स्तम्भम् एवाथ बध्नाति स्थैर्यं नाम समुन्नतम् । सन्तोषत्वग्विवलितं वैराग्यरसरञ्जितम्
वैराग्यरसपुष्टात्मा शास्त्रार्थप्रावृषान्वितः । स्वल्पेनैव स कालेन पराम् एति समुन्नतिम्
शास्त्रार्थसाधुसम्पर्कवैराग्यरसपीवरः । रागद्वेषकपिक्षोभैर् न मनाग् अपि कम्पते
अथ तस्मात् प्रजायन्ते विज्ञानालङ्कृताकृतेः । लता रसविलासिन्य इमा विततदेशगाः
स्फुटता सत्यता सत्ता धीरता निर्विकल्पता । समता शान्तता मैत्री करुणा कीर्तितार्यता
लताभिर् गुणपत्त्राभिस् स ध्यानतरुर् ऊर्जितः । यशḫपुष्पाभिर् एताभिḫ पारिजातायते यतेः
इत्य् असौ ज्ञानविटपी लतापल्लवपुष्पवान् । भविष्यद्ध्यानफलदो दिनानुदिनम् उन्नमन्
यशẖकुसुमगुच्छाढ्यो गुणपल्लवलास्यवान् । वैराग्यरसविस्तारी प्रज्ञामञ्जरिताकृतिः
सर्वाश् शीतलयत्य् आशाḫ प्रावृषीव पयोधरः । भवातपं शमयति सूर्यतापम् इवोडुपः
प्रतनोति शमच्छायां छायाम् इव घनागमः । निरोधम् आस्फालयति समो ऽनिल इवाम्बुदम्
निबध्नात्य् आत्मना पीठं कुलाचल इव स्थिरम् । फलस्य रचयत्य् ऊर्ध्वे घटिकां मङ्गलाचिताम्
विवेकफलवृक्षे तु वर्धमाने दिने दिने । छायावितानवलिते पुंसो हृदयकानने
प्रवर्तते शीतलता तलतापापहारिणी । अत्युल्लसन्मतिलतातुषारोदरसुन्दरी
यस्याम् अवान्तरश्रान्तो विश्राम्यति मनोमृगः । आजन्मजीर्णपथिकḫ पथि कोलाहलाकुलः
सत्तामात्रात्मशारीरशर्मार्थं प्रेक्षितो ऽरिभिः । नानातासारम् आत्मानं गोपयन् कुञ्जकोन्मुखः
संसारारण्यविसरद्वासनापवनेरितः । अहन्तातापसरिता सर्वदा विप्रलम्भितः
दारदीर्घदरीदूरचिरसञ्चारजर्जरः । पुत्रपत्त्रपरामर्शप्रपातात् पतितो ऽवटे
लक्ष्मीलताविलुठनात् सङ्कटे कुट्टिताङ्गकः । तृष्णाश्रीसरितं गृह्णन् कल्लोलैर् दूरम् आहृतः
व्याधिदुर्व्याधवैधुर्यपलायनपरायणः । अशङ्कितविधिव्याधपातातिचकिताकृतिः
गेयास्वादसमापातदुẖखसायकशङ्कितः । वैरिविद्रावणव्यग्रो दृषदाहननाङ्कितः
उन्नतानतसम्पातनिपातानतिघूर्णितः । न्यक्कारोपलनिर्घातैḫ पारम्पर्येण चूर्णितः
तृष्णाशरलताजालप्रवेशवशविक्षतः । स्वप्रज्ञारचिताचारḫ परमायास्व् अशिक्षितः
इन्द्रियग्रामम् आगत्य प्रपलायनतत्परः । सुदुर्ग्रहगजेन्द्रोग्रविस्फूर्जनविमर्दितः
विषयाजगरोद्गारविषफूत्कारमूर्छितः । कामकौलेयकैर् भूमौ रसार्द्रायां विपोथितः
कोपदावानलप्लुष्टस्पष्टविस्फोटदाहवान् । सदागतागतानेकदीर्घदुẖखप्रवाहवान्
स्वाङ्गलग्नाभिलाषांशदंशदोषैर् उपद्रुतः । भोगलोभलसन्मेदस्सृगालचिरविद्रुतः
स्वकर्मकन्दरोद्वान्तदारिद्र्यद्वीप्यनुद्रुतः । व्यामोहमिहिकान्धत्वकूटावटलुठत्तनुः
मानसिंहसमुल्लासहृदयोत्कम्पनातुरः । मरणेनारणेयेन बुकपुष्पम् इवेक्षितः
गर्धान् निगरणायाशु दूरतो जनसेवितः । कामैस् समन्ततो दत्तचिन्तानिचयवागुरः
तारुण्यनाम्ना सुहृदा क्षणम् आलिङ्ग्य वर्जितः । दुस्सञ्चारेषु पवनैẖ कुपितैर् इव तर्जितः