केवलो व्यवहारस्थẖ काष्ठमौनरतो ऽथ वा । काष्ठपाषाणवत् तिष्ठन् ब्रह्मताम् अधिगच्छति
शान्तत्वे चित्रत्वे नानानानात्मनीह चैव शिवे । अवयविनो ऽवयवत्वे त्व् इव युक्तिर् विद्यते नान्या
अर्थगतेस् स्वत्वस्य च भावस्य च नैव सम्भवाद् अमले । एतस्मिन् सर्वगते ब्रह्मणि नास्ति स्वभावोक्तिः
न च नास्तितोपलम्भात् संवित्तेर् अस्तिता च नैवाजे । ग्राह्यग्राहकदृष्टेर् असम्भवाद् अस्ति किञ्चिद् अपि
समम् अमलम् अहार्यम् आर्यजुष्टं शिवम् अजम् अक्षयम् आसितं समं यत् । तद् अवितथपदं तथास्स्व शान्तं पिब चल भुङ्क्ष्व भवान् अयं हि नास्ति
अहन्तैव पराविद्या निर्वाणपदरोधिनी । तयैवान्विष्यते मूढैस् तद् इत्य् उन्मत्तचेष्टितम्
अहन्तैवालम् अज्ञानाम् अज्ञत्वस्य निदर्शनम् । न हि तज्ज्ञस्य शान्तस्य ममाहम् इति विद्यते
अहन्तामलम् उत्सृज्य निर्वाणẖ खम् इवामलम् । सदेहम् अपदेहं वा ज्ञस् तिष्ठति गतज्वरम्
न तथा शरदाकाशम् न तथा स्तिमितो ऽर्णवः । पूर्णेन्दुमध्यं न तथा यथा ज्ञḫ परिराजते
चित्रे सङ्गरसैन्यस्य युद्धस्याक्षुब्धता यथा । तथैका समता ज्ञस्य व्यवहारवतो ऽपि च
निर्वाणैकतया ज्ञस्य वासनैव न वासना । लेखा दामोपमास् त्व् अब्धेर् ऊर्म्यादि न जलेतरत्
तरत्तरङ्गो जलधिर् जलम् एव यथाखिलम् । दृश्योच्छूनम् अपि ब्रह्म तथा ब्रह्मैव नेतरत्
अन्तरस्तङ्गतो ऽक्षुब्धो बहिरस्तङ्गतश् शमी । विद्यते चोदितो यश् च स मुक्त इति कथ्यते
अहन्त्वसर्गरूपेण संवित् संविन्मये परे । स्फुरत्य् अम्भो ऽम्भसीवातो नानातेयं किमात्मिका
धूमस्य स्फुरतो व्योम्नि यथागाजगजादयः । व्यूहा धूमान् न ते भिन्नास् तथा सर्गाḫ परे पदे
संविद्भ्रान्तिविचारेण भ्रान्त्यलाभविलासिना । विजयध्वं विषादं मा गताज्ञास् तज्ज्ञतास्ति वः
अङ्कुरो ऽनुभवत्य् अन्तर् वृक्षं पुष्पं फलं यथा । तथा जगदहन्त्वे ज्ञẖ खात्मा खात्म खम् अप्य् अखम्
रूपालोकमनस्सत्ता जलार्चिष्ष्व् इव दण्डताः । सत्यो ऽपि न च सन्त्य् एता भ्रान्तेश् चित्ताचला इव
यथासुखं यथारम्भं यथानाशं यथोदयम् । यथादेशं यथाकालम् अजराश् शान्तम् आस्यताम्
इष्टानिष्टोपलम्भेषु शान्तं व्यवहरन्न् अपि । शववन् नान्यताम् अन्तर् निर्वाणो ऽनुभवत्य् अलम्
अमनोवासनाहन्ता धत्ते यस्य जगच् चिरम् । जीवतो ऽजीवतश् चैव चिज्जीवस् स परं पदम्
मत्तैव जडवाहेन दुẖखभाराय केवलम् । नृणां पाशावबद्धानां पोतकानाम् इवार्णवे
मोक्षसत्तां श्रयति तां नाज्ञो ऽननुभवाद् इव । मृतेन किल यत् प्राप्तं जीवन् प्राप्नोति तत् कथम्
यद् यत् सङ्कल्प्यते तत् तत् सङ्कल्पाद् एव नाशभाक् । न सम्भवति यत्रैतत् तत् सत्यं पदम् अक्षयम्
नान्यो न चाहम् अस्तीति भावनान् निर्भयो भव । सत्यं युक्त्या भवत्य् एतद् विषम् अप्य् अमृतं यथा
जडं देहादिचित्तान्तं विचार्य सकलं वपुः । लभ्यते नाहम् अस्मीति तस्मान् नास्मीति सत्यता
शान्ताशेषविशेषाणाम् अहन्तान्तं विचारिणाम् । केवलं मुक्ततोदेति न तु किञ्चिद् विनश्यति
भोगत्यागविचारात्मपौरुषान् नान्यद् अत्र हि । उपयुज्यत इत्य् अज्ञास् स्वात्मैवाशु प्रणम्यताम्
निर्वासनं मननम् एवम् उदाहरन्ति मोक्षं विना भवति तच् च न जातु बोधात् । सन्नो जगद्भ्रम इतीह परḫ प्रबोधो न प्रत्ययो ऽत्र यद् अतस् स चिराय बन्धः
जगद् अहम् असद् इत्य् अवेत्य सम्यक् सुतधनदारशरीरनिर्व्यपेक्षः । भवति हि सहचेतनो दृषद् यस् स परम् इतẖ खलु नान्यथास्ति मुक्तिः