आयुर् वायुचलत्पत्त्रलम्बाम्बुकणभङ्गुरम् । परलोकमहाव्याधिर् यत्नेनाशु चिकित्स्यताम्
परलोकमहाव्याधौ यत्नेनाशु चिकित्सिते । दृष्टलोकमयो व्याधिस् स्वयम् आशूपशाम्यति
संविन्मात्रं विदुर् जन्तुं तस्य प्रसरणं जगत् । परमाणूदरे ऽप्य् अस्ति तच् छैलशतविस्तरम्
यत् संविदḫ प्रसरणं रूपालोकमनांसि तत् । व्योमन्य् एवानुभूयन्ते नातस् सत्यो जगद्भ्रमः
प्रलयेष्व् अपि दृष्टेषु जगद्दृश्याभ्रविभ्रमाः । न नश्यन्ति न जायन्ते भ्रान्तिमात्रैकरूपिणः
भोगपङ्कार्णवे मग्न आत्मा नोत्तार्यते यदि । स्वपौरुषचमत्कृत्या तद् उपायो ऽस्ति नेतरः
अजितात्मा जनो मूढो रूढो भोगैककर्दमे । आपदां पात्रताम् एति पयसाम् इव सागरः
जीवितस्य यथा बाल्यं दृष्टं प्रथमकल्पितम् । निर्वाणस्य तथा भोगसन्त्यागो रागशान्तिदः
तज्ज्ञस्य जीवितनदी सकल्लोलाप्य् असम्भ्रमा । समं वहति सोम्यैव चित्रसंस्थेव नीरसा
अज्ञजीवितनद्यस् तु रसेनात्यन्तभीषणाः । आवर्तावृत्तिविक्षोभकल्लोलास् सहवाहिनः
सर्गवेगाḫ प्रवल्गन्ति संवित्प्रसरलेशकाः । द्विचन्द्रबालवेतालमृगाम्बुस्वप्नमोहवत्
संविद्वारितरङ्गौघा भान्ति सर्गास् सहस्रशः । विचारितास् त्व् असत्यास् ते सत्यास् त्व् अनुभवभ्रमात्
जगन्त्य् आकाशकोशे ऽपि संवित्प्रसरणभ्रमात् । सन्तीवाप्य् अनुभूयन्ते न तु सत्यानि तानि हि
संविद्विकासपयसो बुद्बुदस् सर्गविभ्रमः । अहम् इत्यादिसद्भावविकाराकाररूपवान्
संविन्निर्वाणम् अजगत् संविदुन्मीलनं जगत् । नान्तर् न बाह्यं नासत्यं न सत्यं सर्वम् एव तत्
चिद्रूपम् अजम् अव्यक्तम् एकम् अव्ययम् ईश्वरम् । स्वत्वभावत्वरहितं ब्रह्म शान्तात्म खाद् अपि
ब्रह्मणो निस्स्वभावस्य सर्गसंवेदने स्वतः । स्पन्दने पवनस्येव कारणं नोपयुज्यते
स्वप्नानुभववद् भान्ति ब्रह्माब्धौ ब्रह्मवीचयः । सर्गता वस्तुतस् त्व् अत्र न स्वप्नो न च सर्गता
एकम् एव निराभासम् अचित्त्वम् अजडं समम् । न सन् नासन् न खं नाखम् इदम् अद्वयम् अव्ययम्
यथास्थितस्यैव सतो यस्यासंवेदनात्मकम् । संवित्प्रशमनं जातं तम् आहुर् मुनिसत्तमम्
सतो ऽपि मृण्मयस्येव यस्यासंवेदनात्मकम् । साहं जगद् विगलितं तम् आहुर् मुनिसत्तमम्
यथा शाम्यत्य् असङ्कल्पात् सङ्कल्पनगरं तथा । वेदनोत्थं जगद् अहं चेति शाम्यत्य् अवेदनात्
स्वभाववर्जं शब्दार्थास् सर्व एव सहेतुकाः । स्वभावस्य तु यो हेतुर् मुक्तेस् तद् अनुभावनम्
न कस्यचित् पदार्थस्य स्वभावो ऽस्तीह कश्चन । महाचिदम्बुद्रवतास् सर्वा एवानुभूतयः
महाचिदनिलस्पन्दा एता एवानुभूतयः । एतास् ता ब्रह्मगगनशून्यता इति बुध्यताम्
वातस्पन्दाव् इवाभिन्नौ ब्रह्मसर्गौ विभिन्नता । तयोस् त्व् असत्या स्वभ्रान्तेस् स्वप्ने स्वमरणोपमा
भ्रान्तिस् तु तावत् तत्त्वार्थविचारो यावद् अस्फुटः । विचारे तु स्फुटे भ्रान्तिर् ब्रह्मताम् एव गच्छति
भ्रान्तिस् त्व् असत्यावस्त्व् एव प्रेक्षयातो न लभ्यते । शशशृङ्गवद् अत्यच्छम् अतो ब्रह्मैव शिष्यते
अनादिमध्यान्तम् अनन्तम् अच्छं समं शिवं शाश्वतम् एकम् एव । सर्वां जरामोहविकारभारभ्रान्तिं विमुच्याम्बरभावम् एहि
प्राप्तेषु सुखदुẖखेषु यो नश्यति स नश्यति । यो न नश्यत्य् अनाशो ऽसाव् अलं शास्त्रोपदेशनैः