्त्वज्ञत्वम् उत्तमाः
अतज्ज्ञस्यैव विषयास् स्वदन्ते न तु तद्विदः । न हि पीतामृतायान्तस् स्वदते कटु काञ्चिकम्
वितृष्णस्यात्मनिष्ठत्वाद् एषणात्रयम् उज्झतः । ज्ञस्याप्य् अनिच्छतो ध्यानम् अर्थायातं प्रवर्तते
बोधस् स्फुरति तृष्णायां सैव यस्य न विद्यते । तस्य स्वं रूपम् उत्सृज्य क्वासौ तिष्ठति कẖ कथम्
ज्ञस्यानाधारको ऽध्येयो बोधो नेयत्तया भवेत् । अनन्तो ऽसाव् अतृष्णस्य निर्विभागोदितस् स्वयम्
अनन्तम् अपतृष्णस्य स्वयम् एव प्रवर्तते । ध्यानं गलितपक्षस्य संस्थानम् इव भूभृतः
शुद्धबोधात्मनि ज्ञत्वाद् असमाहिततोदिता । लभ्यते न समिद्धे ऽग्नौ बुकपुष्पम् इव स्थितम्
परं विषयवैतृष्ण्यं समाधानम् उदाहृतम् । आहृतं येन तन् नूनं तस्मै नृब्रह्मणे नमः
नूनं विषयवैतृष्ण्ये परिप्रौढिम् उपागते । शक्नुवन्ति निहन्तुं न ध्यानं सेन्द्रास् सुरासुराः
परं विषयवैतृष्ण्यं वज्रध्यानं प्रसाध्यताम् । भेदे विगलिते ज्ञानाद् अन्यानन्दतृणेन किम्