ज्ञप्तिर् अप्य् आत्मतत्त्वश्रीḫ परिज्ञातापि शाम्यति । ज्ञेयाभावे त्व् अनिर्वाच्या शिष्यते शाश्वतं शिवम्
अशरीराद्य् अविश्वात्म सर्वं शान्तम् इदं ततम् । ज्ञानज्ञेयज्ञप्तिमात्रं दृषन्मौनम् अवस्थितम्
शान्तान्तẖकरणास् स्वच्छाश् शिलापुत्रककोशवत् । चलन्तश् चाचलन्तश् च ज्ञरूपा एव तिष्ठत
अज्ञेयज्ञत्वसद्रूपास् सदसत्साररूपिणः । आकाशकोशविशदा भवताभवभूमयः
यथास्थितं च तिष्ठन्तो गच्छन्तश् च यथागतम् । यथाप्राप्तैककर्माणस् सम्पद्यन्ते बुधाḫ परम्
अथ वा सर्वसन्त्यागशान्तान्तẖकरणोज्ज्वलाः । एकान्तेष्व् एव तिष्ठन्ति चित्रकर्मार्पिता इव
सङ्कल्पशान्तौ सङ्कल्पपुरवत् सर्वदाखिलम् । स्वप्नवच् च प्रबुद्धस्य सद् एवास्तङ्गतं जगत्
सनेत्ररूपानुभवं जातितो ऽन्ध इवागमैः । निर्वाणं वर्णयन्न् अज्ञस् ताम्यत्य् अन्तर् न शाम्यति
कल्पनांशोपदेशेन लोको ऽविद्यामयात्मना । येन केनचिद् अज्ञत्वात् कृतार्थो ऽस्मीति मन्यते
अकृतार्थẖ कृतार्थत्वं जानन् मौर्ख्यविमोहितः । विज्ञास्यत्य् अकृतार्थत्वं क्षणान्तरकदर्थनैः
उपायं कल्पनात्मानम् अनुपायं विदुर् बुधाः । दुẖखदत्वान् निमेषेण भावाभावैषणभ्रमैः
जगद्भ्रमं परिज्ञाय यद् अवासनम् आसितम् । विरसाशेषविषयं तद् धि निर्वाणम् उच्यते
आख्यायिकार्थप्रतिभानरूपम् अचेत्यचिद्वारिभरद्रवात्मा । अवेद्यविद्रूपम् अशेषम् अच्छं पश्यन् विनिर्वामि जगत्स्वरूपम्
जात्यन्धरूपानुभवानुरूपं यद् आगमैर् बुद्धम् अबोधरूपम् । अधस्पदीकृत्य तद् अन्तर् अस्मिन् बोधे निपत्यानुभवे भवाभूः
अहन्तादि जगच् चेदं परिज्ञानाद् असत्यताम् । याति सानुभवे मोहात् सत्यम् एवान्यथाधियाम्
अज्ञानज्वरमुक्तस्य बोधशीतलितात्मनः । एतद् एव भवेच् चिह्नं यद् भोगाम्बु न रोचते
अलम् अन्यैḫ परिज्ञानैर् वाच्यवाचकविभ्रमैः । अनहंवेदनामात्रं निर्वाणं तद् विभाव्यताम्
अभिज्ञाता यथा स्वप्ने पदार्था रमयन्ति नो । न च सन्ति तथैवास्मिन् नाहं जगद् इति भ्रमे
यथा स्वभावनाद् यक्षस् तरौ सस्वजनं पुरम् । पश्यत्य् असत्यम् एवैवं जीवḫ पश्यति संसृतिम्
विभ्रमात्मा यथा यक्षो यक्षालोकश् च तौ मिथः । सद्रूपौ संस्थितौ मिथ्या तथाहन्त्वजगद्भ्रमौ
अनावरणतो ऽरण्ये यक्षाद् विभ्रमरूपिणः । यथा स्फुरन्ति भूतानि तथेमानि चतुर्दश
भ्रममात्रम् अहं मिथ्यैवेति बुद्ध्या विभावयन् । यक्षो ऽयक्षत्वम् आयाति चित्तं चाचित्तताम् इदम्
निरस्तसकलाशङ्कं त्यागग्रहणवर्जितम् । अविसारिसमस्तेच्छं शान्तम् आस्स्व यथास्थितम्
अत्यन्तासम्भवद्दृश्यं द्रष्ट्रात्मकम् इदं ततम् । अथ वा नैव द्रष्ट्रात्म सवाच्यं किम् अवाप्यते
वसन्तरसपूरस्य यथा विटपगुल्मता । स्वरूपमात्रभरतस् संविदस् सर्गता तथा
यद् इदं जगदाभासं शुद्धचिन्मात्रवेदनम् । कात्रैकता द्विता का वा निर्वाणम् अलम् आस्यताम्
भूयतां चिन्मयव्योम्ना पीयतां परमो रसः । स्थीयतां विगताशङ्कं निर्वाणानन्दनन्दने
किम् एतास्व् अतिशून्यासु संसारारण्यभूमिषु । मानवा वातहरिणा भ्रमथोद्भ्रान्तबुद्धयः
जगत्त्रयमरीच्यम्बुविप्रलब्धान्धबुद्धयः । मा धावत घनव्यग्रम् आशयोपहताशयाः
रूपालोकमनस्कारमृगतृष्णाम्बुपायिनः । व्यर्थं मा यूयम् आयूंषि नराẖ क्षपयतैणकाः