स विश्रान्तमना मौनी यस्य प्रकृतकर्मसु । स्पन्दो दारुमयस्येव विगतेच्छम् अनाकुलम्
अन्तश्शून्यं बहिश्शून्यं विरसं गतवासनम् । जरद्वेणोर् इव ज्ञस्य जीवतो भाति जीवितम्
यस्मै न स्वदते दृश्यम् अदृश्यं स्वदते हृदि । सबाह्याभ्यन्तरं शान्तस् स उत्तीर्णो भवार्णवात्
उच्यन्तां शब्दजालानि वंशवद् गतवासनम् । रसेनानङ्गलग्नेन प्रकृतान्य् अन्यचोदनैः
स्पृश्यन्तां स्पर्शनीयानि यथाप्राप्तान्य् अवासनम् । कूटागारवद् अक्षुब्धम् अनिच्छमननोदयम्
स्वाद्यन्तां रसजालानि विगतेच्छाभयैषणम् । अपगर्वाभिलषणं यथाप्राप्तानि दर्विवत्
दृश्यन्तां रूपजातानि पुरḫ प्राप्तान्य् अवासनम् । अरसं निर्मनोमानम् अगर्धं चित्रनेत्रवत्
शिङ्घ्यन्तां गन्धपुष्पाणि विगतेच्छम् अवासनम् । स्पन्दवत्त्वे ऽपि लग्नानि त्यागाय वनवातवत्
इति चेद् विरसत्वेन बोधयित्वा चिकित्सिताः । न भोगरोगास् तद् दुẖखशान्त्यै नास्ति कथैव वः
यस् स्वादयन् भोगविषं रतिम् एति दिने दिने । सो ऽग्नौ स्वमूर्ध्नि ज्वलिते कक्षम् अक्षयम् उज्झति
निरिच्छत्वं समाधानम् आहुर् आगमभूषणाः । यथा शाम्येन् मनो ऽनिच्छं नोपभोगशतैर् अपि
इच्छोदयो यथा दुẖखम् इच्छाशान्तिर् यथा सुखम् । तथा न नरके नापि ब्रह्मलोके ऽनुभूयते
इच्छामात्रं विदुश् चित्तं तच्छान्तिर् मोक्ष उच्यते । एतावन्त्य् एव शास्त्राणि तपांसि नियमा यमाः
यावती यावती जन्तोर् इच्छोदेति यथा यथा । तावती तावती दुẖखबीजमुष्टिḫ प्ररोहति
यथा यथेच्छास् तनुतां यान्ति जन्तोर् विवेकतः । तथा तथोपशाम्यन्ति दुẖखचिन्ताविषूचिकाः
यथा यथेच्छा घनतां यान्ति लोकस्य रागिणः । तथा तथा विवर्तन्ते दुẖखचिन्ताविषोर्मयः
इच्छा चिकित्स्यते व्याधिर् न स्वयत्नौषधेन चेत् । तद् अत्र बलवन् मन्ये विद्यते नौषधान्तरम्
इच्छोपशमनं कर्तुं यदि कृत्स्नं न शक्यते । स्वल्पम् अप्य् अनुगन्तव्यं मार्गस्थो नावसीदति
यस् त्व् इच्छातानवे यत्नं न करोति नराधमः । सो ऽन्धकूपे स्वम् आत्मानं दिनानुदिनम् उज्झति
दुẖखप्रसवशालिन्या बीजम् इच्छैव संसृतेः । सम्यग्ज्ञानाग्निदग्धा सा न भूयḫ परिरोहति
इच्छामात्रं हि संसारो निर्वाणं तदवेदनम् । इच्छानुत्पादने यत्नẖ क्रियतां किं वृथाभ्रमैः
शास्त्रोपदेशगुरवḫ प्रेक्ष्यन्ते किम् अनर्थकम् । किम् इच्छाननुसन्धानसमाधिर् नाधिगम्यते
यस्येच्छाननुसन्धानमात्रे दुस्साधतामतेः । गुरूपदेशशास्त्रादि तस्य नूनम् अनर्थकम्
इच्छाविषविकारिण्या सत्तयैव नृणाम् अलम् । दुẖखप्रसवकारिण्या हारिण्या जन्मजङ्गले
न वालीक्रियते ऽन्येषाम् आत्मज्ञानाय चेद् असौ । इच्छोपशान्तिẖ क्रियतां तयालं तद् अवाप्यते
निरिच्छतैव निर्वाणं सेच्छतैव हि बन्धनम् । यथाशक्ति जयेद् इच्छां किम् एतावति दुष्करम्
जरामरणजन्मादिकरञ्जखदिरावलेः । बीजम् इच्छाशु सैवान्तर् दह्यतां शमवह्निना
यतो यतो निरिच्छत्वं मुक्ततैव ततस् ततः । यावद्गति यथाप्राणं हन्याद् इच्छां समुत्थिताम्
यतो यतश् च सेच्छत्वं बन्धपाशास् ततस् ततः । पुण्यपापमया दुẖखराशयो विततार्तयः
इच्छानिरासरहिते गते साधोẖ क्षणे ऽपि च । दस्युभिर् मुषितस्येव युक्तम् आक्रन्दितं चिरम्