यावान् कश्चित् किलोल्लेखो वाङ्मयो वदतां वर । सूक्ष्मार्थḫ परमार्थो वा बहुर् अल्पतरो ऽपि वा
प्रतियोगिव्यवच्छेदसङ्ख्याभेदादिभिर् भ्रमैः । स स सर्वो ऽङ्कितस् साधो भा इव त्रसरेणुभिः
उत्तरं सकलङ्कं च तज्ज्ञो नार्हति सुन्दर । नाकलङ्का च वाग् अस्ति त्वं च तज्ज्ञतरस् स्थितः
यथाभूतं च वक्तव्यं ज्ञस्यान्तेवासिनो मया । यथाभूतं विदुẖ काष्ठमौनम् अन्तविवर्जितम्
अविरामम् असङ्कल्पं मौनम् आहुḫ परं पदम् । तद् एव तव तज्ज्ञस्य दत्तस् सुन्दर उत्तरः
यन्मयो हि भवत्य् अङ्ग पुरुषो वक्ति तादृशम् । ज्ञेयमात्रम् असच् चाहं वागतीते पदे स्थितः
वागतीतपदस्थो हि कथं गृह्णाति वाङ्मलम् । अवाच्यं वच्मि नो तेन वाग् घि सङ्कल्पनाङ्किता
वाचि ये ये प्रवर्तन्ते तान् अनादृत्य दोषकान् । प्रतियोगिव्यवच्छेदपूर्वकान् वद को भवान्
एवं स्थिते राघवेह यथाभूतम् इदं शृणु । कस् त्वं को ऽहं जगद् वा किम् इति तत्त्वविदां वर
अयं तावद् अहं शान्तश् चिदालोको निरामयः । चेत्यसंवेद्यरहितस् सर्वसङ्कल्पनातिगः
स्वच्छं चिदाकाशम् अहं भवान् आकाशम् एव च । जगच् चाकाशम् अखिलं सर्वम् आकाशमात्रकम्
शुद्धज्ञानैकरूपात्मा शुद्धज्ञानमयात्मनि । अन्यसंविद्दशोन्मुक्तस् त्व् अन्यद् वक्तुं न वेद्म्य् अहम्
स्वपक्षोद्भावनपरा अहन्तात्मैकबन्धनम् । मोक्षार्थम् अप्य् उद्यमिनो नयन्ति शतशाखताम्
जीवतो ऽप्य् उपशान्तस्य व्यवहारवतो ऽपि वा । शववद् यद् अवस्थानं तद् आहुḫ परमं पदम्
अबहिस्साधनं शान्तम् अनन्तस्साधनं समम् । न सुखं नासुखं नाहं नान्यद् इत्य् आसितं शिवम्
मुक्तताया अहन्तेयम् अभावो भावनाङ्कया । तयैवान्विष्यते सेति जात्यन्धश् चित्रम् ईक्षते
स्पन्दने ऽस्पन्दने चैव यत् पाषाणवद् आसितम् । अजडस्यैव तद् विद्धि निर्वाणम् अजरं पदम्
तच् च नान्यो विजानाति स्वयम् एवानुभूयते । लोकैषणाविरक्तेन ज्ञेन ज्ञत्वम् इवात्मनि
नात्राहन्ता न च त्वत्ता नाहन्ता नैव चान्यता । केवलं केवलीभावो निर्वाणम् अमलं शिवम्
चेत्योन्मुखत्वम् एवाहुश् चेतनस्यास्य चेतनम् । एष एव च संसारो बन्धẖ क्लेशाय भूयसे
चेतनस्याचेतनत्वम् अचेत्योन्मुखतात्मकम् । मोक्षं विद्धि परं शान्तं पदम् अव्ययम् एव च
दिक्कालाद्यनवच्छिन्ने शान्ते शान्तात्मनि स्थिते । चेत्यं न सम्भवत्य् एव कẖ किं चेतयतां कथम्
सङ्कल्पस्वप्नदृश्ये ऽन्तस् संविन्मात्रात्मतां विना । यथा नान्यद् भवेद् रूपं तथैवास्मिन् बहिर्गते
मनोबुद्ध्यादयश् चैते संविन्मात्रात्मरूपिणः । मनोबुद्ध्यादिशब्दार्थभावितास् तु जडात्मकाः
संविन्मात्रे समे स्वच्छे सबाह्याभ्यन्तरे तते । अभिन्ने भेदबुद्धिर् वẖ किम् अनर्थाय जृम्भते
संविन्मात्रस्य शुद्धस्य शून्यस्य च किम् अन्तरम् । यच् चान्तरं तद् विबुधा विदन्त्य् एति न वाग्गतिम्
सदसद्रूप आभासो यथा किम् अपि लक्ष्यते । तमसीक्षितयत्नेन ब्रह्मणीदं तथा गतम्
अयम् आकाशम् एवाहं यदि शाम्याम्य् अवासनम् । वासनां तु न बध्नामि स्थित एवास्मि चिन्नभः
इतिनिश्चयवान् अन्तस् तज्ज्ञो ऽज्ञ इव सञ्ज्ञया । विद्वपुर् विद्यमानो ऽपि शाम्यत्य् असद् इव स्वयम्
जीवानां ज्ञप्तिगुह्येन ज्वलत्य् अज्ञानवायुना । अविद्याग्निḫ प्रबुद्धानां पुनस् तेनैव शाम्यति