भ्रान्तिशान्तौ विमुक्तस्य विनिर्वाणस्य विश्वता । यथा स्थितैव गलिता विद्यते च यथास्थितम्
निर्दग्धतृणभस्माली क्वापि याति यथानिलैः । सतां स्वभावविश्रामैẖ क्वापि याति तथा जगत्
जगद् ब्रह्मपदार्थस्य सन्निवेशस् स तूत्तमः । ब्रह्मशब्दार्थरूपात्मा न जगच्छब्दकार्थभाक्
नवजातस्य बालस्य पदार्था यादृशा इमे । विदुषस् तादृशा एव तिष्ठतẖ क्षीणवासनम्
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा रात्रिḫ पश्यतो मुनेः
स्थितम् एव विरामाय जाग्रज् ज्ञस्य सुषुप्तवत् । चित्रावलोकिन इव जाग्रत्य् अस्य रसैषणाः
जात्यन्धरूपानुभवसमं भुवनवेदनम् । भ्रान्तप्रायम् असद्रूपं ज्ञस्य भाति न भाति च
विमूढबुद्धं त्रिजगद् विबुद्धविषयं न सत् । विबुद्धबुद्धं त्रिजगद् विमूढविषयं न सत्
स्वप्ने स्वप्नतया ज्ञाते रूपालोकमनẖक्रियाः । न स्वदन्ते यथा तद्वज् जाग्रत्स्वप्ने स्फुरन्तु मा
निर्विभागस् समाश्वस्तो निरोधं परम् आगतः । आशीतलान्तẖकरणो निर्वाणो ज्ञो ऽवतिष्ठते
तज्ज्ञस्याक्लिष्टमुक्तस्य समं ध्यानं विना स्थितिः । निम्नं विनेव तोयस्य न सम्भवति काचन
अर्थ एव मनस्कारो मन एवार्थरञ्जनम् । एक एवैष आभासस् सबाह्याभ्यन्तरात्मकः
आसमुद्रं नदीवाहशतसङ्गमयात्मकम् । यथैकश्लेषपिण्डात्म नयत्य् अम्बु तरङ्गितम्
सबाह्याभ्यन्तराकारम् अर्थानर्थमयात्मकम् । मन एव स्फुरत्य् अर्थनिर्भासं व्याततं तथा
नास्त्य् अर्थमनसोर् द्वित्वं यथा जलतरङ्गयोः । एकाभावे द्वयोश् शान्तिḫ पवनस्पन्दयोर् इव
नूनम् एकोपशान्त्यैव निस्सारे परमार्थतः । एकत्वाद् अर्थमनसी समम् एवाशु शाम्यतः
अर्थस् सङ्कल्परूपात्मा नेहितव्यो विजानता । मनश् च सम्यग्ज्ञानेन शान्तिर् एवं भवेत् तयोः
अनष्टे नश्यतश् चैव ज्ञस्यार्थमनसी स्वतः । मृण्मये द्विषति ज्ञानाद् द्विषद्भावभये यथा
यथासंस्थं स्थिते एव ज्ञस्यार्थमनसी सदा । किम् अप्य् अपूर्वम् एवान्यत् सम्पन्ने ऽभावरूपिणी
सञ्चितार्थजगज्जालो ऽप्य् अज्ञो ज्ञविषये ऽप्य् असन् । पार्श्वसुप्तनरस्वप्न इव क्षीवाग्रयक्षवत्
ज्ञस्य साज्ञं जगन् नास्ति धीरस्येव पिशाचधीः । ज्ञम् अज्ञो भावयत्य् अज्ञं स्वभावं सर्वगं विदुः
मनश्शब्दार्थरहितं विभागान्तविवर्जितम् । बोधवारि मनो विद्धि तरङ्गम् इव निर्मलम्
क्व सम्भवत एवातẖ के वार्थमनसी किल । निरर्थकैव विद्भ्रान्तिस् स्वभावमयम् आस्यताम्
शुद्धबोधस्वभावस्थैर् आकाशैर् इव शारदैः । जाग्रत्स्वप्नसुषुप्तान्तैर् मनस्त्वं नानुभूयते
विधूयानन्तनानात्वम् असम्भवम् अनामये । ज्ञेयं रज इवाशेषं स्वभावे तिष्ठ चिद्घने
ज्ञप्तिर् एवान्तरं बाह्यं चार्थत्वम् अधितिष्ठति । बीजं शाखाफलानीव क्वातो ऽर्थमनसी वद
ज्ञेयासम्भवतो ज्ञप्तिर् अप्य् अनाख्यं पदं गता । शान्ताशेषविशेषात्मा तेन शेषो ऽसि सन् स्वभाः
अर्थ एव मनस्कारस् स चाभावात्मको भ्रमः । मन एवार्थसंस्कारस् स चाभावात्मको भ्रमः
सर्वात्मत्वाद् अजस्यैतद् अपकारणकं मनः । भ्रमानुभवतो ऽर्थश् च मिथ्यैवास्तीव भासते
अकारणकम् एवार्थनिर्भासं भासते मनः । विद्युद्विलसिताकारम् अस्थिरं तरलायते