निरिच्छत्वं समाधानम् आहुर् आगमभूषणाः । यथा शाम्येन् मनो ऽनिच्छं नोपभोगशतैर् अपि
इच्छोदयो यथा दुẖखम् इच्छाशान्तिर् यथा सुखम् । तथा न नरके नापि ब्रह्मलोके ऽनुभूयते
इच्छामात्रं विदुश् चित्तं तच्छान्तिर् मोक्ष उच्यते । एतावन्त्य् एव शास्त्राणि तपांसि नियमा यमाः
यावती यावती जन्तोर् इच्छोदेति यथा यथा । तावती तावती दुẖखबीजमुष्टिḫ प्ररोहति
यथा यथेच्छास् तनुतां यान्ति जन्तोर् विवेकतः । तथा तथोपशाम्यन्ति दुẖखचिन्ताविषूचिकाः
यथा यथेच्छा घनतां यान्ति लोकस्य रागिणः । तथा तथा विवर्तन्ते दुẖखचिन्ताविषोर्मयः
इच्छा चिकित्स्यते व्याधिर् न स्वयत्नौषधेन चेत् । तद् अत्र बलवन् मन्ये विद्यते नौषधान्तरम्
इच्छोपशमनं कर्तुं यदि कृत्स्नं न शक्यते । स्वल्पम् अप्य् अनुगन्तव्यं मार्गस्थो नावसीदति
यस् त्व् इच्छातानवे यत्नं न करोति नराधमः । सो ऽन्धकूपे स्वम् आत्मानं दिनानुदिनम् उज्झति
दुẖखप्रसवशालिन्या बीजम् इच्छैव संसृतेः । सम्यग्ज्ञानाग्निदग्धा सा न भूयḫ परिरोहति
इच्छामात्रं हि संसारो निर्वाणं तदवेदनम् । इच्छानुत्पादने यत्नẖ क्रियतां किं वृथाभ्रमैः
शास्त्रोपदेशगुरवḫ प्रेक्ष्यन्ते किम् अनर्थकम् । किम् इच्छाननुसन्धानसमाधिर् नाधिगम्यते
यस्येच्छाननुसन्धानमात्रे दुस्साधतामतेः । गुरूपदेशशास्त्रादि तस्य नूनम् अनर्थकम्
इच्छाविषविकारिण्या सत्तयैव नृणाम् अलम् । दुẖखप्रसवकारिण्या हारिण्या जन्मजङ्गले
न वालीक्रियते ऽन्येषाम् आत्मज्ञानाय चेद् असौ । इच्छोपशान्तिẖ क्रियतां तयालं तद् अवाप्यते
निरिच्छतैव निर्वाणं सेच्छतैव हि बन्धनम् । यथाशक्ति जयेद् इच्छां किम् एतावति दुष्करम्
जरामरणजन्मादिकरञ्जखदिरावलेः । बीजम् इच्छाशु सैवान्तर् दह्यतां शमवह्निना
यतो यतो निरिच्छत्वं मुक्ततैव ततस् ततः । यावद्गति यथाप्राणं हन्याद् इच्छां समुत्थिताम्
यतो यतश् च सेच्छत्वं बन्धपाशास् ततस् ततः । पुण्यपापमया दुẖखराशयो विततार्तयः
इच्छानिरासरहिते गते साधोẖ क्षणे ऽपि च । दस्युभिर् मुषितस्येव युक्तम् आक्रन्दितं चिरम्
यथा यथास्य पुंसो ऽन्तर् इच्छा समुपशाम्यति । तथा तथास्य कल्याणं मोक्षाय परिवर्धते
आत्मनो निर्विवेकस्य यद् इच्छापरिपूरणम् । संसारविषवृक्षस्य तद् एव परिषेचनम्
हृद्वृक्षजास् स्वसुखदुẖखकुबीजकोश्यो वैराद् इवाशयकृताद् अशुभाच् छुभाच् च । आसाद्य दुष्कृतकृशानुशिखाश् शितान्ता इच्छाश् छमच्छमिति पुंस्पशुम् आदहन्ति
इच्छाविषविकारस्य प्रयोगं योगनामकम् । शान्तये शृणु भूयो ऽपि पूर्वम् उक्तम् अपि स्फुटम्
आत्मनो व्यतिरिक्तं चेद् विद्यते तद् इहेच्छया । इष्यताम् असति त्व् एवं स्वात्मान्यत्वे किम् इष्यते
निर्भागावयवा सूक्ष्मा व्योम्नश् शून्यतरैव चित् । सैवाहं जगद् आशाश् च सती किं तत् तयेष्यते
सा व्योमरूपा व्योम्न्य् एव वेत्तीवावेद्यवेदना । व्योमात्म जगदाभासम् अत्रेच्छाविषयो ऽस्ति कः
ग्राह्यग्राहकसम्बन्धẖ कुतश् चेद् इति तन् न नः । विद्यते ऽसौ प्रसक्तानां येषाम् अस्ति न वेद्मि तान्
ग्राह्यग्राहकसम्बन्धस् स्वनिष्ठो ऽपि न लभ्यते । असतस् तु कथं लाभẖ केन लब्धो ऽसितश् शशी
एषैव ग्राहकादीनां सत्ता यन् नाम निष्ठता । स्वभावप्रेक्षयासत्या न जाने क्व प्रयान्ति ते