अजस्रनाशोत्पादाढ्यम् एकरूपम् अनामयम् । अनाशोत्पादम् अजरम् अनेकम् इव कान्तिमत्
ब्रह्मैव शान्तघनभावगतं विभाति सर्गोदयेन विगतास्तमयोदयेन । व्योमैव शून्यविभवेन गलत्स्वभावलाभं प्रति प्रसभम् एव न तु प्रबुद्धे
चित्तवत् कचनं शान्ते यत् तत् तस्मान् न भिद्यते । अव्याकृतामलतया क्वातस् सर्गादिसम्भवः
चित्तदीपे गते यान्ति भ्रान्तिवद् भान्ति खे स्थिते । रूपालोकमनस्कारास् संविदम्बुद्रवोर्मयः
निरस्तकारणापेक्षं मरुतस् स्पन्दनं यथा । यथा विसरणं भासस् तथा जगद् इदं परे
द्रवत्वम् इव कीलाले शून्यत्वम् इव चाम्बरे । स्पन्दनं मरुतीवेदं किम् अप्य् आत्ममयं परे
महाचिति महाकाशे यद् इदं भासते जगत् । तच् चित्त्वम् एव कचति निर्मलत्वं मणाव् इव
यथा द्रवत्वं पयसि यथा शून्यत्वम् अम्बरे । यथा प्रस्पन्दनं वायौ महाचिति तथा जगत्
वेत्ति वायुर् यथा स्पन्दं तथा वेत्ति जगच् चितिः । न द्वैतैक्यादिभेदानां मनाग् अप्य् अत्र सम्भवः
अविवेकविवेकाभ्यां भासुरं भङ्गुरं जगत् । बोधे सद् एवासद्रूपम् अभासुरम् अभङ्गुरम्
ज्ञप्तिमात्राद् ऋते शुद्धाद् आदिमध्यान्तवर्जितात् । नान्यद् अस्तीति निर्णीतं महाचिन्मात्ररूपिणः
तत् कस्यचिच् छिवं शान्तं कस्यचिद् ब्रह्म शाश्वतम् । कस्यचिच् छून्यतामात्रं कस्यचिज् ज्ञप्तिमात्रकम्
तद् अनन्तात्म चिद्रूपं चेत्यताम् एव भावयत् । स्वसंस्थम् एव ज्ञेयत्वम् अवगच्छति चिन्तया
नास्ति सत्तां विना वायोर् यथा स्पन्देषु कारणम् । तथा महाचितो ऽच्छायास् सर्गसंवित्तिवृत्तिषु
नित्यं सत्त्वम् असत्त्वं वा हेतुर् अन्यानपेक्षणात् । इत्य् अत्रार्थे ऽभविष्यत् सद् द्वित्वैकत्वास्तितावशात्
को ऽत्र कल्पयिता द्वित्वम् एकत्वं वा महाम्बरे । विष्वग् विश्वम् अपारैका परमाकाशकोशता
यथा स्पन्दानिलद्वित्वशब्द एव न वास्तवः । विश्वविश्वेश्वरद्वित्वं तथैवासन्मयात्मकम्
सद् एवासम्भवद्द्वित्वं महाचिन्मात्रकं तु यत् । विश्वाभासं तद् एवेदं न विश्वं सन् न विश्वता
देशकालादिसत्त्वेन कदाचिद् धेम्नि सत्यता । कटकत्वस्य भिन्नस्य विश्वस्य न तथा परे
द्वित्वैक्यासम्भवे चात्र कार्यकारणता कुतः । स्याच् चेत् तत् कल्पनामात्रम् एवैतन् नान्यवस्तुता
शून्यता नभसीवात्र द्रवत्वम् इव वाम्भसि । खे खतेवाप्य् अभिन्नैव किलास्ति जगदादिता
यद्रूपं ब्रह्म तद्रूपं जगत् क्वात्र द्वितैकते । यद्रूपं व्योम तद्रूपम् एव शून्यं किलाखिलम्
एकात्मनि तते स्वच्छे चिन्मात्रे सर्वरूपिणि । शिलापुत्रकसेनायां पाषाणत्व इव स्थिते
कार्यकारणवैचित्र्यं कथं सम्भवति क्व वा । कथम् अव्योमता व्योम्नि द्वितीयासम्भवाद् भवेत्
प्रतिभात्मैव भारूपो भाति सर्गो महाचिति । पुत्रिकेवोपलोत्कीर्णा तन्मयत्वात् तदात्मकः
साधोर् यथास्थितस्यैवं बुद्ध्वा विश्वं प्रलीयते । काष्ठमौनदशाभासं तत्सारम् अवशिष्यते
यथा निमीलिताक्षस्य रूपालोकमनोभ्रमः । स्वप्ने जाग्रत्य् अनग्रस्थो ऽप्य् असन्न् एवास्ति भावनात्
भावनोपशमं कृत्वा शिलीभूय यथास्थितम् । अशिलीभूतम् एवान्तस् स्वभावे समम् आस्यताम्
स्वविवेकोपहारेण यथाप्राप्तार्थपूजनैः । बोधाय पूज्यतां बुद्ध्या स्वो भावḫ परमेश्वरः
विवेकपूजितस् स्वात्मा सद्यस् स्थानवरप्रदः । रुद्रोपेन्द्रादिपूजात्र जरत्तृणलवायते