सर्वात्मनि चिदाभासे तद् एवाश्व् अनुभूयते । संवेद्यते यद् एवान्तर् असत्यं सत्यवस्तु वा
तद् एवाभ्यासतḫ पूर्वं बाह्यार्थानुभवात्मना । स्फुरत्य् एव बहिष्ट्वेन स्वस्वप्नो ऽत्र निदर्शनम्
चिद्रूपं सर्वम् एतच् च चिच् चाच्छा गगनाद् अपि । विच् च नो किञ्चिद् एवातो नैतत् किञ्चन कुत्रचित्
न नाशो नास्तिता नार्थो न जन्ममरणे न खम् । न शून्यतास्ति नो नास्ति सर्वं ब्रह्मैव नैव च
नाशे जगदहन्त्वादेर् न किञ्चिद् अपि नश्यति । असतẖ किल नाशे ऽपि स्वप्नाद्रेẖ किं विनश्यति
मिथ्यावभासे सङ्कल्पनगरे केव नष्टता । तथा जगदहन्त्वादौ नाशो नासति विद्यते
कुतो जगदुपालम्भ इति चेत् तद् अवस्तुनि । न निर्णयस् सम्भवति खपुष्पाणां किम् उम्भ्यते
निर्णयस् त्व् एष एवात्र यद् अशेषम् अभावयन् । यथास्थितं यथाचारं पाषाण इव तिष्ठसि
जगत् सङ्कल्पमात्रात्म तन् नञर्थयुतं क्षणात् । शाम्यत्य् अशेषेणेत्य् एव निर्णयस् सर्गविभ्रमे
सर्गो ऽनर्गल एवायं ब्रह्मात्मकतयाक्षयः । अन्यथापि न सर्गो ऽयम् अस्ति नास्ति च सर्गता
येषां न विद्यते सर्गस् स्वप्नपुंसाम् इवासताम् । स सर्गḫ पुरुषास् ते च मृगतृष्णाम्बुवीचिवत्
असताम् एव सद्भावम् इव चैषाम् उपेयुषाम् । न वयं निर्णयं विद्मो वन्ध्यापुत्रगिराम् इव
परिपूर्णार्णवप्रख्या काप्य् अपूर्वैव पूर्णता । तज्ज्ञानां द्रष्टृदृश्यांशदृष्टौ न हि पतन्ति ते
अचला इव निर्वाता दीपा इव शमाम्ब्व् इव । साचारा वा निराचारास् तिष्ठन्ति स्वस्थम् एव ते
आपूर्णैकार्णवप्रख्या काप्य् अन्तḫपूर्णतोदिता । अन्तश्शीतलता ज्ञप्तिर् ज्ञस्यापूर्वैव लक्ष्यते
वासनैवेह पुरुषḫ प्रेक्षिता सा न विद्यते । तां च न प्रेक्षते कश्चित् ततस् संसार आततः
अनालोकनसिद्धं यत् तद् आलोकान् न विद्यते । कृष्णाह्यनुपलम्भो ऽत्र दृष्टान्तस् स्पष्टचेष्टितः
भूतानि देहमांसादि तच् चासद्विभ्रमो जडः । बुद्ध्यहङ्कारचेतांसि तन्मयान्य् एव नेतरत्
भूतादिमयतां त्यक्त्वा बुद्ध्यहङ्कारचेतसाम् । अत्यन्तं स्थितिर् अभ्येति यदि तन् मुक्ततोदिता
चिच् छिष्टा चेत्यनिष्ठत्वात् तादृश्य् एवात्र कास्तिता । तस्मात् केव कुतẖ कुत्र वासना किंस्वरूपिणी
यस्य चैष भ्रमस् सो ऽसन् प्रेक्षयासन् न लभ्यते । मृगतृष्णाम्बुवत् तेन संसारẖ कस्य कẖ कुतः
तद् एवं तर्हि कस्य स्याद् इति चिन्तोदयो हि यः । पुनस् स एव संसारविभ्रमस् सम्प्रवर्तते
तस्मात् सर्वम् अनाश्रित्य व्योमवत् समम् आस्यताम् । अपुनस्स्मरणं श्रेय इह विस्मरणं परम्
नेह द्रष्टा न भोक्तास्ति नास्तिता न च नास्तिता । यथास्थितम् इदं शान्तम् एकं स्पन्दि सदाब्धिवत्
सर्वं दृश्यं जगद् ब्रह्म सद् इत्य् अवगते स्फुटम् । जलशोषाद् इवोदेति बिम्बिबिम्बक्षये शिवम्
शान्तता व्यवहारो वा रागद्वेषविवर्जितः । विश्रान्तस्य परे तत्त्वे दृश्यते समदर्शिनः
अथ वा शान्ततैवास्य निर्वाणस्यावशिष्यते । निर्वासनẖ किल मुनिẖ कथं व्यवहरत्व् असौ
यावत् त्व् अस्य न निर्वाणं परिपोषम् उपागतम् । तावद् व्यवहरत्य् अस्तरागद्वेषभयोदयः
वीतरागभयक्रोधो निर्वाणश् शान्तमानसः । शिलेवाप्य् अशिलीभूतो मुनिर् आत्मनि तिष्ठति
कोशे ऽस्ति पद्मबीजस्य यथा सर्वाब्जिनी तथा । अनन्या स्वप्नविभ्रान्तिर् आत्मन्य् अस्ति न बाह्यता