निबध्नात्य् आत्मना पीठं कुलाचल इव स्थिरम् । फलस्य रचयत्य् ऊर्ध्वे घटिकां मङ्गलाचिताम्
विवेकफलवृक्षे तु वर्धमाने दिने दिने । छायावितानवलिते पुंसो हृदयकानने
प्रवर्तते शीतलता तलतापापहारिणी । अत्युल्लसन्मतिलतातुषारोदरसुन्दरी
यस्याम् अवान्तरश्रान्तो विश्राम्यति मनोमृगः । आजन्मजीर्णपथिकḫ पथि कोलाहलाकुलः
सत्तामात्रात्मशारीरशर्मार्थं प्रेक्षितो ऽरिभिः । नानातासारम् आत्मानं गोपयन् कुञ्जकोन्मुखः
संसारारण्यविसरद्वासनापवनेरितः । अहन्तातापसरिता सर्वदा विप्रलम्भितः
दारदीर्घदरीदूरचिरसञ्चारजर्जरः । पुत्रपत्त्रपरामर्शप्रपातात् पतितो ऽवटे
लक्ष्मीलताविलुठनात् सङ्कटे कुट्टिताङ्गकः । तृष्णाश्रीसरितं गृह्णन् कल्लोलैर् दूरम् आहृतः
व्याधिदुर्व्याधवैधुर्यपलायनपरायणः । अशङ्कितविधिव्याधपातातिचकिताकृतिः
गेयास्वादसमापातदुẖखसायकशङ्कितः । वैरिविद्रावणव्यग्रो दृषदाहननाङ्कितः
उन्नतानतसम्पातनिपातानतिघूर्णितः । न्यक्कारोपलनिर्घातैḫ पारम्पर्येण चूर्णितः
तृष्णाशरलताजालप्रवेशवशविक्षतः । स्वप्रज्ञारचिताचारḫ परमायास्व् अशिक्षितः
इन्द्रियग्रामम् आगत्य प्रपलायनतत्परः । सुदुर्ग्रहगजेन्द्रोग्रविस्फूर्जनविमर्दितः
विषयाजगरोद्गारविषफूत्कारमूर्छितः । कामकौलेयकैर् भूमौ रसार्द्रायां विपोथितः
कोपदावानलप्लुष्टस्पष्टविस्फोटदाहवान् । सदागतागतानेकदीर्घदुẖखप्रवाहवान्
स्वाङ्गलग्नाभिलाषांशदंशदोषैर् उपद्रुतः । भोगलोभलसन्मेदस्सृगालचिरविद्रुतः
स्वकर्मकन्दरोद्वान्तदारिद्र्यद्वीप्यनुद्रुतः । व्यामोहमिहिकान्धत्वकूटावटलुठत्तनुः
मानसिंहसमुल्लासहृदयोत्कम्पनातुरः । मरणेनारणेयेन बुकपुष्पम् इवेक्षितः
गर्धान् निगरणायाशु दूरतो जनसेवितः । कामैस् समन्ततो दत्तचिन्तानिचयवागुरः
तारुण्यनाम्ना सुहृदा क्षणम् आलिङ्ग्य वर्जितः । दुस्सञ्चारेषु पवनैẖ कुपितैर् इव तर्जितः
कदाचिन् निर्वृतिं यातẖ क्षणं शमतरौ क्वचित् । मनोहरिणको राजन् राजीवम् इव भास्वति
तालीतमालबकुलादिकवृक्षगुल्मविश्रान्तिषु प्रचुरपुष्पविलासहासैः । नामापि यस्य न विदन्ति सुखस्य मूढाḫ प्राप्नोति तच् छमतरोस् स्वमनोमृगो वः
इति विश्रान्तिमान् एष मनोहरिणको ऽरिहन् । तत्रैव रतिम् आयाति न याति विटपान्तरम्
एतावताथ कालेन स विवेकद्रुमḫ फलम् । अन्तस्स्थं परमार्थात्म शनैḫ प्रकटयत्य् अलम्
ध्यानद्रुमफलं पुण्यं तद् असौ स्वमनोमृगः । अधस्स्थितḫ प्रान्तगतं तस्य पश्यति सत्तरोः
आरोहति ततो वृक्षं तद् आस्वादयितुं फलम् । अन्यगर्धपरित्यागे वितताध्यवसायवान्
विवेकरसम् आक्रामन् वृत्तीस् त्यजति भूगताः । उत्तमं पदम् आसाद्य भूयो नाधस् समीहते
तेनोत्तमफलार्थेन संस्कारान् प्राक्तनान् असौ । विवेकपदम् आरूढस् त्यजत्य् अहिर् इव त्वचम्
हसत्य् उच्चैḫ पदारूढम् आत्मानम् अवलोकयन् । एतावन्तम् अहं कालं कृपणẖ को ऽभवं त्व् इति
करुणादिषु तेष्व् अस्तभ्रमश् शाखान्तरेषु सः । लोभव्यालम् अधẖ कुर्वन् सम्राड् इव विराजते