अत्यन्ताभाव एवास्ति संसारस्य जगत्स्थितेः । यस्मिन् बोधमहाम्भोधौ तद् रूपं परमात्मनः
द्रष्टृदृश्यक्रमो यत्र स्थितो ऽप्य् अस्तम् अलं गतः । यद् अनाकाशम् आकाशस् तद् रूपं परमात्मनः
अशून्यम् इव यच् छून्यं यस्मिञ् शून्यं जगत् स्थितम् । सर्गौघे सति यच् छून्यं तद् रूपं परमात्मनः
यन् महाचिन्मयम् अपि बृहत्पाषाणवत् स्थितम् । जडं त्व् अजडम् एवान्तस् तद् रूपं परमात्मनः
सबाह्याभ्यन्तरं सर्वं येन सम्प्राप्य सङ्गमम् । स्वरूपसत्ताम् आप्नोति तद् रूपं परमात्मनः
प्रकाशस्य यथालोको यथा शून्यत्वम् अम्बरे । तथेदं संस्थितं यत्र तद् रूपं परमात्मनः
सर्वतः परमात्मैष कथं नामावबुध्यते । इयतो ऽस्य जगन्नाम्नो दृश्यस्यासम्भवः कुतः
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् । अत्यन्ताभावसम्बोधे यदि रूढिर् अलं भवेत्
तज् ज्ञातं ब्रह्मणो रूपं भवेन् नान्येन कर्मणा । दृश्यात्यन्ताभावतस् तु ऋते नान्या शुभा गतिः
अत्यन्ताभावसम्पत्तौ दृश्यस्यास्य यथास्थितेः । शिष्यते परमार्थो ऽसौ बुध्यते ज्ञायते ततः
न चिद् अप्रतिबिम्बास्ति दृश्याभावाद् ऋते क्वचित् । क्व विना प्रतिबिम्बेन किलादर्शो ऽवतिष्ठते
जगन्नाम्नो ऽस्य दृश्यस्य सत्तासम्भवनं विना । बुध्यते परमं तत्त्वं न कदाचन केनचित्
इयतो दृश्यजालस्य ब्रह्माण्डस्य जगत्स्थितेः । मुने कथम् असत्तास्ति क्व मेरुस् सर्षपोदरे
दिनानि कतिचिद् राम यदि तिष्ठस्य् अखिन्नधीः । साधुसङ्गमसच्छास्त्रपरमस् तद् अहं क्षणात्
प्रमार्जयामि ते दृश्यं बोधे मृगजलं यथा । दृश्याभावे द्रष्टृता च शाम्येद् बोधो ऽवशिष्यते
द्रष्टृत्वं सति दृश्ये ऽस्मिन् दृश्यत्वं सत्य् अवेक्षके । एकत्वं सति हि द्वित्वे द्वित्वं चैकत्ववेदने
एकाभावे द्वयोर् एव सिद्धिर् भवति नात्र हि । द्वित्वैक्यद्रष्टृदृश्यत्वक्षये सद् अवशिष्यते
अहन्तादि जगद्दृश्यं सर्वं ते मार्जयाम्य् अहम् । अत्यन्तासत्त्वसंवित्त्या मनोमकुरतो मलम्
नासतो विद्यते भावो नाभावो विद्यते सतः । यत् तु नास्ति स्वभावेन कः क्लेशस् तत्प्रमार्जने
जगद् आदाव् अनुत्पन्नं यच् चेदं दृश्यते ततम् । तत् स्वात्मन्य् एव विमले ब्रह्म चित्त्वात् स्वबृंहितम्
जगन् नाम न चोत्पन्नं न चास्ति न च दृश्यते । हेम्नीव कटकादित्वं किम् एतन्मार्जने श्रमः
तथैतद् विस्तरेणेह वक्ष्यामो बहुयुक्तिभिः । अबाधितं यथा नूनं स्वयम् एवानुभूयते
आदाव् एव हि नोत्पन्नं यत् तस्येहास्तिता कुतः । कुतो मरौ जलसरिद् द्वितीयेन्दौ कुतो ग्रहः
यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् । यथा नास्ति नभोवृक्षस् तथा नास्ति जगद्भ्रमः
यद् इदं दृश्यते राम तद् ब्रह्मैव निरामयम् । एतत् पुरस्ताद् वक्ष्यामो युक्तितो न गिरैव वः
यन् नाम युक्तिभिर् इह प्रवदन्ति तज्ज्ञास् तत्रावहेलनम् अयुक्तम् उदारबुद्धेः । यो युक्तियुक्तम् अवमत्य विमूढबुद्ध्या कष्टावहो भवति तं विदुर् अज्ञम् एव
कयैतज् ज्ञायते युक्त्या कथम् एतत् प्रसिध्यति । न्याये ऽनुभूत एतस्मिन् न ज्ञेयम् अवशिष्यते
बहुकालम् इयं रूढा मिथ्याज्ञानविषूचिका । जगन्नाम्नी विचाराख्याद् ऋते मन्त्रान् न शाम्यति
वदाम्य् आख्यायिका राम या इमा बोधसिद्धये । ताश् चेच् छृणोषि तत् साधो मुक्त एवासि बुद्धिमान्
नो चेद् उद्वेगशीलत्वाद् अर्धाद् उत्थाय गच्छसि । तत् तिर्यग्धर्मिणस् ते ऽद्य किञ्चिन् नापि तु सेत्स्यति