भृशं यं सुजनप्रायं लोकास् साधुं प्रचक्षते । स विशिष्टस् स साधुस् स्यात् तं प्रयत्नेन संश्रयेत्
अध्यात्मविद्या विद्यानां प्रधानं तत्कथाश्रयम् । शास्त्रं सच्छास्त्रम् इत्य् आहुर् मुच्यते तद्विचारवान्
सच्छास्त्रसत्सङ्गमजैर् विवेकैस् तथा विनश्यन्ति बलान् मलानि । यथा जलानां कतकानुषङ्गाद् यथा जडानाम् अभयोपयोगात्
य एष देवः कथितो यस्मिञ् ज्ञाते विमुच्यते । वद क्वासौ स्थितो देवः कथम् एनम् अहं लभे
य एष देवः कथितो नैष दूरे ऽवतिष्ठते । शरीरे संस्थितो नित्यं चिन्मात्रम् इति विश्रुतः
एष सर्वम् इदं विश्वं न विश्वं त्व् एष सर्वगः । विद्यते ह्य् एष एवैको न तु विश्वाभिधास्ति दृक्
चिन्मात्रम् एष शशिभृच् चिन्मात्रं गरुडध्वजः । चिन्मात्रम् एव तपनश् चिन्मात्रं कमलोद्भवः
बाला अपि वदन्त्य् एतद् यदि चेतनमात्रकम् । जगद् इत्य् एव कैवात्र नाम स्याद् उपदेशता
चिन्मात्रं चेतनं विश्वम् इति यज् ज्ञातवान् असि । न किञ्चिद् एतद् विज्ञातं भवता भवतारणम्
चेतनं नाम संसारो जीव एष पशुस् स्मृतः । एतस्माद् एव निर्यान्ति जरामरणवीचयः
पशुर् अज्ञो ह्य् अमूर्तो ऽपि दुःखस्यैवैष भाजनम् । चेतनत्वाच् चेततीदम् अत्यनर्थस् स्वयं स्थितः
चेत्यनिर्मुक्तता या स्याद् अचेत्योन्मुखताथवा । अस्य सा भरितावस्था तां ज्ञात्वा नानुशोचति
भिद्यते हृदयग्रन्थिश् छिद्यन्ते सर्वसंशयाः । क्सीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परापरे
तस्य चेत्योन्मुखत्वं तु चेत्यासम्भवनं विना । रोद्धुं न शक्यं दृश्यं तु चेत्यं शाम्यतु वै कथम्
साधुसङ्गमसच्छास्त्रैस् संसारार्णवतारकः । दृश्यते परमात्मा यस् स ब्रह्मन् वद कीदृशः
यद् एतच् चेतनं जीवो विशीर्णो जन्मजङ्गले । एतम् आत्मानम् इच्छन्ति ये ते ऽज्ञाः पण्डिता अपि
जीव एवेह संसारश् चेतनाद् दुःखसन्ततेः । अस्मिञ् ज्ञाते नाविज्ञातं किञ्चिद् भवति कुत्रचित्
ज्ञायते परमात्मा चेद् राम तद् दुःखसन्ततिः । क्षयम् एति विषावेशशान्ताव् इव विषूचिका
रूपं कथय मे ब्रह्मन् यथावत् परमात्मनः । यस्मिन् दृष्टे नरो मोहात् समग्रात् सन्तरिष्यति
देशाद् देशान्तरं दूरं प्राप्तायास् संविदो वपुः । निमेषेणैव यन् मध्ये तद् रूपं परमात्मनः
अत्यन्ताभाव एवास्ति संसारस्य जगत्स्थितेः । यस्मिन् बोधमहाम्भोधौ तद् रूपं परमात्मनः
द्रष्टृदृश्यक्रमो यत्र स्थितो ऽप्य् अस्तम् अलं गतः । यद् अनाकाशम् आकाशस् तद् रूपं परमात्मनः
अशून्यम् इव यच् छून्यं यस्मिञ् शून्यं जगत् स्थितम् । सर्गौघे सति यच् छून्यं तद् रूपं परमात्मनः
यन् महाचिन्मयम् अपि बृहत्पाषाणवत् स्थितम् । जडं त्व् अजडम् एवान्तस् तद् रूपं परमात्मनः
सबाह्याभ्यन्तरं सर्वं येन सम्प्राप्य सङ्गमम् । स्वरूपसत्ताम् आप्नोति तद् रूपं परमात्मनः
प्रकाशस्य यथालोको यथा शून्यत्वम् अम्बरे । तथेदं संस्थितं यत्र तद् रूपं परमात्मनः
सर्वतः परमात्मैष कथं नामावबुध्यते । इयतो ऽस्य जगन्नाम्नो दृश्यस्यासम्भवः कुतः
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् । अत्यन्ताभावसम्बोधे यदि रूढिर् अलं भवेत्
तज् ज्ञातं ब्रह्मणो रूपं भवेन् नान्येन कर्मणा । दृश्यात्यन्ताभावतस् तु ऋते नान्या शुभा गतिः
अत्यन्ताभावसम्पत्तौ दृश्यस्यास्य यथास्थितेः । शिष्यते परमार्थो ऽसौ बुध्यते ज्ञायते ततः