कार्यकारणभावादि ब्रह्मैव सकलं यदि । तदा ब्रह्मणि सर्गाणां कारणार्थी विलज्जताम्
न दुẖखम् अस्ति न सुखं शान्तं शिवमयं जगत् । नास्ति विन्मात्रतान्यत्वम् अत इच्छोदयẖ कुतः
मृद्देहयोधसेनायां न मृण्मात्रेतरद् यथा । न सज्जगदहन्तादौ दृश्ये ब्रह्मेतरत् तथा
एवं चेत् तद् उदेत्व् इच्छा मा वोदेतु मुनीश्वर । सा तु ब्रह्मैव को ऽर्थस् स्याद् अस्या विधिनिषेधनैः
ज्ञतायां सम्प्रबुद्धायाम् इच्छा ब्रह्मैव नेतरत् । यथासि बुद्धवान् राम तत् सत्यं किं त्व् इदं शृणु
यदा यदा ज्ञतोदेति शाम्यतीच्छा तदा तदा । वस्तुस्वभावाद् उदयत्य् आदित्ये यामिनी यथा
यथा यथोदयो ज्ञप्तेर् द्वैतशान्तिस् तथा तथा । वासनाविलयश् चैव कथम् इच्छोदयो भवेत्
तस्याविद्योपशान्तेयं निर्मला मुक्ततोदिता । अशेषदृश्यवैरस्याद् यस्येच्छोदेति न क्वचित्
विरक्ततास्य नो दृश्ये न चाप्य् अत्रास्य रक्तता । केवलं ज्ञाय दृश्यश्रीस् स्वदते न स्वभावतः
काकतलीययोगेन परप्रेरणयाथ वा । यदि किञ्चित् कदाचिच् च सम्यग् इच्छति वा न वा
तद् अस्य सेच्छानिच्छा च ब्रह्मैवात्र न संशयः । इच्छायां ज्ञायते ज्ञस्यावश्यम् एव तु तानवम्
ज्ञता चेद् उदिता जन्तोस् तद् इच्छास्योपशाम्यति । नैतयोस् स्थितिर् एकत्र प्रकाशतमसोर् इव
प्रतिषेधविधीनां तु तज्ज्ञो न विषयẖ क्वचित् । शान्तसर्वैषणेच्छस्य को ऽस्य किं वक्ति किंकृते
एतद् एव ज्ञताचिह्नं यद् इच्छास्व् अतितानवम् । ह्लादनं सर्वलोकानाम् अथानुदय एव वा
दृश्यं विरसतां यातं यदा न स्वदते क्वचित् । तदा नेच्छा प्रसरति तदैव च विमुक्तता
बोधाद् अनैक्यम् अद्वैतं यश् शान्तम् अवतिष्ठते । इच्छानिच्छादयस् सर्वे भावास् तस्य शिवात्मकाः
बोधाद् अस्तमितद्वैतम् अद्वैताद् ऐक्यवर्जितम् । यस् स्वच्छो विगतव्यग्रश् शान्त आत्मन्य् अवस्थितः
नैव तस्य कृतेनार्थो न सता नासता सदा । न चात्मना न चान्येन नैतैर् मरणजीवितैः
इच्छा च तस्य नोदेति निर्वाणस्य प्रबोधिनः । यदि वोदेति तत् स्वच्छा ब्रह्म शाश्वतम् एव सा
न दुẖखम् अस्ति न सुखं शान्तं शिवम् अजं जगत् । इति यो ऽन्तश् शिलेवास्ते तं प्रबुद्धं विदुर् बुधाः
दुẖखं सुखं भावनया कुर्वन् विषम् इवामृतम् । इति निश्चयधीरात्मा प्रबुद्ध इति कथ्यते
तत् स्थितं व्योमनि व्योम शान्ते शान्तं शिवे शिवम् । शून्ये शून्यं सति च सद् यद् ब्रह्मणि जगत् स्थितम्
असंवेदनसंवित्खे तते विश्वम् इति स्थिते । सोम्ये समसमे शान्ते शिवे ऽहन्ताभ्रमẖ क्षयी
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । तत् सर्वं शान्तम् आकाशं परचिन्तापुरोपमम्
परचिन्तापुरो मध्ये गतविघ्नं गमागमौ । यथा स्तस् तव शून्यत्वात् तथैवास्मिञ् जगद्भ्रमे
अद्रिद्यूर्वीनदीशाभा शून्यतात्मनि जृम्भते । अद्रष्टृदृश्यकरणं मृगतृष्णाम्बुवीचिवत्
स्वप्ननिर्माणपुरवद् बालवेतालतालवत् । यद् इदं दृश्यते तत्र किं किलासत्यतेतरत्
असत्यम् एवाहम् इति भासते सत्यम् एव च । भ्रान्तिभाजं विनैवेयं भ्रान्तिस् स्फुरति सासती
नासन् न सन् न सदसत् किम् अपीदम् अतीन्द्रियम् । अवाच्यं जगद् इत्य् एव भात्य् अविक्षुभितं खवत्
इहेच्छानिच्छते ज्ञस्य शमाद् यद्य् अप्य् अलं समे । तथापि श्रेयसे मन्ये नन्व् अनिच्छोदयं स्फुटम्