जगन् नाम न चोत्पन्नं न चास्ति न च दृश्यते । हेम्नीव कटकादित्वं किम् एतन्मार्जने श्रमः
तथैतद् विस्तरेणेह वक्ष्यामो बहुयुक्तिभिः । अबाधितं यथा नूनं स्वयम् एवानुभूयते
आदाव् एव हि नोत्पन्नं यत् तस्येहास्तिता कुतः । कुतो मरौ जलसरिद् द्वितीयेन्दौ कुतो ग्रहः
यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् । यथा नास्ति नभोवृक्षस् तथा नास्ति जगद्भ्रमः
यद् इदं दृश्यते राम तद् ब्रह्मैव निरामयम् । एतत् पुरस्ताद् वक्ष्यामो युक्तितो न गिरैव वः
यन् नाम युक्तिभिर् इह प्रवदन्ति तज्ज्ञास् तत्रावहेलनम् अयुक्तम् उदारबुद्धेः । यो युक्तियुक्तम् अवमत्य विमूढबुद्ध्या कष्टावहो भवति तं विदुर् अज्ञम् एव
कयैतज् ज्ञायते युक्त्या कथम् एतत् प्रसिध्यति । न्याये ऽनुभूत एतस्मिन् न ज्ञेयम् अवशिष्यते
बहुकालम् इयं रूढा मिथ्याज्ञानविषूचिका । जगन्नाम्नी विचाराख्याद् ऋते मन्त्रान् न शाम्यति
वदाम्य् आख्यायिका राम या इमा बोधसिद्धये । ताश् चेच् छृणोषि तत् साधो मुक्त एवासि बुद्धिमान्
नो चेद् उद्वेगशीलत्वाद् अर्धाद् उत्थाय गच्छसि । तत् तिर्यग्धर्मिणस् ते ऽद्य किञ्चिन् नापि तु सेत्स्यति
यो ऽयम् अर्थं प्रार्थयते तदर्थं यतते तथा । सो ऽवश्यं तद् अवाप्नोति न चेच् छ्रान्तो निवर्तते
साधुसङ्गमसच्छास्त्रपरो भवसि राम चेत् । तद् दिनैर् एव नो मासैः प्राप्नोषि परमं पदम्
आत्मज्ञानप्रबोधाय शास्त्रं शास्त्रविदां वर । किंनाम तत् प्रधानं स्याद् यस्मिञ् ज्ञाते न शोच्यते
आत्मज्ञानप्रधानानाम् इदम् एव महामते । शास्त्राणां परमं शास्त्रं महारामायणाभिधम्
इतिहासोत्तमाद् अस्मात् परो बोधः प्रवर्तते । सर्वेषाम् इतिहासानाम् अयं सार उदाहृतः
श्रुते ऽस्मिन् वाङ्मये यस्माज् जीवन्मुक्तत्वम् अक्षतम् । उदेति स्वयम् एवात इदम् एवातिपावनम्
स्थितम् एवास्तम् आयाति जगद् दृश्यं विचारणात् । यथा स्वप्ने परिज्ञाते स्वप्नार्थाद् एव भावना
यद् इहास्ति तद् अन्यत्र यन् नेहास्ति न तत् क्वचित् । इमं समस्तविज्ञानशास्त्रकोशं विदुर् बुधाः
य इदं शृणुयान् नित्यं तस्योदारचमत्कृतेः । बालस्यापि परं बोधं बुद्धिर् एति न संशयः
यस्मै नेदं त्व् अभव्याय रोचते दुष्कृतोदयात् । विचारयतु यत् किञ्चित् स शास्त्रं ज्ञानवाङ्मयम्
जीवन्मुक्तत्वम् अस्मिंस् तु श्रुते समनुभूयते । स्वयम् एव यथा पीते नीरोगत्वं वरौषधे
श्रूयमाणे हि शास्त्रे ऽस्मिञ् श्रोता वेत्त्य् एतद् आत्मना । यथावद् इदम् अस्माभिर् न तूक्तं वरशापवत्
शाम्यति संसृतिदुःखम् इदं ते स्वात्मविचारमहाकथयैव । नो धनदानतपश्श्रुतवेदैस् तत्कथनोज्झितयत्नशतेन
तच्चित्तास् तद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश् च तन् नित्यं तुष्यन्ति रमयन्ति ये
तेषां ज्ञानैकनिष्ठानाम् आत्मज्ञानविचारणात् । सा जीवन्मुक्ततोदेति विदेहोन्मुक्ततैव या
ब्रह्मन् विदेहमुक्तस्य जीवन्मुक्तस्य लक्षणम् । ब्रूहि येन तथैवाहं यते शास्त्रदृशा धिया
यथास्थितम् इदं यस्य व्यवहारवतो ऽपि च । अस्तङ्गतं स्थितं व्योम स जीवन्मुक्त उच्यते
बोधैकनिष्ठतां यातो जागर्त्य् एव सुषुप्तवत् । य आस्ते व्यवहर्तैव स जीवन्मुक्त उच्यते
नोदेति नास्तम् आयाति सुखे दुःखे मुखप्रभा । यथाप्राप्तस्थितेर् यस्य स जीवन्मुक्त उच्यते
यो जागर्ति सुषुप्तस्थो यस्य जाग्रन् न विद्यते । यस्य निर्वासनो बोधस् स जीवन्मुक्त उच्यते