त्वं मनस्कारमात्रात्मा संसृतौ विभ्रमायसे । स्वभावैकपरिज्ञानान् नासि नापि भ्रमायसे
मनस्तैव हि संसार आत्मबोधेन शाम्यति । शुक्तिरुप्यभ्रमाकारो जनो मिथ्यैव ताम्यति
अभावभावस् तु परं बोधरूपम् असंसृतिः । निर्वाणाद् इतरा सत्ता दुẖखायाहम् इति भ्रमः
मृगतृष्णाम्बुरूपो ऽहम् असच् छून्यस्वरूपकः । इत्य् एवात्मपरिज्ञानाद् अहम् इत्य् आशु शाम्यति
ज्ञात्वा ज्ञानपरो भूत्वा सबाह्याभ्यन्तरार्थताम् । गतं स्वम् अत्यजद् रूपं तरङ्गत्वं यथा पयः
मूलशाखाग्रपर्यन्ता सत्ता विटपिनो यथा । निर्विकारामला ज्ञप्तिर् ज्ञेयान्तैकैव भासते
यथा योजनलक्षाभम् एकम् एवामलं नभः । एकम् एव तथा ज्ञानं ज्ञेयान्तं भात्य् अखण्डितम्
शून्यत्वाद् एकम् अमलं यथा सर्वगम् एव खम् । तथैकम् अमलं ज्ञत्वाज् ज्ञानं ज्ञेयदशास्व् अपि
घृतेनात्मा घनीभूय पाषाणीक्रियते यथा । चिता चेत्यतयात्मैव स्वश् चित्तीक्रियते तथा
देशकालं विनैवात्मा बोधाद् बोधेन चित्तताम् । अबुद्धो नीयते न्याय एवम् एवैष सुस्थितः
अत्र यद्य् अपि बोधादेस् सम्भवो नास्ति कश्चन । तथापि कल्प्यते ऽत्रैवं बोधनाय परस्परम्
महानुभावा विगताभिमाना विमूढभावोपशमे लगन्ति । निर्भ्रान्तयो ऽनन्ततयैव शान्ता नित्यं समाधानमया भवन्ति
क्रमात् समाधानतरोर् आजीवं फलशालिनीम् । सलताकुसुमां ब्रूहि सत्तां विश्रान्तिदां मुने
आजीवम् उद्यदुत्सेधं विवेकिजनकानने । पुष्पपत्त्रफलोपेतं समाधानतरुं शृणु
यथा कथञ्चिद् उदितं दुẖखेन स्वयम् एव वा । संसारनवनिर्वेदं बीजम् अस्य विदुर् बुधाः
शुभजालहलाकृष्टं रसासिक्तम् अहर्निशम् । प्रवहच्छ्वसनाकुल्यं क्षेत्रम् अस्य मनो विदुः
समाधिबीजं संसारनिर्वेदḫ पतति स्वयम् । चित्तभूमौ विविक्तायां विवेकिजनकानने
स्वचित्तभूमौ पतितं ध्यानबीजं महाधिया । सेकैर् अमीभिर् यत्नेन संसेक्तव्यम् अखिन्दता
शुद्धैस् स्निग्धैḫ पवित्रैश् च मधुरैर् आत्मनेहितैः । सत्सङ्गमनवक्षीरैर् ऐन्दवैर् अमृतैर् इव
अन्तश्शैत्यप्रदैḫ पूर्णैस् स्वच्छैर् अमृतशीतलैः । विसृतैर् मतिकुल्यासु शास्त्रार्थवरवारिभिः
स्वचित्तभूमौ पतितं परिज्ञाय महाधिया । बीजं संसारनिर्वेदो रक्ष्यं ध्यानस्य यत्नतः
तपḫप्राकारदानेन परार्थघटनोक्षितैः । तीर्थायतनविश्रान्तिधृतिविस्तारकल्पनैः
कर्तव्यो ऽङ्कुरितस्यास्य रक्षिता शिक्षिताशयः । सन्तोषनामा प्रियया नित्यं मुदितयान्वितः
पश्चात्स्थिताशाविहगान् परप्रणयपक्षिणः । अस्माद् आपततẖ कामगर्वगृध्रान् निवारयेत्
मृदुभिस् सत्क्रियाकूर्चैर् विवेकार्कातपैर् इव । औचित्यालोकदैर् अस्मान् मार्जितव्यं रजस् तमः
सम्पदḫ प्रमदाश् चैव तरङ्गा भोगभङ्गुराः । पतन्त्य् अशनयस् तस्मिन् दुष्कृताभ्रसमीरिताः
धैर्यौदार्यदयामन्त्रैर् जपस्नानतपोदमैः । विनिवारयितव्यास् ताḫ प्रणवार्थत्रिशूलिना
इति संरक्षिताद् अस्माद् ध्यानबीजात् प्रवर्तते । आभिजात्योन्नतश् श्रीमान् विवेकाख्यो नवाङ्कुरः
तेन सा चित्तभूर् भाति सप्रकाशाप्रकाशिनी । भवत्य् आलोकरम्या च खं यथाभिनवेन्दुना
तस्माद् अङ्कुरतḫ पत्त्रे उभे विकसतस् स्वयम् । एकं शास्त्राभिगमनं द्वितीयं साधुसङ्गमः