जीवन्मुक्तत्वम् अस्मिंस् तु श्रुते समनुभूयते । स्वयम् एव यथा पीते नीरोगत्वं वरौषधे
श्रूयमाणे हि शास्त्रे ऽस्मिञ् श्रोता वेत्त्य् एतद् आत्मना । यथावद् इदम् अस्माभिर् न तूक्तं वरशापवत्
शाम्यति संसृतिदुःखम् इदं ते स्वात्मविचारमहाकथयैव । नो धनदानतपश्श्रुतवेदैस् तत्कथनोज्झितयत्नशतेन
तच्चित्तास् तद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश् च तन् नित्यं तुष्यन्ति रमयन्ति ये
तेषां ज्ञानैकनिष्ठानाम् आत्मज्ञानविचारणात् । सा जीवन्मुक्ततोदेति विदेहोन्मुक्ततैव या
ब्रह्मन् विदेहमुक्तस्य जीवन्मुक्तस्य लक्षणम् । ब्रूहि येन तथैवाहं यते शास्त्रदृशा धिया
यथास्थितम् इदं यस्य व्यवहारवतो ऽपि च । अस्तङ्गतं स्थितं व्योम स जीवन्मुक्त उच्यते
बोधैकनिष्ठतां यातो जागर्त्य् एव सुषुप्तवत् । य आस्ते व्यवहर्तैव स जीवन्मुक्त उच्यते
नोदेति नास्तम् आयाति सुखे दुःखे मुखप्रभा । यथाप्राप्तस्थितेर् यस्य स जीवन्मुक्त उच्यते
यो जागर्ति सुषुप्तस्थो यस्य जाग्रन् न विद्यते । यस्य निर्वासनो बोधस् स जीवन्मुक्त उच्यते
रागद्वेषभयादीनाम् अनुरूपं चरन्न् अपि । यो ऽन्तर् व्योमवद् अत्यच्छस् स जीवन्मुक्त उच्यते
यस्य नाहङ्कृतो भावो बुद्धिर् यस्य न लिप्यते । कुर्वतो ऽकुर्वतो वापि स जीवन्मुक्त उच्यते
यश् चोन्मेषनिमेषाभ्यां विधेः प्रलयसम्भवौ । पश्येत् त्रिलोक्याः खसमस् स जीवन्मुक्त उच्यते
भोक्तैव यो न भोक्तैव शुद्धबोधैकतां गतः । बुद्धस् सुप्त इवास्ते ऽन्तस् स जीवन्मुक्त उच्यते
नित्यं द्रष्टैव चाद्रष्टा जीवन्न् एव मृतोपमः । व्यवहर्तैव शैलाभस् स जीवन्मुक्त उच्यते
यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः । हर्षामर्षभयोन्मुक्तस् स जीवन्मुक्त उच्यते
शान्तसंसारकलनः कलावान् अपि निष्कलः । यस् सचित्तो ऽपि निश्चित्तस् स जीवन्मुक्त उच्यते
यस् समस्तार्थजातेषु व्यवहार्य् अपि शीतलः । परार्थेष्व् इव पूर्णात्मा स जीवन्मुक्त उच्यते
जीवन्मुक्तपदं त्यक्त्वा देहे कालवशात् क्षते । चिद् यात्य् अदेहमुक्तत्वं पवनो ऽस्पन्दताम् इव
विदेहमुक्तो नोदेति नास्तम् एति न शाम्यति । न सन् नासन् न दूरस्थं न चाहं न च वेतरत्
सूर्यो भूत्वा प्रतपति विष्णुः पाति जगत्त्रयम् । रुद्रस् सर्वान् संहरति सर्वान् सृजति पद्मभूः
खं भूत्वा पवनस्कन्धान् धत्ते सर्क्षसुरासुरान् । कुलाचलगणो भूत्वा लोकपालपुरास्पदम्
भूमिर् भूत्वा बिभर्तीमां लोकस्थितिम् अखण्डिताम् । तृणगुल्मलता भूत्वा ददाति फलसन्ततिम्
बिभ्रज् जलानलाकारञ् ज्वलति द्रवति द्रुतः । चन्द्रो ऽमृतं प्रसवति मृतिं हालाहलं विषम्
तेजः प्रकटयत्य् आशास् तनोत्य् आन्ध्यं तमो भवन् । शून्यं सन् व्योमताम् एति गिरिस् सन् रोधयत्य् अलम्
करोति जङ्गमं चित्त्वे स्थावरं स्थावराक्र्टिः । भूत्वार्णवो वलयति भूस्त्रियं वलयो यथा
परमार्कवपुर् भूत्वा प्रकाशे ऽन्तर् विसारयन् । त्रिजगत्त्रसरेण्वोघं शान्तम् एवावतिष्ठति
यत् किञ्चिद् इदम् आभाति भातं वा भाम् उपैष्यति । कालत्रयगतं दृश्यं तद् असौ सर्वम् एव वा
कथम् एवं वद ब्रह्मन् भूयते विषमा हि मे । दृष्टिर् एषा तु दुष्प्रापा दुराक्रम्येति निश्चयः
मुक्तिर् एषोच्यते राम ब्रह्मैतत् समुदाहृतम् । निर्वाणम् एतत् कथितं शृणु सम्प्राप्यते कथम्