यस्य क्षीणावरणता शान्तसन्देहतोदिता । परमामृतपूर्णात्मा सत्तयैव स राजते
सर्वसन्देहदुẖखान्तमिहिकामातरिश्वना । भाति भास्वद्धिया देशस् तेन पूर्णेन्दुनेव खम्
विसंसृतिर् असन्देहो लब्धज्योतिर् निरावृतिः । शरदाकाशविशदो ज्ञेनैव ज्ञायते बुधः
निस्सङ्कल्पो निराधारश् शान्तस् स्पर्शात् पवित्रताम् । अन्तश्शीतल आधत्ते ब्रह्मलोकाद् इवानिलः
असद्रूपोपलम्भानाम् इयं वस्तुस्वभावता । यत् सर्गवेदनं स्वप्नवन्ध्यापुत्रोपलम्भवत्
अविद्यमानम् एवेदं जगद् यद् अनुभूयते । असद्रूपोपलम्भस्य सैषा वस्तुस्वभावता
असत्येष्व् एव संसारेष्व् आस्ताम् अर्थḫ कुतो भवेत् । स्वर्गापवर्गयोश् शब्दाव् एव वन्ध्यासुतोपमौ
जगद् ब्रह्मतया सत्यम् अनिर्मितम् अभावितम् । अनिष्ठितं चान्यथा तु नाहं नावगतं च तत्
आत्मस्वभावविश्रान्तेर् इयं वस्तुस्वभावता । यद् अहन्तादिसर्गादिदृश्याद्यनुपलम्भता
क्षणाद् योजनलक्षान्तं प्राप्ते देशान्तरं त्व् इतः । चेतने तस्य यद् रूपं मार्गमध्ये निरञ्जनम्
अस्पन्दवातसदृशं खकोशाभाच्छचिन्मयम् । अचेत्यं शान्तम् उदितं लताविकसनोपमम्
सर्वस्य वस्तुजातस्य तत् स्वभावं विदुर् बुधाः । सर्वोपलम्भो गलति तत्रस्थस्य विवेकिनः
सुषुप्ते स्वप्नधीर् नास्ति स्वप्ने नास्ति सुषुप्तधीः । सर्गनिर्वाणयोर् भ्रान्ती सुषुप्तस्वप्नयोर् इव
भ्रान्तिर् वस्तुस्वभावो ऽसौ न स्वप्नो न सुषुप्तता । न सर्गो न च निर्वाणं सत्यं शान्तम् अशेषतः
भ्रान्तिस् त्व् असन्मात्रमयी प्रेक्षिता चेन् न लभ्यते । शुक्तिरुप्यम् इवासत्यं किल सम्प्राप्यते कथम्
यन् न लब्धं च तन् नास्ति तेन भ्रान्तेर् न सम्भवः । स्वभावाद् उपलम्भो ऽन्यो नास्ति कश्चन कस्यचित्
स्वभाव एव सर्वस्मै स्वदते किल सर्वदा । अनानैव हि नानेव किं वादैस् स विभाव्यताम्
अस्वभावे महद् दुẖखं स्वभावे केवलं शमः । इति बुद्ध्या विचार्यान्तर् यद् इष्टं तद् विधीयताम्
सूक्ष्मे बीजे ऽस्त्य् अगस् स्थूलो दृष्टम् इत्य् उपपद्यते । शिवे ऽमूर्ते जगन् मूर्तम् अस्तीत्य् उत्तमसङ्कथा
रूपालोकमनस्कारबुद्ध्यहन्तादयḫ परे । स्वरूपभूतास् सलिले द्रवत्वम् इव खात्मकाः
मूर्तो यथा स्वसदृशैẖ करोत्य् अवयवैẖ क्रियाः । आत्मभूतैस् तथा भूतैश् चिदाकाशम् अकर्तृ सत्
आत्मस्थाद् अहम् इत्यादिर् अस्मदादेर् असंसृतेः । शब्दो ऽर्थभावमुक्तो ऽयं पटहाद् इव जायते
यद् भ्रान्तं प्रेक्षया नास्ति तन् नास्त्य् एव निरन्तरम् । जगद्रूपम् अरूपात्म ब्रह्म ब्रह्मणि संस्थितम्
येषाम् अस्ति जगत्स्वप्नस् ते स्वप्नपुरुषा मिथः । न सन्त्य् आत्मनि मिथ्याङ्गा नास्मास्व् अम्बरपुष्पवत्
मयि ब्रह्मैकरूपं ते शान्तम् आकाशकोशवत् । वायौ स्पन्दैर् इवाभिन्नैर् व्यवहारश् च तैर् मयि
अहं तु सन्मयस् तेषां स्वप्नस् स्वप्नवताम् इव । ते तु नूनम् असन्तो मे सुषुप्ते स्वप्नका इव
तैस् तु यो व्यवहारो मे तद् ब्रह्म ब्रह्मणि स्थितम् । ते यत् पश्यन्ति पश्यन्तु तत् तैर् अलम् अलं मम
अहम् आत्मनि नैवास्मि ब्रह्मसत्तेयम् आतता । त्वदर्थं समुदेतीव तथारूपैव वाग् इयम्
अनिरुद्धस्य रुद्धस्य शुद्धसंविन्मयात्मनः । न भोगेच्छा न मोक्षेच्छा हृदि स्फुरति तद्विदः
स्वभावमात्रायत्ते ऽस्मिन् बन्धमोक्षक्रमे नृणाम् । कदर्थनेत्य् अहो मोहाद् गोष्पदे ऽप्य् उदधिभ्रमः