जगद्गन्धर्वनगरागारगर्धेन नश्यथ । सुखरूपाणि दुẖखानि शासनायैव पश्यथ
जगत्केशोण्डुकं भ्रान्त्यै मा महाम्बरमध्यगम् । अवलोकयताभ्रान्ते स्वरूपे परिणम्यताम्
मानवा वातलोलोच्चपत्त्रप्रान्ताम्बुभङ्गुराः । मा नवासु नवास्व् अन्धगर्भशय्यासु शय्यताम्
अविरामम् अनाद्यन्तं स्वभावे शान्तम् आस्यताम् । द्रष्टृदृश्यदशादोषाद् अस्वभावाद् विरम्यताम्
अज्ञावबुद्धस् संसारस् साहं नास्ति मनाग् अपि । अविशिष्टं तु यत् सत्यं तस्य नाम न विद्यते
त्रोटयित्वा तु तृष्णायश्शृङ्खलावलितं बलात् । संसारपञ्जरं तिष्ठ सर्वस्योर्ध्वे मृगेन्द्रवत्
आत्मात्मीयग्रहभ्रान्तिशान्तिमात्रं विमुक्तता । यथातथास्थितस्यापि सा स्वसत्तैव योगिनः
निर्वाणतावासनता परोपशमता ज्ञता । संसाराध्वनि खिन्नस्य शीता विश्रमभूमयः
तज्ज्ञज्ञातो न मूर्खाणां मूर्खज्ञातो न तद्विदाम् । विद्यते जगदर्थो ऽसाव् अवाच्यो ऽन्यस् तयोर् मिथः
विश्वता भ्रान्तिसंशान्तौ संस्थितैव न लभ्यते । महार्णवाम्बुवलिता पुत्रिकेव पयोमयी
भ्रान्तिशान्तौ विमुक्तस्य विनिर्वाणस्य विश्वता । यथा स्थितैव गलिता विद्यते च यथास्थितम्
निर्दग्धतृणभस्माली क्वापि याति यथानिलैः । सतां स्वभावविश्रामैẖ क्वापि याति तथा जगत्
जगद् ब्रह्मपदार्थस्य सन्निवेशस् स तूत्तमः । ब्रह्मशब्दार्थरूपात्मा न जगच्छब्दकार्थभाक्
नवजातस्य बालस्य पदार्था यादृशा इमे । विदुषस् तादृशा एव तिष्ठतẖ क्षीणवासनम्
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा रात्रिḫ पश्यतो मुनेः
स्थितम् एव विरामाय जाग्रज् ज्ञस्य सुषुप्तवत् । चित्रावलोकिन इव जाग्रत्य् अस्य रसैषणाः
जात्यन्धरूपानुभवसमं भुवनवेदनम् । भ्रान्तप्रायम् असद्रूपं ज्ञस्य भाति न भाति च
विमूढबुद्धं त्रिजगद् विबुद्धविषयं न सत् । विबुद्धबुद्धं त्रिजगद् विमूढविषयं न सत्
स्वप्ने स्वप्नतया ज्ञाते रूपालोकमनẖक्रियाः । न स्वदन्ते यथा तद्वज् जाग्रत्स्वप्ने स्फुरन्तु मा
निर्विभागस् समाश्वस्तो निरोधं परम् आगतः । आशीतलान्तẖकरणो निर्वाणो ज्ञो ऽवतिष्ठते
तज्ज्ञस्याक्लिष्टमुक्तस्य समं ध्यानं विना स्थितिः । निम्नं विनेव तोयस्य न सम्भवति काचन
अर्थ एव मनस्कारो मन एवार्थरञ्जनम् । एक एवैष आभासस् सबाह्याभ्यन्तरात्मकः
आसमुद्रं नदीवाहशतसङ्गमयात्मकम् । यथैकश्लेषपिण्डात्म नयत्य् अम्बु तरङ्गितम्
सबाह्याभ्यन्तराकारम् अर्थानर्थमयात्मकम् । मन एव स्फुरत्य् अर्थनिर्भासं व्याततं तथा
नास्त्य् अर्थमनसोर् द्वित्वं यथा जलतरङ्गयोः । एकाभावे द्वयोश् शान्तिḫ पवनस्पन्दयोर् इव
नूनम् एकोपशान्त्यैव निस्सारे परमार्थतः । एकत्वाद् अर्थमनसी समम् एवाशु शाम्यतः
अर्थस् सङ्कल्परूपात्मा नेहितव्यो विजानता । मनश् च सम्यग्ज्ञानेन शान्तिर् एवं भवेत् तयोः
अनष्टे नश्यतश् चैव ज्ञस्यार्थमनसी स्वतः । मृण्मये द्विषति ज्ञानाद् द्विषद्भावभये यथा
यथासंस्थं स्थिते एव ज्ञस्यार्थमनसी सदा । किम् अप्य् अपूर्वम् एवान्यत् सम्पन्ने ऽभावरूपिणी
सञ्चितार्थजगज्जालो ऽप्य् अज्ञो ज्ञविषये ऽप्य् असन् । पार्श्वसुप्तनरस्वप्न इव क्षीवाग्रयक्षवत्