एष एव स्वभावो यद् द्रष्टृदृश्यदृशो ऽखिलाः । ज्ञात्वासत्या विनिर्वाणम् अहन्तात्मनि गच्छति
निर्वाणे नास्ति दृश्यादि दृश्यादौ नास्ति निर्वृतिः । मिथो ऽनयोर् अनुभवो न च्छायातपयोर् इव
उभे एते मिथो ऽसत्यम् असत्यैवात्र निर्वृतिः । यतो निर्वाणम् अजरम् अदुẖखम् अनुभूयते
भ्रमभूतं तु दृश्यादि नित्यानन्तसुखप्रदम् । असच् च तद् भाव्यतां मा निर्वाणे स्थीयताम् अजे
शुक्तिकारुप्यसदृशं प्रेक्षितं यन् न लभ्यते । अर्थकार्य् अपि तन् नास्ति किम् अत्रापह्नवेन वः
तत्सद्भावान् महद् दुẖखम् असद्भावान् महत् सुखम् । अभावस् सोपपत्तिस् तु दृढतां याति भावनात्
तत् किम् आत्मनि बन्धाय विदधध्वं नराधमाः । स्पष्ट एवोपचयदे वस्तुन्य् अस्तमितापदि
कार्यकारणताद्य् अस्मिन् संविन्मात्रात्मके तते । मार्गयन्त्य् अप्रबोधाद्य् एतैर् मृगैर् अलम् अस्तु नः
व्योमरूपे किलैकस्मिन् सर्वात्मनि तते सति । कार्यकारणताद्यानाम् उक्तीनाम् एव कẖ क्रमः
यो हेतुस् स्पन्दने वायोर् द्रवत्वे सलिलस्य च । शून्यत्वे नभसस् सो ऽस्य सर्गादित्वे चिदात्मनः
कार्यकारणभावादि ब्रह्मैव सकलं यदि । तदा ब्रह्मणि सर्गाणां कारणार्थी विलज्जताम्
न दुẖखम् अस्ति न सुखं शान्तं शिवमयं जगत् । नास्ति विन्मात्रतान्यत्वम् अत इच्छोदयẖ कुतः
मृद्देहयोधसेनायां न मृण्मात्रेतरद् यथा । न सज्जगदहन्तादौ दृश्ये ब्रह्मेतरत् तथा
एवं चेत् तद् उदेत्व् इच्छा मा वोदेतु मुनीश्वर । सा तु ब्रह्मैव को ऽर्थस् स्याद् अस्या विधिनिषेधनैः
ज्ञतायां सम्प्रबुद्धायाम् इच्छा ब्रह्मैव नेतरत् । यथासि बुद्धवान् राम तत् सत्यं किं त्व् इदं शृणु
यदा यदा ज्ञतोदेति शाम्यतीच्छा तदा तदा । वस्तुस्वभावाद् उदयत्य् आदित्ये यामिनी यथा
यथा यथोदयो ज्ञप्तेर् द्वैतशान्तिस् तथा तथा । वासनाविलयश् चैव कथम् इच्छोदयो भवेत्
तस्याविद्योपशान्तेयं निर्मला मुक्ततोदिता । अशेषदृश्यवैरस्याद् यस्येच्छोदेति न क्वचित्
विरक्ततास्य नो दृश्ये न चाप्य् अत्रास्य रक्तता । केवलं ज्ञाय दृश्यश्रीस् स्वदते न स्वभावतः
काकतलीययोगेन परप्रेरणयाथ वा । यदि किञ्चित् कदाचिच् च सम्यग् इच्छति वा न वा
तद् अस्य सेच्छानिच्छा च ब्रह्मैवात्र न संशयः । इच्छायां ज्ञायते ज्ञस्यावश्यम् एव तु तानवम्
ज्ञता चेद् उदिता जन्तोस् तद् इच्छास्योपशाम्यति । नैतयोस् स्थितिर् एकत्र प्रकाशतमसोर् इव
प्रतिषेधविधीनां तु तज्ज्ञो न विषयẖ क्वचित् । शान्तसर्वैषणेच्छस्य को ऽस्य किं वक्ति किंकृते
एतद् एव ज्ञताचिह्नं यद् इच्छास्व् अतितानवम् । ह्लादनं सर्वलोकानाम् अथानुदय एव वा
दृश्यं विरसतां यातं यदा न स्वदते क्वचित् । तदा नेच्छा प्रसरति तदैव च विमुक्तता
बोधाद् अनैक्यम् अद्वैतं यश् शान्तम् अवतिष्ठते । इच्छानिच्छादयस् सर्वे भावास् तस्य शिवात्मकाः
बोधाद् अस्तमितद्वैतम् अद्वैताद् ऐक्यवर्जितम् । यस् स्वच्छो विगतव्यग्रश् शान्त आत्मन्य् अवस्थितः
नैव तस्य कृतेनार्थो न सता नासता सदा । न चात्मना न चान्येन नैतैर् मरणजीवितैः
इच्छा च तस्य नोदेति निर्वाणस्य प्रबोधिनः । यदि वोदेति तत् स्वच्छा ब्रह्म शाश्वतम् एव सा
न दुẖखम् अस्ति न सुखं शान्तं शिवम् अजं जगत् । इति यो ऽन्तश् शिलेवास्ते तं प्रबुद्धं विदुर् बुधाः