बाह्यताभावनाद् बाह्यम् आत्मैवात्मत्वभावनात् । भवतीदं परे तत्त्वे भावनं तत् तद् एव हि
यान्तस्स्वप्नादिविभ्रान्तिस् सैवेयं बाह्यतोदिता । मनाग् अप्य् अन्यता नात्र द्विभाण्डपयसोर् इव
स्थैर्यास्थैर्ये तथैवात्र भ्रान्तिमात्रमये तते । आधाराधेयते ते द्वे यथा जलतरङ्गते
स्वप्नादाव् आत्मनो ऽन्यत्वज्ञानाद् अन्यत्ववेदनम् । अनन्यभावबोधे तु तद् अनन्यन् न चोदयि
कलनारहितं शान्तं यद् रूपं परमात्मनः । भवत्य् असौ तत् तद्भावाद् अतद्भावान् न तद् भवेत्
स्वप्नादिज्ञानसंशान्तौ यद् रूपं शुद्धम् ऐश्वरम् । न तद् अस्ति न तन् नास्ति न वाग्गोचरम् एति तत्
आत्यन्तिके भ्रान्तिलये मुक्त एवावगच्छति । स्वरूपं नोपदेशस्य विषयो विदुषो ऽपि तत्
शान्तं निरस्तभयमानविषादलोभमोहात्म देहमननेन्द्रियचित्तजाड्यम् । त्यक्त्वाहम् अक्षयम् अपास्तसमस्तभेदं निर्वाणम् एकम् अजम् आसितम् एव युक्तम्
यदा चितिḫ प्रसरति तदाहन्ताजगद्भ्रमः । असद् एवाभ्युदेतीव स्पन्दाद् अप्स्व् इव दामता
उदितो ऽपि न खेदाय ब्रह्मरूपत्ववेदनात् । परमाय त्व् अनर्थाय जगच्छब्दार्थभावनात्
रूपानुभवम् आदत्ते चक्षुḫ प्रसरणाद् यथा । चितिḫ प्रसरणात् तद्वज् जाग्रद्विभ्रमम् आस्थिता
मासौ प्रसरतु व्यर्थं चेत्याभावान् न सा सती । असत् कथं प्रसरति वन्ध्यापुत्रẖ क्व नृत्यति
अयं त्व् अनुभवाद् एव मुधैवानुभवस् स्थितः । असद् एवाननुभवात् स्वयम् अर्भकयक्षवत्
अयं भवामि दुẖखार्थम् अहम् इत्य् एव वेदनात् । अवेदनान् नाहम् अतस् स्वायत्ते बन्धमुक्तते
तद् ध्यानं स समाधिर् वो यद् अवेदनम् आसितम् । अजडाणां जडम् इव समं शान्तम् अनामयम्
द्वैताद्वैतसमुद्भेदैर् वाक्यसन्दर्भविभ्रमैः । मा विषीदत दुẖखाय विबुधा अबुधा इव
असद् आश्रयते दुẖखं स्वप्नवद् घनवासनः । रूपालोकमनस्कारान् सङ्कल्परचितान् इव
दुẖखं सद् एव नाश्नाति सुप्तवत् तनुवासनः । रूपालोकमनस्कारान् सङ्कल्परहितान् इव
अत्यन्ततनुतां याता वासनैवैति मुक्तताम् । देशकालक्रियायोगात् पदार्थो ऽभावताम् इव
अत्यन्ततनुतां याता वासनैवैति मुक्तताम् । पराणुपरिमाणेन खतां खे ऽभ्रादिता यथा
अभावं भावना याति बोधेन घनतानवा । विपश्चित्सङ्गमाभ्यासात् पाण्डित्यम् इव मूढता
नाहम् अस्मीति सद्युक्त्या निश्चयो ऽन्तश् शमात्मकः । जीवतो ऽजीवतश् चातिरूढो बोध इति स्मृतः
वायौ स्पन्द इवात्रेदं जगदाद्य् अवभासते । को ऽहं कथम् इदं चेति विचारेणैव शाम्यति
नाहम् इत्य् एव निर्वाणं किम् एतावति मूढता । सत्सङ्गमविचाराभ्याम् एतद् आश्व् अवगम्यते
क्षीयते तत्त्ववित्सङ्गाद् अहम् इत्य् एव बन्धनम् । आलोकेनेव तिमिरं दिवसेनेव यामिनी
को ऽहं कथम् इदं दृश्यं को जीवः किं च जीवनम् । इति तत्त्वज्ञसंयोगाद् यावज्जीवं विचारयेत्
जीवितं भुवनं भाति तमो ऽहम् इति नश्यति । तत्त्वालोकेन तज्ज्ञार्कसेवनात् स निषेव्यताम्
यो यो बोधातिशयवांस् तं तं पृथग् उपास्स्व भोः । सङ्गसङ्कथयोदेति तेषां वादपिशाचिका
विवादयक्षे ऽभ्युदिते बालस्येव विपश्चितः । मुक्तिम् उक्ताम् अलं मुख्यम् उदेत्य् अहम् इति भ्रमः
अतḫ प्रत्येकम् एकान्ते प्राज्ञस् सेवेत पण्डितम् । एकीकृत्य तदुक्तांस् तान् अर्थान् बुद्ध्या विचारयेत्