हृदयेन्दोर् घनश्रेणीर् मुखाब्जतिमिरावलीः । कृष्णायश्शृङ्खलास् तृष्णा दिनानुदिनम् उज्झति
उपेक्षते न सम्प्राप्तं नाप्राप्तम् अभिवाञ्छति । सोमसोम्यो भवत्य् अन्तश्शीतलस् सर्ववृत्तिषु
शास्त्रार्थपल्लवेष्व् एव निषण्णात्मावतिष्ठते । उन्नतावनतापाता अधḫ पश्यञ् जगद्गतीः
भीमद्रुमलतोत्कीर्णपुष्पप्रकरदन्तुराः । प्राक्तनीस् स्वास् स्थलीḫ पश्यन् हसत्य् अन्तर् वराकताम्
तेषु तत्स्कन्धदेशेषु तयोड्डीनविडीनया । हारिण्या विहरन् गत्या राजेव परिराजते
पुत्रदारकलत्राणि मित्राणि च धनानि च । जन्मान्तरकृतानीव स्वप्नजानीव पश्यति
रागद्वेषभयोन्मादमानमोहमहार्तयः । नटस्येवास्य दृश्यन्ते शीतलामलचेतसः
उन्मत्तचेष्टिताकारा हसत्य् अपि पुरो ऽसतीः । तरङ्गभङ्गुराधारास् संसारसरितो गतीः
न स चेतयते काश्चिल् लोकदारधनैषणाः । अपूर्वपदविश्रान्तो जीवन्न् एव यथा शवः
केवलं केवले शुद्धे बोधात्मनि महोन्नतौ । दत्तदृष्टिḫ फले तस्मिन् दूरं समधिरोहति
स्मृत्वा स्मृत्वापदḫ पूर्वास् सन्तोषामृतपोषितः । अर्थानाम् अप्य् अनर्थानां नाशे न परितप्यते
व्यवहारेषु कार्येषु भोगसम्पादकेष्व् अपि । परम् उद्वेगम् आयाति सनिद्र इव बोधितः
दीर्घाध्वग इवोदाराम् अनारतम् अबाधिताम् । चिरं मौर्ख्यश्रमाक्रान्तो विश्रान्तिम् अभिवाञ्छति
निश्श्वासबोधितो ऽप्य् अग्निर् अनिन्धन इवात्मनि । श्वासमात्रभ्रमे ऽप्य् अन्तर् अतिष्ठन्न् एव शाम्यति
आपतन्तीं बलाद् एव पदार्थेष्व् अरतिं शनैः । न शक्नोति निराकर्तुं वृष्टिम् अभ्रच्युताम् इव
तां महापदवीं गच्छन् परमार्थफलप्रदाम् । भूमिं काम् अप्य् उपायाति वचसाम् अप्य् अगोचराम्
कुतो ऽप्य् अचेष्टितेष्व् एव सम्प्राप्तेषु विधेर् वशात् । भोगेष्व् अरतिम् आयाति पान्थो मरुमहीष्व् इव
घूर्णन् क्षीव इवानन्दी सुप्तस् संसारवृत्तिषु । अन्तḫपूर्णमना मौनी काम् अपि स्थितिम् ऋच्छति
स तादृग्रूपताम् एत्य परमार्थफलस्य तत् । क्रमान् निकटम् आप्नोति खगो ऽर्कपदवीम् इव
ततस् तद् अखिला बुद्धीर् विहाय वियता समः । गृह्णात्य् अथास्वादयति भुङ्क्ते ऽथ परितृप्यति
सकलार्थपरित्यागाद् दिनानुदिनम् आततात् । शुद्धस्वभावविश्रान्तिḫ परमार्थाप्तिर् उच्यते
भेदबुद्धौ विलीनायां बोध एवावशिष्यते । शुद्धम् एकम् अनाद्यन्तं तद् ब्रह्मेति विदुर् बुधाः
लोकैषणाविरक्तेन त्यक्तदारैषणेन च । धनैषणाविमुक्तेन तस्मिन् विश्रम्यते पदे
परेण परिणामेन मिथश् चित्परमार्थयोः । तापेन हिमलेखेव भेदबुद्धिर् विलीयते
तज्ज्ञस्याक्लिष्टमुक्तस्य स्वभावं सुसमं विना । स्थितिस् स्रग्दामकस्येव न सम्भवति काचन
यथाप्रकटिताङ्गान्तस् संस्थिता सालभञ्जिका । न सती नासती स्तम्भे तथा विश्वस्थितिḫ परे
ध्यानं न शक्यते कर्तुं न चैतद् उपयुज्यते । अबोधेन विबुद्धस् तु स्वयम् अत्रैव तिष्ठति
आत्यन्तिकी विरसता यस्य दृश्येषु दृश्यते । स बुद्धो नाप्रबुद्धस्य दृश्यत्यागे हि शक्तता
दृश्यस्य बोधताबोधो यो बोधाद् अपरिक्षयः । स समाधानशब्देन कथ्यते सुसमाहितैः
द्रष्टृदृश्यैकतारूपḫ प्रत्ययो मनसो यदा । उदेत्य् एकसमाधाने तदा विश्राम्यति स्वयम्