अदेशकालावयवो ऽप्य् एष देवो दिवानिशम् । असज् जगत् तनोतीव यथा वारि तरङ्गकम्
एतस्मिन् विकसन्त्य् एता विपुलाकाशकानने । जगज्जरढमञ्जर्यḫ प्रसरत्पत्त्रपञ्चकाः
एष स्वप्रतिबिम्बस्य स्वयमालोकनेच्छया । अत्यन्तनिर्मलाकारस् स्वयं मकुरतां गतः
व्योमवृक्षफलस्यास्य स्वेच्छाच्छर्द्धय उज्ज्वलाः । सर्गोपलम्भसुस्वाद्व्यश् चमत्कुर्वन्ति संविदि
अन्तस्त्वेन बहिष्ट्वेन नानानानातयात्मनि । एष सो ऽन्तर् बहिर् भाति भावाभावविभावया
एतद्रूपा पदार्थश्रीर् एतस्मिन्न् एतदिच्छया । चमत्करोत्य् एतदर्थं जिह्वेव स्वास्यकोटरे
अस्याम्भसो द्रवत्वं यत् तद् इदं जगद् उच्यते । संवित्स्वादूपलम्भाङ्गं भुवनावर्तवृत्तिमत्
शाम्यत्य् अत्र पदार्थश्रीस् सर्वा यामेव भास्वति । एतस्माद् एव चोदेति स्वालोक इव तेजसः
इदम् एष जगत् सर्वं शुक्लत्वं तुहिनं यथा । अत एताḫ प्रवर्तन्ते विद इन्दोर् इवांशवः
एतस्माद् अङ्गतो रङ्गाज् जगच् चित्रम् इदं स्थितम् । विद्ध्य् अभावविकारादि शान्तम् एतन्मयं ततम्
अस्माद् वरतरोर् एतास् स्वारूढाद् गगनाङ्गने । दृश्यशाखाḫ प्रवर्तन्ते जगज्जालगुलुच्छकाः
व्ययोदयवती नूनम् अत्र दृश्यतरङ्गिणी । नानातानन्तकुसुमा वहत्य् अविचलाचले
अस्मिन् व्योमात्मके रङ्गे भुवनाभिनयभ्रमैः । नृत्यत्य् अविरतारम्भं चारैर् नियतिनर्तकी
जगत्क्रीडो महाकल्पकल्पोन्मेषनिमेषणः । विदानेनाद्यते भूयो जन्यते कालबालकः
उद्यत्स्व् अपि जगत्स्व् एष शान्तम् एवावतिष्ठते । अनिच्छ एव मकुरḫ प्रतिबिम्बगतेष्व् इव
भूतानां वर्तमानानां सर्गाणां स भविष्यताम् । एषो ऽकारणकं बीजम् अगानाम् इव काननम्
अस्योन्मेषो जगल्लक्ष्मीर् निमेषḫ प्रलयागमः । अनुन्मेषनिमेषो ऽसाव् आत्मन्य् एवावतिष्ठते
उद्यन्त्य् अमूनि सुबहूनि महामहांसि सर्गागमप्रलयजन्मदशाजगन्ति । सर्वाणि तान्य् अयम् अपारखरूप एव प्रस्पन्दनानि मरुद् एव यथास्स्व शान्तम्
चमत्कुर्वन्त्य् अथात्रार्था आवर्ता इव वारिणि । एतच् च भावास् सकला यथा वारि तरङ्गकाः
सर्वस्यैवास्य विश्वस्य निर्ज्ञेयज्ञानरूपिणी । परमाकाशता रूपं किं परोपशमश्रमः
बालचिन्तापुरं व्योम्नि न किञ्चिद् अपि मे यथा । तथेदं तत्त्वतो विश्वं सत्यं तु शिशुचेतसि
अरूपालोकमननं शिलापुत्रकसैन्यवत् । रूपालोकमनस्कारा भान्ति केवात्र विश्वता
रूपालोकमनस्कारसारो विन्मात्रतां विना । न लभ्यते सा च परं व्योमैवात्र क्व विश्वता
विदो वित्त्वं जगद्भ्रान्तिर् अवित्त्वं तु न विभ्रमः । वित्त्वावित्त्वे तदायत्ते चिन्ताचिन्ते यथा तव
परमाकाशरूपत्वाच् चिद्व्योम्नो वितताकृतेः । न स्वभावविपर्यासẖ कश्चित् सम्भवति क्वचित्
तन्मयस्यास्य विश्वस्य न स्वभावविकारिता । विद्यते प्रेक्ष्यमाणापि किम् उ सास्य भविष्यति
सर्वं चिद्व्योम चैवेदं न सत् त्वम् अहम् इत्य् अपि । विकाराद्य् अपि न ज्ञप्ताव् अज्ञप्तिं न लभे क्वचित्
सर्वं शान्तं शिवं शुद्धं त्वमहन्तादिविभ्रमम् । न किञ्चिद् अपि पश्यामि व्योमजं काननं यथा
संविदाकाशशून्यत्वं यत् तद् विद्धि वचो मम । इदं त्वत्संविदाकाशे स्वयम् आत्मनि तिष्ठति
परम् आहुḫ पदं सद् यद् अनिच्छोदयम् आसितम् । पाषाणपुरुषस्येव चित्रस्थस्येव वासनम्