विचारयेत् तदुक्त्यर्थं बुद्ध्या बुद्धिविवृद्धये । सर्वसङ्कल्पमुक्तं यत् तत् सत् तन्मयतां व्रजेत्
विपश्चित्सङ्गमे बुद्धिं नीत्वा परमतीक्ष्णताम् । अज्ञानलतिका सैका कणशẖ क्रियताम् अलम्
एषो ऽर्थस् सम्भवत्य् एव तेनेदं कथयाम्य् अहम् । अनुभूतं वयं बाला नासमञ्जसवेदिनः
व्योम्नो ऽम्बुवाहादिविजृम्भयेव तरङ्गभङ्ग्येव महार्णवस्य । न युज्यते नापि च नश्यतीह नाशोदये निर्मननस्य किञ्चित्
इदं हि सर्वं मृगतृष्णिकाम्बुवन् निरामये ब्रह्मणि शान्त आतते । विचारिते नाहम् इतीव विद्यते कुतẖ क्व कस्मान् मननादिविभ्रमः
स्वपौरुषेण स्वधिया सत्सङ्गमविकासया । यदि नानीयते ज्ञत्वं तद् उपायो ऽस्ति नेतरः
अकल्पितं कल्पितं च प्रतिकल्पनया स्वया । तद् एवान्यत्वम् आदत्ते विषत्वम् अमृतं यथा
कल्पना चाकल्पनान्ता मुक्तता त्यक्तकल्पनम् । एतच् च भोगसन्त्यागपूर्वं सिध्यति नान्यथा
वचसा मनसा चान्तश् शब्दार्थाव् अविभावयन् । य आस्ते वर्धते तस्य कल्पनोपशमश् शनैः
वर्जयित्वाहम् इत्य् एव नाविद्यास्तीतरात्मिका । शान्ते त्व् अभावनाद् अस्मिन् नान्यो मोक्षो ऽस्ति कश्चन
अहम्भावम् अथादेहं किञ्चिच् छ्रयसि नश्यसि । जगदादौ चिरं तस्मिंस् त्यक्ते शाम्यसि सिध्यसि
अचेतनाद् इदं सर्वं सद् एवासद् इव स्थितम् । शान्तं यस्योपलस्येव नमस् तस्मै महात्मने
अचेतनाद् इदं सर्वम् उपलस्येव शाम्यति । शून्याख्यान्तḫ परालीनचित्तस्याचित्तभावनात्
इदम् अस्त्व् अथ वा मास्तु चेतितं दुẖखवृद्धये । अचेतितं सुखायान्तर् अचेतनम् अचेतनात्
द्वौ व्याधी देहिनो घोराव् अयं लोकस् तथा परः । याभ्यां घोराणि दुẖखानि भुङ्क्ते सर्वत्र पीडितः
इहलोके यतन्ते ऽज्ञा व्याधौ भोगदुरौषधैः । आजीवितं यथाशक्ति चिकित्सा नापरामये
परलोकमहाव्याधौ प्रयतन्ते चिकित्सितुम् । शमसत्सङ्गबोधाद्यैर् अमृतैḫ पुरुषोत्तमाः
परलोकचिकित्सायां सावधाना भवन्ति ये । मोक्षमार्गमहेच्छायां शमयुक्त्या जयन्ति ते
इहैव नरकव्याधेश् चिकित्सां न करोति यः । गत्वा निरौषधं स्थानं स रोगी किं करिष्यति
इहलोकचिकित्साभिर् जीवितं यातु मा क्षयम् । आत्मज्ञतौषधैर् अज्ञाḫ परलोकश् चिकित्स्यताम्
आयुर् वायुचलत्पत्त्रलम्बाम्बुकणभङ्गुरम् । परलोकमहाव्याधिर् यत्नेनाशु चिकित्स्यताम्
परलोकमहाव्याधौ यत्नेनाशु चिकित्सिते । दृष्टलोकमयो व्याधिस् स्वयम् आशूपशाम्यति
संविन्मात्रं विदुर् जन्तुं तस्य प्रसरणं जगत् । परमाणूदरे ऽप्य् अस्ति तच् छैलशतविस्तरम्
यत् संविदḫ प्रसरणं रूपालोकमनांसि तत् । व्योमन्य् एवानुभूयन्ते नातस् सत्यो जगद्भ्रमः
प्रलयेष्व् अपि दृष्टेषु जगद्दृश्याभ्रविभ्रमाः । न नश्यन्ति न जायन्ते भ्रान्तिमात्रैकरूपिणः
भोगपङ्कार्णवे मग्न आत्मा नोत्तार्यते यदि । स्वपौरुषचमत्कृत्या तद् उपायो ऽस्ति नेतरः
अजितात्मा जनो मूढो रूढो भोगैककर्दमे । आपदां पात्रताम् एति पयसाम् इव सागरः
जीवितस्य यथा बाल्यं दृष्टं प्रथमकल्पितम् । निर्वाणस्य तथा भोगसन्त्यागो रागशान्तिदः
तज्ज्ञस्य जीवितनदी सकल्लोलाप्य् असम्भ्रमा । समं वहति सोम्यैव चित्रसंस्थेव नीरसा
अज्ञजीवितनद्यस् तु रसेनात्यन्तभीषणाः । आवर्तावृत्तिविक्षोभकल्लोलास् सहवाहिनः