एतद् रूपम् अविद्यायाḫ प्रेक्षिता यन् न लभ्यते । प्रेक्षिता लभ्यते चेत् सा तद् विद्यैव परा भवेत्
अविद्यासम्भवाच् चेत्यचित्त्वे ऽसम्भवतẖ क्वचित् । चेत्यते कथम् एवातश् शान्तिर् एव बलोदिता
सत्यं ब्रह्म जगच् चैकं स्थितम् एकम् अनेकवत् । सर्वं चासर्ववद् भाति शुद्धं चाशुद्धवत् ततम्
अशून्यं शून्यम् इव च शून्यं चाशून्यवत् स्फुटम् । स्फारम् अस्फारम् इव तद् अस्फारं स्फारसन्निभम्
अविकारं विकारीव समं शान्तम् अशान्तवत् । सद् एवासद् इवादृश्यं तद् एवातद् इवोदितम्
अविभागं विभागीव निर्जाड्यं जडवद् गतम् । अचेत्यं चेत्यभावीव निरंशं सांशशोभनम्
अनहं साहम् इव तद् अनाशम् अपि नाशवत् । अकलङ्कं कलङ्कीव निर्वेद्यं वेद्यवाहि तत्
आलोकि ध्वान्तघनवन् नववच् च पुरातनम् । परमाणोर् अपि तनु गर्भीकृतजगद्गणम्
सर्वात्मकम् अपि व्यक्तं दृष्टं कृच्छ्रेण भूयसा । अजालम् अपि जालाढ्यं दाशेशवद् अनेकधा
निर्मायम् अपि मायांशुमण्डलामलभास्करम् । ब्रह्म विद्धि विदां नाथम् अपाम् इव महोदधिम्
जगद्रत्नमहाकोशं तुलायां तूलकाल् लघु । मायामरीचिशशिनम् अपि नेक्षणगोचरम्
अनन्तम् अपि निष्पारं न च क्वचिद् अपि स्थितम् । आकाशे वनविन्यासनगनिर्माणतत्परम्
अणीयसाम् अणीयस् तत् स्थविष्ठं च स्थवीयसाम् । गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसाम् अपि
अकर्तृकर्मकरणम् अकारणम् अकारकम् । अन्तश्शून्यतयैवैतच् चिराय परिपूरितम्
जगत्समुद्गकम् अपि नित्यं शून्यम् अरण्यवत् । अनन्तशैलकठिनम् अप्य् आकाशलवान् मृदु
प्रत्येकं प्रत्यहं प्रायḫ पुराणं पेलवं नवम् । आलोकम् अन्धकाराभं तमस् त्व् आलोकम् आततम्
प्रत्यक्षम् अपि दुर्लक्ष्यं परोक्षम् अपि चाग्रगम् । चिद्रूपम् एव च जडं जडम् एव चिदात्मकम्
अहम् एवानहम्भावम् अनहं चाहम् एव च । अन्यद् एव तद् एवाहम् अहम् एवान्यद् एव तत्
अस्य पूर्णार्णवस्यान्तर् इमे त्रिभुवनोर्मयः । स्फुरन्त इव तिष्ठन्ति स्वभावद्रवतात्मकाः
बिभर्ति सर्गम् अङ्गस्थं तुषारम् इव शुक्लताम् । भाति सर्गस् त्व् अनेनैव तुषारेणेव शुक्लता
अदेशकालावयवो ऽप्य् एष देवो दिवानिशम् । असज् जगत् तनोतीव यथा वारि तरङ्गकम्
एतस्मिन् विकसन्त्य् एता विपुलाकाशकानने । जगज्जरढमञ्जर्यḫ प्रसरत्पत्त्रपञ्चकाः
एष स्वप्रतिबिम्बस्य स्वयमालोकनेच्छया । अत्यन्तनिर्मलाकारस् स्वयं मकुरतां गतः
व्योमवृक्षफलस्यास्य स्वेच्छाच्छर्द्धय उज्ज्वलाः । सर्गोपलम्भसुस्वाद्व्यश् चमत्कुर्वन्ति संविदि
अन्तस्त्वेन बहिष्ट्वेन नानानानातयात्मनि । एष सो ऽन्तर् बहिर् भाति भावाभावविभावया
एतद्रूपा पदार्थश्रीर् एतस्मिन्न् एतदिच्छया । चमत्करोत्य् एतदर्थं जिह्वेव स्वास्यकोटरे
अस्याम्भसो द्रवत्वं यत् तद् इदं जगद् उच्यते । संवित्स्वादूपलम्भाङ्गं भुवनावर्तवृत्तिमत्
शाम्यत्य् अत्र पदार्थश्रीस् सर्वा यामेव भास्वति । एतस्माद् एव चोदेति स्वालोक इव तेजसः
इदम् एष जगत् सर्वं शुक्लत्वं तुहिनं यथा । अत एताḫ प्रवर्तन्ते विद इन्दोर् इवांशवः
एतस्माद् अङ्गतो रङ्गाज् जगच् चित्रम् इदं स्थितम् । विद्ध्य् अभावविकारादि शान्तम् एतन्मयं ततम्