सतो ऽपि मृण्मयस्येव यस्यासंवेदनात्मकम् । साहं जगद् विगलितं तम् आहुर् मुनिसत्तमम्
यथा शाम्यत्य् असङ्कल्पात् सङ्कल्पनगरं तथा । वेदनोत्थं जगद् अहं चेति शाम्यत्य् अवेदनात्
स्वभाववर्जं शब्दार्थास् सर्व एव सहेतुकाः । स्वभावस्य तु यो हेतुर् मुक्तेस् तद् अनुभावनम्
न कस्यचित् पदार्थस्य स्वभावो ऽस्तीह कश्चन । महाचिदम्बुद्रवतास् सर्वा एवानुभूतयः
महाचिदनिलस्पन्दा एता एवानुभूतयः । एतास् ता ब्रह्मगगनशून्यता इति बुध्यताम्
वातस्पन्दाव् इवाभिन्नौ ब्रह्मसर्गौ विभिन्नता । तयोस् त्व् असत्या स्वभ्रान्तेस् स्वप्ने स्वमरणोपमा
भ्रान्तिस् तु तावत् तत्त्वार्थविचारो यावद् अस्फुटः । विचारे तु स्फुटे भ्रान्तिर् ब्रह्मताम् एव गच्छति
भ्रान्तिस् त्व् असत्यावस्त्व् एव प्रेक्षयातो न लभ्यते । शशशृङ्गवद् अत्यच्छम् अतो ब्रह्मैव शिष्यते
अनादिमध्यान्तम् अनन्तम् अच्छं समं शिवं शाश्वतम् एकम् एव । सर्वां जरामोहविकारभारभ्रान्तिं विमुच्याम्बरभावम् एहि
प्राप्तेषु सुखदुẖखेषु यो नश्यति स नश्यति । यो न नश्यत्य् अनाशो ऽसाव् अलं शास्त्रोपदेशनैः
यस्य वेच्छोदयस् तस्य सन्त्य् अवश्यं सुखादयः । ते चेत् साम्याच् चिकित्स्यन्ते पूर्वम् इच्छैव सोह्यताम्
अहं जगद् इति भ्रान्ती न स्त एव परे पदे । इदं शान्तम् अनालम्बं सर्वं निर्वाणम् अव्ययम्
अहं ब्रह्म जगच् चेति शब्दसन्दर्भविभ्रमः । सर्वस्मिञ् शान्त आकाशे केन नामोपकल्पितः
नेहास्त्य् अहं न च जगन् न च ब्रह्मादिशब्दकाः । शान्तस्यैकस्य सर्वत्वात् कर्ता भोक्तेह कẖ कुतः
उपदेशातिशायित्वात् सर्वापह्नव एव यः । कृतो ऽयं स च सत्यात्मा स एवेहावशिष्यते
अग्रस्थसिद्धसञ्चारो ज्ञायते नापि दारुणः । यथैकपार्श्वसंसुप्तनरस्वप्नाभ्रगर्जितम्
ज्ञप्तौ नास्ति यतस् तेन सिद्धाचारो न लक्ष्यते । स्वभाव इति सर्वेण ज्ञप्तिस्थो ह्य् अनुभूयते
ज्ञप्तिर् अप्य् आत्मभूतैव सर्वं भाति हि तन्मयम् । तस्मात् साहं जगत् सर्वम् अभिन्नं परमात्मनः
ज्ञप्तिर् जगत्तया भाति सङ्कल्पस्वप्नयोर् इव । अनानावयवोदेति जलम् ऊर्मितया यथा
एकात्मैवोदयो ज्ञप्तेर् नानाताम् इव वो गतः । अज्ञानात् सा त्व् अवस्तुत्वात् प्रेक्षिता नोपलभ्यते
यथा स्वावयवा एव सर्वो ह्य् अवयवी भवेत् । नित्यानवयवं शान्तं ब्रह्मैवेदं तथा जगत्
भाण्डलक्षाणि धत्ते ऽन्तश् चिद्रूपकनकेष्टका । यद् एव सा चेतयते जगदादीव वेत्ति तत्
ब्रह्मैव कचतीवेदं सत् तयाच्छं जगत्तया । चिद्रूपत्वाद् द्रवात्मत्वात् तरङ्गादितयाम्ब्व् इव
यद् यच् चेतयते ऽन्तस् तज् जगदादीव पश्यति । अरूपम् अपि रूपं स्वं यन् न चेतयते न तत्
चेतनाचेतनत्वोक्ती तस्येशत्वात् स्वदेहगे । उपदेशार्थम् एवोक्ते न सद्विषयम् अर्थतः
न जगत् सन् न चैवासद् भासते चेतनाच् चिति । अचेतनान् न कचति क इवात्र ग्रहो हि नः
अचेतनं चेतनं च स्पन्दास्पन्दवद् आत्मनः । स्वायत्ते न कदर्थस्थे स्वस्थं पाषाणवत् स्थिते
यस्येक्षितस्य नो सत्ता नाधारो न च कारणम् । सो ऽहम् इत्य् एव वो यक्षो न जाने कुत उत्थितः
यस्याहम् इति यक्षस्य सत्तैवास्ति न सत्यतः । अहो नु चित्रं तेनेमे भवन्तो विवशीकृताः
काकतालीयवद् भ्रान्तम् अहं ब्रह्मणि भासते । स्वम् एव रूपं दृग्भ्रान्तौ केशोण्डुकम् इवाम्बरे