सङ्कल्पाकाशरूपत्वात् सर्वार्थानुभवस्थितेः । तनुसङ्कल्पमोहानां सत्याश् शापवरोक्तयः
न ज्ञानवादिता सत्या न च बाह्यार्थवादिता । यथावेदनम् एतानि वेदनानि फलन्ति वः
चिति चित्त्वं यद् अस्त्य् अन्तर् जगद् इत्य् एव भाति तत् । भेदो द्रवत्वपयसोर् इव नात्रोपपद्यते
कालो जगन्ति भुवनान्य् अहम् अक्षवर्गस् त्व् एतानि तत्र च तथेति च सर्वम् एकम् । चिद्व्योम शान्तम् अजम् अव्ययम् ईश्वरात्म रागादयẖ खलु न केचन सम्भवन्ति
चित् पश्यति जगन् मिथ्या स्ववेदनविबोधिता । व्योम्नि मायाञ्जनासिक्ता दृग् इवाचलनर्तनम्
ब्रह्मसर्गश् चित्तसर्गो द्वाव् एतौ सदृशौ मतौ । परमार्थस्वरूपत्वाद् अक्षुब्धत्वात् सदैव च
ज्ञानरूपतयाबाह्यं बाह्यं चानुभवात् तथा । सत्यरूपम् अतस् सत्यां विद्धि बाह्यार्थरूपताम्
बाह्यार्थवादविज्ञानवादयोर् ऐक्यम् एव नः । वेदनैकात्मरूपत्वात् सर्वदा सदसत्स्थितेः
अक्षुब्धा खानिलालोकजलभूशान्तिशालिनी । तता शून्या महारम्भा ब्रह्मसत्तैव सर्वतः
तस्मिन् सर्वं ततस् सर्वं तत् सर्वं सर्वतश् च तत् । तच् च सर्वमयं नित्यं तस्मै सर्वात्मने नमः
चिन्मयत्वाद् यदा चेत्यम् एति द्रष्टृचितैकताम् । तदा दृश्याङ्गयैवैतच् चेत्यते नान्यया चिता
यदा चिन्मात्रम् एवेयं द्रष्टृदर्शनदृश्यदृक् । तदानुभवनं तत्र सर्वस्य फलितं स्थितम्
द्रष्टृदृश्ये न यद्य् एकम् अभविष्यच् चिदात्मके । तद् दृश्यास्वादम् अज्ञास्यन् न द्रष्टेक्षोर् इवोपलः
चिन्मयत्वाच् चितौ चेत्यं जलम् अप्स्व् इव मज्जति । तेनानुभूतिर् भवति नान्यथा काष्ठयोर् इव
सजातीयैकताभावाद् यथा काष्ठं न चेतति । दारु तद्वद् अपि द्रष्टा दृश्यं नाज्ञास्यद् आजडम्
यादृक्सत्तानि काष्ठानि तादृग्रूपं स्वचेतनम् । जानन्ति नेतरत् तस्माद् दृश्यचिद्दृश्यचेतनम्
महाचिदात्मतैवास्ति जलानिलधराश्मनाम् । नैतेषु स्पन्दबुद्ध्यादि प्राणजीवाद्यभावतः
प्राणबुद्ध्यादयस् सत्तां भावनावशतो गताः । भावना चिच्चमत्कारस् स यथेच्छम् उदेति च
जगत्तया शान्ततया ब्रह्मसत्तावतिष्ठते । पुंस्तयागतयेवात्मा रेतोवटकणीकयोः
सर्वाङ्गाणुमयं वीर्यं यो यस्माद् अङ्गतो ऽणुकः । स स तत् तद् भवत्य् अङ्गं वीर्यं च स्वात्मनि स्थितम्
ब्रह्म सर्वपराण्वात्म यो यस्माद् अर्थतो ऽणुकः । स स तत् तद् भवेद् वस्तु ब्रह्म ब्रह्मैव तिष्ठति
द्रव्यम् एव यथा द्रव्यं तिर्यग् ऊर्ध्वम् अधस् तथा । सर्वम् एव तथा ब्रह्म येन तेन यथा तथा
हेमत्वम् एव नान्यत्वं हेम्नो रूपशते यथा । शान्तत्वम् एव शान्तस्य सर्गाहन्त्वगणे तथा
पार्श्वस्थस्वप्नमेघोर्जा यथा तव न काश्चन । सर्गप्रलयसंरम्भास् तथा खात्मान एव मे
पङ्कताकल्पिता व्योम्नो या पुत्रकपताकिनी । सा यथा शान्ततामात्रं खम् एवेदं तथा जगत्
सङ्कल्पभ्रम एवान्तḫ पुष्टीभूय जगत् स्थितम् । जलावनितलक्लिन्नबीजं कल्प इव द्रुमः
अनहन्तात्मनो ज्ञस्य सत एव त्व् इवासतः । जरत्तृणलवायन्ते ननु रामाणिमादयः
त्रैलोक्ये तन् न पश्यामि सदेवासुरमानुषे । एकरोमांशविश्वस्य यल् लोभाय महात्मनः
यथातथास्थितस्यापि यत्र तत्र गतस्य च । द्वैतसङ्कल्पसन्देहा न सन्त्य् अधिगतात्मनः
विश्वम् एव नभो यस्य शून्यं सर्वं महात्मनः । कुतẖ कस्य कथं तस्य भवत्व् इच्छा निरात्मनः