यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । यच् च पश्यसि हंस्य् एषि तत् सर्वं शिवम् अव्ययम्
यद् अहम् यत् त्वम् आशा यद् यत् क्रियाकालखादयः । यल् लोकालोकगिरयस् तच् चिद्व्योम शिवं ततम्
यद् रूपलोकमननं यत् कालत्रितयं जगत् । यज् जरामरणार्त्यादि तन् महाचिन्नभश् शिवम्
निर्विवित्सो निराभासो निरिच्छो निर्मना मुनिः । भूत्वा निरात्मा निर्वाणस् तिष्ठ सन्तिष्ठसे यथा
गतेच्छामननं शान्तम् अनन्तस्स्थम् अभावनम् । व्यवहारो ऽस्तु ते मा वा स्पन्दास्पन्दैर् यथानिलः
निर्वासना निष्कलना शान्ता पुरुषतास्तु ते । शास्त्रेण यन्त्रवाहेन वाह्या दारुमयी यथा
भूतालोको ऽस्तु मान्तस् ते स चास्नेहस्य बाह्यगः । अनिर्देश्यपरालोकश् चित्रदीपवद् आस्यताम्
निर्वासनस्य विरसस्य निरेषणस्य शास्त्राद् ऋते क इव वित्त्वविनोदहेतुः । शास्त्रार्थसञ्चलनम् अप्य् अलम् अस्य तस्य संवेदनेष्व् अनभिसन्धिम् अतẖ खरूपम्
सञ्जातकृत्रिमक्षीणसंसृतिप्रत्ययḫ पुमान् । असङ्कल्पो न सङ्कल्पं वेत्ति तेनासद् एव सः
श्वासान् म्लानिर् इवादर्शे कुतो ऽप्य् अहम् इति स्थिता । विद् धि साकारणा दृष्टा नश्यत्य् आशु न लभ्यते
यस्य क्षीणावरणता शान्तसन्देहतोदिता । परमामृतपूर्णात्मा सत्तयैव स राजते
सर्वसन्देहदुẖखान्तमिहिकामातरिश्वना । भाति भास्वद्धिया देशस् तेन पूर्णेन्दुनेव खम्
विसंसृतिर् असन्देहो लब्धज्योतिर् निरावृतिः । शरदाकाशविशदो ज्ञेनैव ज्ञायते बुधः
निस्सङ्कल्पो निराधारश् शान्तस् स्पर्शात् पवित्रताम् । अन्तश्शीतल आधत्ते ब्रह्मलोकाद् इवानिलः
असद्रूपोपलम्भानाम् इयं वस्तुस्वभावता । यत् सर्गवेदनं स्वप्नवन्ध्यापुत्रोपलम्भवत्
अविद्यमानम् एवेदं जगद् यद् अनुभूयते । असद्रूपोपलम्भस्य सैषा वस्तुस्वभावता
असत्येष्व् एव संसारेष्व् आस्ताम् अर्थḫ कुतो भवेत् । स्वर्गापवर्गयोश् शब्दाव् एव वन्ध्यासुतोपमौ
जगद् ब्रह्मतया सत्यम् अनिर्मितम् अभावितम् । अनिष्ठितं चान्यथा तु नाहं नावगतं च तत्
आत्मस्वभावविश्रान्तेर् इयं वस्तुस्वभावता । यद् अहन्तादिसर्गादिदृश्याद्यनुपलम्भता
क्षणाद् योजनलक्षान्तं प्राप्ते देशान्तरं त्व् इतः । चेतने तस्य यद् रूपं मार्गमध्ये निरञ्जनम्
अस्पन्दवातसदृशं खकोशाभाच्छचिन्मयम् । अचेत्यं शान्तम् उदितं लताविकसनोपमम्
सर्वस्य वस्तुजातस्य तत् स्वभावं विदुर् बुधाः । सर्वोपलम्भो गलति तत्रस्थस्य विवेकिनः
सुषुप्ते स्वप्नधीर् नास्ति स्वप्ने नास्ति सुषुप्तधीः । सर्गनिर्वाणयोर् भ्रान्ती सुषुप्तस्वप्नयोर् इव
भ्रान्तिर् वस्तुस्वभावो ऽसौ न स्वप्नो न सुषुप्तता । न सर्गो न च निर्वाणं सत्यं शान्तम् अशेषतः
भ्रान्तिस् त्व् असन्मात्रमयी प्रेक्षिता चेन् न लभ्यते । शुक्तिरुप्यम् इवासत्यं किल सम्प्राप्यते कथम्
यन् न लब्धं च तन् नास्ति तेन भ्रान्तेर् न सम्भवः । स्वभावाद् उपलम्भो ऽन्यो नास्ति कश्चन कस्यचित्
स्वभाव एव सर्वस्मै स्वदते किल सर्वदा । अनानैव हि नानेव किं वादैस् स विभाव्यताम्
अस्वभावे महद् दुẖखं स्वभावे केवलं शमः । इति बुद्ध्या विचार्यान्तर् यद् इष्टं तद् विधीयताम्
सूक्ष्मे बीजे ऽस्त्य् अगस् स्थूलो दृष्टम् इत्य् उपपद्यते । शिवे ऽमूर्ते जगन् मूर्तम् अस्तीत्य् उत्तमसङ्कथा
रूपालोकमनस्कारबुद्ध्यहन्तादयḫ परे । स्वरूपभूतास् सलिले द्रवत्वम् इव खात्मकाः