यत्रादित्यो भवेत् तत्र यथालोकस् तथा भवेत् । परं विषयवैरस्यं यत्र तत्र प्रबुद्धधीः
अकर्तृकर्मकरणम् अदृश्यद्रष्टृदर्शनम् । जगद् अग्राह्यम् अस्फारम् अभित्तौ चित्रम् उत्थितम्
न चोत्थितं किञ्चन वा शान्ते शान्तं तथा स्थितम् । अनामयं परं ब्रह्म सत्यम् अव्ययम् एव तत्
चिच्चमत्कारमात्रात्मकल्पनारङ्गरञ्जनाः । सङ्ख्यातुं केन शक्यन्ते खे जगच्चित्रपुत्रिकाः
रसभावविकाराढ्यं नृत्यन्त्यो ऽभिनयैर् नवैः । परमाणुं प्रति प्रायẖ खे स्फुरन्त्यो ऽम्बरात्मिकाः
सर्वर्तुशेखरधरा दिग्बाहुलतिकाकुलाः । पातालपादलतिका ब्रह्मलोकशिरोधराः
चन्द्रार्कलोलनयनास् तारोत्करतनूरुहाः । सप्तलोकाङ्गलतिकाḫ परितो ऽच्छाम्बराम्बराः
द्वीपाम्बुराशिवलया लोकालोकाद्रिमेखलाः । भूतभावचलज्जीवाḫ प्रवहत्प्राणमारुताः
वनोपवनविन्यासहारकेयूरभूषिताः । पुराणवेदवचनाẖ क्रियाफलविलोचनाः
त्रिजगत्पुत्रिकानृत्तं यद् इदं दृश्यते पुरः । ब्रह्मवारिद्रवत्वं तत् तद् ब्रह्मानिलचोपनम्
अस्वभावस्थतैवास्य कारणं कारणात्मकम् । असुषुप्तस्थता स्वापे स्वप्नस्येवासती च सा
असुषुप्तस् सुषुप्तस्थस् स्वभावं भावयन् भव । जाग्रत्य् अपि गतव्यग्रं मासत्स्वप्नम् इमं श्रय
यज् जाग्रति सुषुप्तत्वं बोधाद् अरसम् आसनम् । तं स्वभावं विदुस् तज्ज्ञा मुक्तिस् तत्परिणामिता
अकर्तृकर्मकरणम् अदृश्यद्रष्टृदर्शनम् । अरूपालोकमननं स्थितं ब्रह्म जगत्तया
कान्ते कान्तं प्रकचति पूर्णे पूर्णं व्यवस्थितम् । द्वित्वैक्यरहिते भाति द्वित्वैक्यपरिवर्जितम्
सति सत्यं स्थितं शान्तं सर्गात्मात्मात्मनि स्वयम् । आकाशकोशसदृशं शिलाजठरसन्निभम्
सुरत्नजठराकारं घनम् अप्य् अम्बरोपमम् । प्रतिबिम्बम् इव क्षुब्धम् अप्य् अक्षुब्धम् असच् च सत्
भविष्यन्नवनिर्माणं चेतसीव स्थितं पुरम् । ब्रह्मबृंहितभारूपम् अभेदीकृतमानसम्
यथा सङ्कल्पनगरं सङ्कल्पान् नैव भिद्यते । तथायं जगदाभासḫ परमार्थान् न भिद्यते
हेमपीठम् इवानेकभविष्यत्सन्निवेशवत् । लक्ष्यमाणम् अपि स्थानं शान्तम् अव्ययम् आस्थितम्
अजस्रनाशोत्पादाढ्यम् एकरूपम् अनामयम् । अनाशोत्पादम् अजरम् अनेकम् इव कान्तिमत्
ब्रह्मैव शान्तघनभावगतं विभाति सर्गोदयेन विगतास्तमयोदयेन । व्योमैव शून्यविभवेन गलत्स्वभावलाभं प्रति प्रसभम् एव न तु प्रबुद्धे
चित्तवत् कचनं शान्ते यत् तत् तस्मान् न भिद्यते । अव्याकृतामलतया क्वातस् सर्गादिसम्भवः
चित्तदीपे गते यान्ति भ्रान्तिवद् भान्ति खे स्थिते । रूपालोकमनस्कारास् संविदम्बुद्रवोर्मयः
निरस्तकारणापेक्षं मरुतस् स्पन्दनं यथा । यथा विसरणं भासस् तथा जगद् इदं परे
द्रवत्वम् इव कीलाले शून्यत्वम् इव चाम्बरे । स्पन्दनं मरुतीवेदं किम् अप्य् आत्ममयं परे
महाचिति महाकाशे यद् इदं भासते जगत् । तच् चित्त्वम् एव कचति निर्मलत्वं मणाव् इव
यथा द्रवत्वं पयसि यथा शून्यत्वम् अम्बरे । यथा प्रस्पन्दनं वायौ महाचिति तथा जगत्
वेत्ति वायुर् यथा स्पन्दं तथा वेत्ति जगच् चितिः । न द्वैतैक्यादिभेदानां मनाग् अप्य् अत्र सम्भवः
अविवेकविवेकाभ्यां भासुरं भङ्गुरं जगत् । बोधे सद् एवासद्रूपम् अभासुरम् अभङ्गुरम्