चिन्मयत्वाद् यदा चेत्यम् एति द्रष्टृचितैकताम् । तदा दृश्याङ्गयैवैतच् चेत्यते नान्यया चिता
यदा चिन्मात्रम् एवेयं द्रष्टृदर्शनदृश्यदृक् । तदानुभवनं तत्र सर्वस्य फलितं स्थितम्
द्रष्टृदृश्ये न यद्य् एकम् अभविष्यच् चिदात्मके । तद् दृश्यास्वादम् अज्ञास्यन् न द्रष्टेक्षोर् इवोपलः
चिन्मयत्वाच् चितौ चेत्यं जलम् अप्स्व् इव मज्जति । तेनानुभूतिर् भवति नान्यथा काष्ठयोर् इव
सजातीयैकताभावाद् यथा काष्ठं न चेतति । दारु तद्वद् अपि द्रष्टा दृश्यं नाज्ञास्यद् आजडम्
यादृक्सत्तानि काष्ठानि तादृग्रूपं स्वचेतनम् । जानन्ति नेतरत् तस्माद् दृश्यचिद्दृश्यचेतनम्
महाचिदात्मतैवास्ति जलानिलधराश्मनाम् । नैतेषु स्पन्दबुद्ध्यादि प्राणजीवाद्यभावतः
प्राणबुद्ध्यादयस् सत्तां भावनावशतो गताः । भावना चिच्चमत्कारस् स यथेच्छम् उदेति च
जगत्तया शान्ततया ब्रह्मसत्तावतिष्ठते । पुंस्तयागतयेवात्मा रेतोवटकणीकयोः
सर्वाङ्गाणुमयं वीर्यं यो यस्माद् अङ्गतो ऽणुकः । स स तत् तद् भवत्य् अङ्गं वीर्यं च स्वात्मनि स्थितम्
ब्रह्म सर्वपराण्वात्म यो यस्माद् अर्थतो ऽणुकः । स स तत् तद् भवेद् वस्तु ब्रह्म ब्रह्मैव तिष्ठति
द्रव्यम् एव यथा द्रव्यं तिर्यग् ऊर्ध्वम् अधस् तथा । सर्वम् एव तथा ब्रह्म येन तेन यथा तथा
हेमत्वम् एव नान्यत्वं हेम्नो रूपशते यथा । शान्तत्वम् एव शान्तस्य सर्गाहन्त्वगणे तथा
पार्श्वस्थस्वप्नमेघोर्जा यथा तव न काश्चन । सर्गप्रलयसंरम्भास् तथा खात्मान एव मे
पङ्कताकल्पिता व्योम्नो या पुत्रकपताकिनी । सा यथा शान्ततामात्रं खम् एवेदं तथा जगत्
सङ्कल्पभ्रम एवान्तḫ पुष्टीभूय जगत् स्थितम् । जलावनितलक्लिन्नबीजं कल्प इव द्रुमः
अनहन्तात्मनो ज्ञस्य सत एव त्व् इवासतः । जरत्तृणलवायन्ते ननु रामाणिमादयः
त्रैलोक्ये तन् न पश्यामि सदेवासुरमानुषे । एकरोमांशविश्वस्य यल् लोभाय महात्मनः
यथातथास्थितस्यापि यत्र तत्र गतस्य च । द्वैतसङ्कल्पसन्देहा न सन्त्य् अधिगतात्मनः
विश्वम् एव नभो यस्य शून्यं सर्वं महात्मनः । कुतẖ कस्य कथं तस्य भवत्व् इच्छा निरात्मनः
शान्ताशेषविशेषस्य निरेषणविशेषिणः । सत्ताम् असत्तासदृशीं क आकलयितुं क्षमः
मारैर् न किञ्चिन् म्रियते जीवैẖ किञ्चिन् न जीवति । शुद्धसंविन्मयस्यास्य समलोकस्य खस्य च
मिथ्या लोकस्य कचतो भ्रान्ती मरणजन्मनी । असत्य् अपि भ्रान्तिभाजि मृगतृष्णानदीतटे
सम्यक्परीक्षितं यावन् न भ्रान्तिर् न परीक्षकः । न नाम जन्ममरणे केवलं शान्तम् अव्ययम्
दृश्याद् यो विरतिं यात आत्मारामश् शमं गतः । स सन्न् एवासदाभासḫ परितीर्णभवार्णवः
दीपनिर्वाणनिर्वाणम् अस्तङ्गतमनोमतिम् । आत्मन्य् एव शमं यातं सन्तम् एवामलं विदुः
आबुद्ध्यादि जगद् दृश्यं यस्मै न स्वदते स्वतः । आकाशस्येव शान्तस्य तम् आहुर् मुक्तम् उत्तमाः
अहम् अस्त्य् अविचारेण विचारेणाहम् अस्ति नो । अभावाद् अहमर्थस्य क्व जगत् क्व च संसृतिः
संवित्संवेदनाद् एव बुद्ध्याद्याकारवत् स्थितम् । रूपालोकमनोरूपं जगद् वेत्ति विदम्बरम्
सर्वार्थशान्तमनसस् सतस् सर्वात्मनस् तव । सर्वथा सर्वदा सार्वं सर्वम् आचरणं शिवम्