यस्य चैष भ्रमस् सो ऽसन् प्रेक्षयासन् न लभ्यते । मृगतृष्णाम्बुवत् तेन संसारẖ कस्य कẖ कुतः
तद् एवं तर्हि कस्य स्याद् इति चिन्तोदयो हि यः । पुनस् स एव संसारविभ्रमस् सम्प्रवर्तते
तस्मात् सर्वम् अनाश्रित्य व्योमवत् समम् आस्यताम् । अपुनस्स्मरणं श्रेय इह विस्मरणं परम्
नेह द्रष्टा न भोक्तास्ति नास्तिता न च नास्तिता । यथास्थितम् इदं शान्तम् एकं स्पन्दि सदाब्धिवत्
सर्वं दृश्यं जगद् ब्रह्म सद् इत्य् अवगते स्फुटम् । जलशोषाद् इवोदेति बिम्बिबिम्बक्षये शिवम्
शान्तता व्यवहारो वा रागद्वेषविवर्जितः । विश्रान्तस्य परे तत्त्वे दृश्यते समदर्शिनः
अथ वा शान्ततैवास्य निर्वाणस्यावशिष्यते । निर्वासनẖ किल मुनिẖ कथं व्यवहरत्व् असौ
यावत् त्व् अस्य न निर्वाणं परिपोषम् उपागतम् । तावद् व्यवहरत्य् अस्तरागद्वेषभयोदयः
वीतरागभयक्रोधो निर्वाणश् शान्तमानसः । शिलेवाप्य् अशिलीभूतो मुनिर् आत्मनि तिष्ठति
कोशे ऽस्ति पद्मबीजस्य यथा सर्वाब्जिनी तथा । अनन्या स्वप्नविभ्रान्तिर् आत्मन्य् अस्ति न बाह्यता
बाह्यताभावनाद् बाह्यम् आत्मैवात्मत्वभावनात् । भवतीदं परे तत्त्वे भावनं तत् तद् एव हि
यान्तस्स्वप्नादिविभ्रान्तिस् सैवेयं बाह्यतोदिता । मनाग् अप्य् अन्यता नात्र द्विभाण्डपयसोर् इव
स्थैर्यास्थैर्ये तथैवात्र भ्रान्तिमात्रमये तते । आधाराधेयते ते द्वे यथा जलतरङ्गते
स्वप्नादाव् आत्मनो ऽन्यत्वज्ञानाद् अन्यत्ववेदनम् । अनन्यभावबोधे तु तद् अनन्यन् न चोदयि
कलनारहितं शान्तं यद् रूपं परमात्मनः । भवत्य् असौ तत् तद्भावाद् अतद्भावान् न तद् भवेत्
स्वप्नादिज्ञानसंशान्तौ यद् रूपं शुद्धम् ऐश्वरम् । न तद् अस्ति न तन् नास्ति न वाग्गोचरम् एति तत्
आत्यन्तिके भ्रान्तिलये मुक्त एवावगच्छति । स्वरूपं नोपदेशस्य विषयो विदुषो ऽपि तत्
शान्तं निरस्तभयमानविषादलोभमोहात्म देहमननेन्द्रियचित्तजाड्यम् । त्यक्त्वाहम् अक्षयम् अपास्तसमस्तभेदं निर्वाणम् एकम् अजम् आसितम् एव युक्तम्
यदा चितिḫ प्रसरति तदाहन्ताजगद्भ्रमः । असद् एवाभ्युदेतीव स्पन्दाद् अप्स्व् इव दामता
उदितो ऽपि न खेदाय ब्रह्मरूपत्ववेदनात् । परमाय त्व् अनर्थाय जगच्छब्दार्थभावनात्
रूपानुभवम् आदत्ते चक्षुḫ प्रसरणाद् यथा । चितिḫ प्रसरणात् तद्वज् जाग्रद्विभ्रमम् आस्थिता
मासौ प्रसरतु व्यर्थं चेत्याभावान् न सा सती । असत् कथं प्रसरति वन्ध्यापुत्रẖ क्व नृत्यति
अयं त्व् अनुभवाद् एव मुधैवानुभवस् स्थितः । असद् एवाननुभवात् स्वयम् अर्भकयक्षवत्
अयं भवामि दुẖखार्थम् अहम् इत्य् एव वेदनात् । अवेदनान् नाहम् अतस् स्वायत्ते बन्धमुक्तते
तद् ध्यानं स समाधिर् वो यद् अवेदनम् आसितम् । अजडाणां जडम् इव समं शान्तम् अनामयम्
द्वैताद्वैतसमुद्भेदैर् वाक्यसन्दर्भविभ्रमैः । मा विषीदत दुẖखाय विबुधा अबुधा इव
असद् आश्रयते दुẖखं स्वप्नवद् घनवासनः । रूपालोकमनस्कारान् सङ्कल्परचितान् इव
दुẖखं सद् एव नाश्नाति सुप्तवत् तनुवासनः । रूपालोकमनस्कारान् सङ्कल्परहितान् इव
अत्यन्ततनुतां याता वासनैवैति मुक्तताम् । देशकालक्रियायोगात् पदार्थो ऽभावताम् इव
अत्यन्ततनुतां याता वासनैवैति मुक्तताम् । पराणुपरिमाणेन खतां खे ऽभ्रादिता यथा