मूर्तो यथा स्वसदृशैẖ करोत्य् अवयवैẖ क्रियाः । आत्मभूतैस् तथा भूतैश् चिदाकाशम् अकर्तृ सत्
आत्मस्थाद् अहम् इत्यादिर् अस्मदादेर् असंसृतेः । शब्दो ऽर्थभावमुक्तो ऽयं पटहाद् इव जायते
यद् भ्रान्तं प्रेक्षया नास्ति तन् नास्त्य् एव निरन्तरम् । जगद्रूपम् अरूपात्म ब्रह्म ब्रह्मणि संस्थितम्
येषाम् अस्ति जगत्स्वप्नस् ते स्वप्नपुरुषा मिथः । न सन्त्य् आत्मनि मिथ्याङ्गा नास्मास्व् अम्बरपुष्पवत्
मयि ब्रह्मैकरूपं ते शान्तम् आकाशकोशवत् । वायौ स्पन्दैर् इवाभिन्नैर् व्यवहारश् च तैर् मयि
अहं तु सन्मयस् तेषां स्वप्नस् स्वप्नवताम् इव । ते तु नूनम् असन्तो मे सुषुप्ते स्वप्नका इव
तैस् तु यो व्यवहारो मे तद् ब्रह्म ब्रह्मणि स्थितम् । ते यत् पश्यन्ति पश्यन्तु तत् तैर् अलम् अलं मम
अहम् आत्मनि नैवास्मि ब्रह्मसत्तेयम् आतता । त्वदर्थं समुदेतीव तथारूपैव वाग् इयम्
अनिरुद्धस्य रुद्धस्य शुद्धसंविन्मयात्मनः । न भोगेच्छा न मोक्षेच्छा हृदि स्फुरति तद्विदः
स्वभावमात्रायत्ते ऽस्मिन् बन्धमोक्षक्रमे नृणाम् । कदर्थनेत्य् अहो मोहाद् गोष्पदे ऽप्य् उदधिभ्रमः
अभावसाधने मोक्षे भावोपशमरूपिणि । न धनान्य् उपकुर्वन्ति न मित्राणि न च क्रियाः
तैलबिन्दुर् भवत्य् उच्चैश् चक्रम् अप्पतितो यथा । तथाशु चेत्यसङ्कल्पे स्थिता भवति चिज् जगत्
जाग्रति स्वप्नवृत्तान्तस्थितिर् यादृग्रसा स्मृतौ । तादृग्रसाहन्त्वजगज्जालसंस्था विवेकिनः
तेनैवाभ्यासयोगेन याति तत् तनुतां तथा । यथा नाहं न संसारश् शान्तम् एवावशिष्यते
यदा यदा स्वभावार्कस् स्थितिम् एति तदा तदा । भोगान्धकारो गलति न सन्न् अप्य् अनुभूयते
सो ऽयम् अहन्तारहितस् स्फुरति सृतौ भवति भासते च तथा । बुद्ध्यादिकरणनिकरो यस्माद् दीपाद् इवालोकः
रूपालोकमनस्कारबुद्ध्यादीन्द्रियवेदनम् । स्वरूपं विदुर् अम्लानम् अस्वभावस्य वस्तुनः
अस्वभावतनुत्वेन स्वभावस्थितिशान्तता । यदोदेति तदा सर्गो भ्रमाभḫ प्रतिभासते
यदा स्वभावविश्रान्तिस् स्थितिम् एति शमात्मिका । जगद् दृश्यं तदा स्वप्नस् सुषुप्त इव शाम्यति
भोगा भवमहारोगा बन्धवो दृढबन्धनम् । अनर्थायार्थसम्पत्तिर् आत्मनात्मनि शाम्यताम्
अस्वभावात्मता सर्गस् स्वभावैकात्मता शिवः । भूयतां परमव्योम्ना शाम्यतां मेह ताम्यताम्
नात्मानम् अवगच्छामि न दृश्यं न जगद्भ्रमम् । ब्रह्म शान्तं प्रविष्टो ऽस्मि ब्रह्मैवास्मि निरामयः
त्वम् एव पश्यसि त्वत्त्वं मत्त्वशब्दार्थजृम्भितम् । पश्यामि शान्तम् एवाहं केवलं परमं नभः
ब्रह्मण्य् एव पराकाशे रूपालोकमनोमयाः । विभ्रमास् तव सञ्जाताẖ कल्पस्पन्दा इवानिले
ब्रह्मात्मा वेत्ति नो सर्गं सर्गात्मा ब्रह्म वेत्ति नो । सुषुप्तो वेत्ति न स्वप्नं स्वप्नस्थो न सुषुप्तकम्
प्रबुद्धो ब्रह्मजगतोर् जाग्रत्स्वप्नदृशोर् इव । रूपं जानाति वारूपं जीवन्मुक्तḫ प्रशान्तधीः
यथाभूतम् इदं सर्वं परिजानाति बोधवान् । संशाम्यति च शुद्धात्मा शरदीव पयोधरः
स्मृतिस्थẖ कल्पनास्थो वा यथाख्यातश् च सङ्गरः । सदसद् भ्रान्ततामात्रं तथाहन्त्वजगद्भ्रमः
आत्मन्य् अपि नास्ति हि या द्रष्टा यस्या न विद्यते कश्चित् । न च शून्यं नाशून्यं भ्रान्तिर् इयं भासते सेति
अस्वभावस्वभावो ऽयं सर्गो ऽहन्तादिवेदनः । स्वभावैकस्वभावेन निर्वाणीक्रियतां स्वयम्