चेतनस्याचेतनत्वम् अचेत्योन्मुखतात्मकम् । मोक्षं विद्धि परं शान्तं पदम् अव्ययम् एव च
दिक्कालाद्यनवच्छिन्ने शान्ते शान्तात्मनि स्थिते । चेत्यं न सम्भवत्य् एव कẖ किं चेतयतां कथम्
सङ्कल्पस्वप्नदृश्ये ऽन्तस् संविन्मात्रात्मतां विना । यथा नान्यद् भवेद् रूपं तथैवास्मिन् बहिर्गते
मनोबुद्ध्यादयश् चैते संविन्मात्रात्मरूपिणः । मनोबुद्ध्यादिशब्दार्थभावितास् तु जडात्मकाः
संविन्मात्रे समे स्वच्छे सबाह्याभ्यन्तरे तते । अभिन्ने भेदबुद्धिर् वẖ किम् अनर्थाय जृम्भते
संविन्मात्रस्य शुद्धस्य शून्यस्य च किम् अन्तरम् । यच् चान्तरं तद् विबुधा विदन्त्य् एति न वाग्गतिम्
सदसद्रूप आभासो यथा किम् अपि लक्ष्यते । तमसीक्षितयत्नेन ब्रह्मणीदं तथा गतम्
अयम् आकाशम् एवाहं यदि शाम्याम्य् अवासनम् । वासनां तु न बध्नामि स्थित एवास्मि चिन्नभः
इतिनिश्चयवान् अन्तस् तज्ज्ञो ऽज्ञ इव सञ्ज्ञया । विद्वपुर् विद्यमानो ऽपि शाम्यत्य् असद् इव स्वयम्
जीवानां ज्ञप्तिगुह्येन ज्वलत्य् अज्ञानवायुना । अविद्याग्निḫ प्रबुद्धानां पुनस् तेनैव शाम्यति
अजडानां यद् अज्ञानं स्थाणूनाम् इव शाम्यताम् । तम् आहुर् मोक्षम् अक्षुब्धम् आसितं यद् अपक्षयम्
ज्ञत्वेनाज्ञत्वम् आसाद्य मुनिर् भवति मानवः । अज्ञत्वाद् अज्ञताम् एत्य प्रयाति पशुवृक्षताम्
अहं ब्रह्म जगच् चेदम् इत्य् अविद्यामयो भ्रमः । असत्यḫ प्रेक्षया ध्वान्तं दीपेनेव न लभ्यते
समग्रकरणग्रामो ऽप्य् असङ्कल्पो विवेदनः । न किञ्चिद् अप्य् अनुभवत्य् अन्तर् बाह्ये च शान्तधीः
सुषुप्तत्व इव स्वप्नस् समाधौ प्रविलीयते । दृश्यं सर्वं ज्ञबोधे ऽन्तḫ पुनẖ खात्मैव लक्ष्यते
तलवत्त्वं यथा व्योम्नि तथा पृथ्व्यादिता शिवे । भ्रान्तिमात्राद् ऋते नान्या यथा व्योम तथा शिवः
वासनाभिर् उपेतो ऽपि समस्ताभिर् अवासनः । भवत्य् असाव् असत् सर्वम् इदम् इत्य् एव यस्य धीः
सङ्कल्पैष्यद्भूतभव्यस्वप्नमायेन्द्रजालजाः । यद्वत् संसृतयस् तद्वद् दृष्टे ऽप्य् आस्था किम् अत्र वः
न दुẖखम् अस्ति न सुखं न पुण्यं न च पातकम् । न किञ्चित् कस्यचिन् नष्टं कर्तुर् भोक्तुर् असम्भवात्
सर्वं शून्यं निरालम्बं ममताप्रत्ययो ऽप्य् अयम् । द्विचन्द्रस्वप्नपुरवद् यस्यासौ सो ऽपि नास्ति नः
केवलो व्यवहारस्थẖ काष्ठमौनरतो ऽथ वा । काष्ठपाषाणवत् तिष्ठन् ब्रह्मताम् अधिगच्छति
शान्तत्वे चित्रत्वे नानानानात्मनीह चैव शिवे । अवयविनो ऽवयवत्वे त्व् इव युक्तिर् विद्यते नान्या
अर्थगतेस् स्वत्वस्य च भावस्य च नैव सम्भवाद् अमले । एतस्मिन् सर्वगते ब्रह्मणि नास्ति स्वभावोक्तिः
न च नास्तितोपलम्भात् संवित्तेर् अस्तिता च नैवाजे । ग्राह्यग्राहकदृष्टेर् असम्भवाद् अस्ति किञ्चिद् अपि
समम् अमलम् अहार्यम् आर्यजुष्टं शिवम् अजम् अक्षयम् आसितं समं यत् । तद् अवितथपदं तथास्स्व शान्तं पिब चल भुङ्क्ष्व भवान् अयं हि नास्ति
अहन्तैव पराविद्या निर्वाणपदरोधिनी । तयैवान्विष्यते मूढैस् तद् इत्य् उन्मत्तचेष्टितम्
अहन्तैवालम् अज्ञानाम् अज्ञत्वस्य निदर्शनम् । न हि तज्ज्ञस्य शान्तस्य ममाहम् इति विद्यते
अहन्तामलम् उत्सृज्य निर्वाणẖ खम् इवामलम् । सदेहम् अपदेहं वा ज्ञस् तिष्ठति गतज्वरम्
न तथा शरदाकाशम् न तथा स्तिमितो ऽर्णवः । पूर्णेन्दुमध्यं न तथा यथा ज्ञḫ परिराजते
चित्रे सङ्गरसैन्यस्य युद्धस्याक्षुब्धता यथा । तथैका समता ज्ञस्य व्यवहारवतो ऽपि च