अहं जगद् इति ज्ञप्तिẖ खे खस्येवेयम् आस्थिता । चिदात्मनो यथा वायोस् स्पन्दो नात्रास्ति कारणम्
चितश् चेत्योन्मुखत्वं यत् तच् चित्तं सैव संसृतिः । सेच्छा तन्मुक्तता मुक्तिर् युक्तिं ज्ञात्वेति शाम्यताम्
इच्छा भवत्व् अनिच्छा वा सर्गो ऽस्तु प्रलयो ऽस्तु वा । क्षतिर् न कस्यचित् काचिन् न च किञ्चिद् इहास्ति हि
इच्छानिच्छे सदसती भावाभावौ सुखासुखे । इत्य् अत्र कल्पना व्योम्नि सम्भवन्ति न काश्चन
इच्छानां तानवं यस्य दिनानुदिनम् आगतम् । विवेकशमतृप्तस्य तम् आहुर् मोक्षभागिनम्
इच्छाक्षुरिकया विद्धे हृदि शूलं प्रवर्तते । जयन्ति यत्र नैतानि मणिमन्त्रौषधानि वः
यẖ कार्यकारणाद्यूहान् कृतवान् पूर्वम् एव तम् । सत्प्रेक्षया न पश्यामो मिथ्याभ्रमभराद् ऋते
भ्रमभूतेन कुर्मश् चेद् व्यवहारम् अवस्तुना । तत् कस्मात् परचिन्ताद्रिẖ कवलत्वं न नीयते
असता व्यवहारश् चेत् प्रेक्षामात्रविनाशिना । क्रियते शशशृङ्गेण तत् कथं च्छाद्यते न खम्
अहम्भावाच् चिदाकाशो जाड्यातिशयतẖ क्षणात् । पाषाणतां जलम् इव मनस्त्वाद् याति देहताम्
चित्त्वाद् अनुभवत्य् एताम् असत्याम् एव देहिताम् । अविनष्टैव चिच्छक्तिस् स्वप्ने स्वमरणं यथा
व्योम्न्य् असत्यम् अवस्तुत्वात् सत्यं चानुभवाद् यथा । नीलत्वं तद्वद् ईशे ऽस्मिन् सर्गो नासन् न सन्मयः
यथा शून्यत्वनभसोर् यथा स्पन्दनभस्वतोः । भेदो नास्ति तथा सर्गब्रह्मणोर् एकरूपयोः
नेह सञ्जायते किञ्चिज् जगदादि न नश्यति । स्वप्नो निद्रागतस्येव केवलं प्रतिभासते
अविद्यमाने पृथ्व्यादौ प्रतिभामात्ररूपिणि । सर्गे क इव संरम्भस् त्यागादानैश् चिदम्बरे
न देहप्रतिभातो ऽस्ति बुद्ध्यादिकरणान्विता । केवलं ब्रह्म चिन्मात्रम् एवम् आत्मन्य् अवस्थितम्
बुद्ध्यादेẖ करणत्वं च द्वैतैक्यासम्भवान् न सत् । अनेनेदं क्रियत इत्य् अस्यार्थस्यात्यसम्भवात्
अहेतुर् अक्रमं भाति चिति कल्पक्रियागणः । क्षणेनैव यथा स्वप्ने मृतिजन्माब्धिसन्तराः
खम् एव पृथ्वी खं शैलाẖ खम् एव दृढभित्तयः । खम् एव लोकास् स्पन्दẖ खं सर्गसंवेदने चितेः
व्योमभित्तौ जगच्चित्रं चिद्रङ्गमयम् आततम् । नोदेति नास्तम् आयाति न ताम्यति न शाम्यति
चिद्वारिणि जगत्तुङ्गतरङ्गद्रवरूपिणि । किं कदा कथम् उत्पन्नं किं शान्तं च कदा कथम्
शान्ते महाचिदाकाशे जगच्छून्यत्वशालिनि । चेत्यासम्भवतस् सन्ति नोदयास्तमयोक्तयः
पर्वता गगनायन्ते गगनं पर्वतायते । संवेदनप्रयोगेण ब्रह्मणस् सर्गतास्थितौ
संविच्चूर्णप्रयोगेण निमेषार्धेन योगिनः । कुर्वन्ति जगद् आकाशम् आकाशं त्रिजगन्ति हि
सिद्धसङ्कल्पनगराण्य् असङ्ख्यानि यथाम्बरे । तथा सर्गसहस्राणि सन्ति तानि तु चिन्नभः
महार्णवे यथावर्ता अन्योऽन्यम् अपि मिश्रिताः । पृथग् एवावतिष्ठन्ते व्यतिरिक्ता न ते ततः
सर्गात् सर्गान्तरालोको यḫ प्रबुद्धस्य योगिनः । सिद्धलोकान्तरप्राप्तिस् सैवेति विबुधोक्तयः
अविनाशीनि भूतानि स्थितानि परमे शिवे । व्योम्नीव शून्यतोल्लासास् सर्गवर्गा निरर्गलाः
परमार्थनिजामोदास् सहजास् सर्गविभ्रमाः । नोद्यन्ति नोपशाम्यन्ति लेखा इव शिलोदरे
अन्योऽन्यं कुसुमामोदा मिलिता अप्य् अमिश्रिताः । व्योमरूपास् तथा सर्गा अन्योऽन्यं सिद्धभूमयः