ब्रह्मैवाहं जगच् चात्र कुतो नाशसमुद्भवौ । अतो हर्षविषादानां किं क्वेव कथम् आस्पदम्
सर्वेश्वरत्वाद् ईशस्य विभातीदं प्रचेतितम् । अचेतितं च नो भाति तेनाचेतितम् अस्तु ते
काकतालीयवच् चित्त्वाज् जगद्वद् भाति ब्रह्मखम् । स्वप्नसङ्कल्पपुरवत् तत् तस्माद् भिद्यते कथम्
यथोर्म्यादि जले वृक्षे वा यथा सालभञ्जिका । यथा घटादयो भूमौ तथा ब्रह्मणि सर्गताः
अनाकृताव् असंस्थाने स्वच्छे यद् अनुभूयते । तत् तद् एवात उदितं किं नामाहं जगन्ति किम्
मरुतस् स्पन्दवैचित्र्यं सत्तयैव यथा तथा । ब्रह्मणो निस्स्वभावस्य जगदाद्य् अहमादि च
यथाभ्रे लक्ष्यते वृक्षगजवाजिमृगादिता । असन्निवेशाकृतिनि सर्गाहन्त्वे तथा परे
सर्गो ऽवयववद् भाति परे ऽनवयवे शिवे । एवं तदुपमं विद्धि कार्यकारणवद् यथा
अतश् शान्तम् अनायासं निरुपाधि गतभ्रमम् । जगतो ऽसम्भवाद् एव व्योमवत् समम् आस्यताम्
न भवन्तो न च वयं न जगन्ति न खादयः । सन्ति शान्तम् अशेषेण ब्रह्मेदं निर्भरं स्थितम्
अशेषेष्व् अविशेषेषु शान्ताशेषविशेषता । सत्या सैवाहम् इत्य् आशु त्यक्त्वा मोक्षाय भाव्यताम्
वेदनं बन्धनं विद्धि विद्धि मोक्षम् अवेदनम् । यथास्थितं यथाचारं भव शान्तम् अवेदनम्
द्रष्टा न दृश्यतां याति चितिर् नायाति चेत्यताम् । चेत्याभावाद् अजगति कẖ किं चेतयतां कथम्
द्रष्टृदृश्यदशाभावाज् जाग्रत्य् एव सुषुप्तवत् । शरदाकाशकोशाभम् असत्तोपमम् आस्यताम्
तथैकं ब्रह्म चिद्रूपे पवनस् स्पन्दने यथा । अत्र चिद्बोधता सर्गो मोक्षो ब्रह्मैकबोधता
चित्स्पन्दो ब्रह्ममरुतो यस् स सर्ग इति स्मृतः । नात्र चित्स्पन्दनं यत् स्यान् निर्वाणं तद् उदाहृतम्
बीजम् अन्तर् यथा वेत्ति स्वं रूपं पल्लवादिकम् । तथा महाचिद् अन्तस्स्थं स्वं रूपं वेत्ति सर्गताम्
पत्त्रादिवेदनाद् बीजं यथा पत्त्रादि तिष्ठति । परा चित् सर्गसंवित्तेस् तथा भवति सर्गभाः
यथा भावविकाराभाश् चित् परा सर्गभास् तथा । सर्वे बीजादिदृष्टान्तास् तद्रूपा एव तन्मयाः
निर्विकारं परं ब्रह्ममयं सर्वम् इदं जगत् । निर्विकारम् अनाद्यन्तम् एवं विद्धि निरामयम्
निजसङ्कल्पमात्रात्मा निजासङ्कल्पनात् क्षयी । द्वैताद्वैतविकारो ऽयं सङ्कल्पनगरं यथा
शून्यत्वाकाशयोर् भेदो यादृशो ऽवगतस् त्वया । भेदं निरात्मकं विद्धि तादृशं ब्रह्मसर्गयोः
महाचिद्रूपिणी शान्ता या सत्ता ब्रह्मणḫ परा । खता सेयम् अहं त्वं च मा नरो ऽस्मीत्य् अधो व्रज
ब्रह्मण्य् अस्मिञ् जगद्रूपे न किञ्चिद् अपि जायते । जातम् अप्य् अथ नष्टं च न नश्यत्य् अम्बुवीचिवत्
पदार्थं ब्रह्मरूपेण ब्रह्मैवात्मनि तिष्ठति । अवयवीवावयवे खे खं वारीव वारिणि
निमेषार्धार्धभागेन देशाद् देशान्तरस्थितौ । यद् रूपं संविदो मध्ये स स्वभाव उपास्यताम्
सङ्क्षुब्धम् अक्षुब्धम् इति द्विरूपं संवित्स्वरूपं प्रवदन्ति सन्तः । श्रेयḫ परं येन समीहसे त्वं तदेकनिष्ठो भव मामतिर् भूः
देशाद् देशान्तरं दूरं प्राप्तायास् संविदẖ क्षणात् । यद् रूपम् अमलं मध्ये तद् रूपं परमात्मनः
गच्छञ् शृण्वन् स्पृशञ् जिघ्रन्न् उन्मिषन् निमिषन् हसन् । नूनं निरामयत्वाय नित्यम् एतन्मयो भव
तत एव निराभासात् सत्यान् निर्वासनैषणात् । यथास्थितं यथाचारं मा चलामरशैलवत्