विचारशमसत्सङ्गबलिपुष्पैकपूजितः । सद्यो मोक्षकरस् साधोस् स्वात्मैव परमेश्वरः
सत्यालोकनमात्रैकपूजितो ऽनुत्तमार्थदः । यत्रास्त्य् आत्मेश्वरस् तत्र मूढẖ को ऽन्यं समाश्रयेत्
सत्सङ्गशमसन्तोषविवेकैḫ पूजितात्मनः । शिरीषकुसुमायन्ते शस्त्राहिविषवह्नयः
देवार्चनतपस्तीर्थदानान्य् अतिकृतान्य् अपि । भस्मायन्ते निरर्थत्वाद् अविवेकहतात्मनाम्
एतान्य् अपि विवेकेन क्रियन्ते सफलानि चेत् । विवेक एव तत् कस्मात् स्फुटम् अन्तर् न साध्यते
यथाभूतार्थविज्ञानाद् वासनोपरमे पदे । यत्नो विवेकशब्दाख्यो भवत्य् आत्मप्रसादतः
तथा तथा विवेको ऽन्तर् वृद्धिं नेयश् शमामृतैः । यथा यथा पुनश् शोषम् उपयाति न विभ्रमैः
देहसत्ताम् अनादृत्य यथाभूतार्थदर्शनात् । लज्जां भयं विषादेर्ष्ये सुखं दुẖखं त्यजेत् समम्
जगदादि शरीरादि नास्त्य् एवादौ कुतो ऽद्य तत् । कार्यं चेत् कारणस्यैतत् तथापि ब्रह्ममात्रकम्
प्रतिभामात्रम् एवाच्छं न तु ज्ञप्तिर् घटादिवत् । ज्ञानात्मिकैव प्रतिभा ज्ञप्तिर् एवाखिलं ततः
ज्ञप्तिर् अप्य् आत्मतत्त्वश्रीḫ परिज्ञातापि शाम्यति । ज्ञेयाभावे त्व् अनिर्वाच्या शिष्यते शाश्वतं शिवम्
अशरीराद्य् अविश्वात्म सर्वं शान्तम् इदं ततम् । ज्ञानज्ञेयज्ञप्तिमात्रं दृषन्मौनम् अवस्थितम्
शान्तान्तẖकरणास् स्वच्छाश् शिलापुत्रककोशवत् । चलन्तश् चाचलन्तश् च ज्ञरूपा एव तिष्ठत
अज्ञेयज्ञत्वसद्रूपास् सदसत्साररूपिणः । आकाशकोशविशदा भवताभवभूमयः
यथास्थितं च तिष्ठन्तो गच्छन्तश् च यथागतम् । यथाप्राप्तैककर्माणस् सम्पद्यन्ते बुधाḫ परम्
अथ वा सर्वसन्त्यागशान्तान्तẖकरणोज्ज्वलाः । एकान्तेष्व् एव तिष्ठन्ति चित्रकर्मार्पिता इव
सङ्कल्पशान्तौ सङ्कल्पपुरवत् सर्वदाखिलम् । स्वप्नवच् च प्रबुद्धस्य सद् एवास्तङ्गतं जगत्
सनेत्ररूपानुभवं जातितो ऽन्ध इवागमैः । निर्वाणं वर्णयन्न् अज्ञस् ताम्यत्य् अन्तर् न शाम्यति
कल्पनांशोपदेशेन लोको ऽविद्यामयात्मना । येन केनचिद् अज्ञत्वात् कृतार्थो ऽस्मीति मन्यते
अकृतार्थẖ कृतार्थत्वं जानन् मौर्ख्यविमोहितः । विज्ञास्यत्य् अकृतार्थत्वं क्षणान्तरकदर्थनैः
उपायं कल्पनात्मानम् अनुपायं विदुर् बुधाः । दुẖखदत्वान् निमेषेण भावाभावैषणभ्रमैः
जगद्भ्रमं परिज्ञाय यद् अवासनम् आसितम् । विरसाशेषविषयं तद् धि निर्वाणम् उच्यते
आख्यायिकार्थप्रतिभानरूपम् अचेत्यचिद्वारिभरद्रवात्मा । अवेद्यविद्रूपम् अशेषम् अच्छं पश्यन् विनिर्वामि जगत्स्वरूपम्
जात्यन्धरूपानुभवानुरूपं यद् आगमैर् बुद्धम् अबोधरूपम् । अधस्पदीकृत्य तद् अन्तर् अस्मिन् बोधे निपत्यानुभवे भवाभूः
अहन्तादि जगच् चेदं परिज्ञानाद् असत्यताम् । याति सानुभवे मोहात् सत्यम् एवान्यथाधियाम्
अज्ञानज्वरमुक्तस्य बोधशीतलितात्मनः । एतद् एव भवेच् चिह्नं यद् भोगाम्बु न रोचते
अलम् अन्यैḫ परिज्ञानैर् वाच्यवाचकविभ्रमैः । अनहंवेदनामात्रं निर्वाणं तद् विभाव्यताम्
अभिज्ञाता यथा स्वप्ने पदार्था रमयन्ति नो । न च सन्ति तथैवास्मिन् नाहं जगद् इति भ्रमे
यथा स्वभावनाद् यक्षस् तरौ सस्वजनं पुरम् । पश्यत्य् असत्यम् एवैवं जीवḫ पश्यति संसृतिम्
विभ्रमात्मा यथा यक्षो यक्षालोकश् च तौ मिथः । सद्रूपौ संस्थितौ मिथ्या तथाहन्त्वजगद्भ्रमौ