सुस्तम्भम् अलम् आलिङ्ग्य स्वात्मानम् अजरामरम् । तिष्ठावष्टब्धधीरात्मा सुस्तम्भम् इव मन्दिरम्
जगद्वृक्षपदार्थौघपुष्पामोदश्रियं पराम् । संविदं संविदन् स्वच्छाम् आस्स्वान्तर्मुखम् अच्युतः
अन्तर्मुखतया नित्यं कार्यम् आहरतां बहिः । जीवताम् अपि नोदेति वासना दृषदाम् इव
पुनḫप्रसरणोन्मुक्तम् अन्तस्सुप्तं मनẖ कुरु । कुर्वन् सर्वाणि कर्माणि कूर्माङ्गवद् अवृत्तिमान्
अन्तर्वृत्तिविहीनेन बहिर्वृत्तिमतेव च । सुप्तप्रबुद्धप्रायेण कार्यम् आचर चेतसा
बालमूकादिविज्ञानवद् अन्तस्त्यक्तवासनम् । भवतẖ कुर्वतẖ कार्यं खवच् चित्तं न लिप्यते
वृत्तित्यागविलीनेन किञ्चित्प्रसरता बहिः । अन्तर् अत्यन्तसुप्तेन चेतसा तिष्ठ विज्वरम्
असङ्कल्पकलङ्कायां ज्ञानाच् चित्तक्षयोदये । शुद्धायां संविदि स्थित्वा कुरु मा कुरु वानघ
सुषुप्तसमया वृत्त्या जाग्रद् व्यवहरन् स्वपन् । गृहाण मा किञ्चिद् अपि मा च किञ्चित् परित्यज
जाग्रत्य् अपि सुषुप्तश् चेज् जागर्षि च सुषुप्तके । जाग्रत्सुषुप्तयोर् ऐक्यात् तद् अस्य् असि निरामयः
एवम् आद्यन्तरहितम् अभ्यासेन शनैश् शनैः । पदम् आसादयाद्वन्द्वम् अतीतं सर्ववस्तुनः
न च द्वैतं न चैवैक्यं जगद् इत्य् एव निश्चयी । परमाम् एहि विश्रान्तिम् आकाशविशदाशयः
यद्य् एवं मुनिशार्दूल तद् अहम्प्रत्ययात्मकः । भवान् एवेह किं तावद् वसिष्ठाख्यस् ततो वद
राघवे गदति त्व् एवं वसिष्ठो वदतां वरः । तूष्णीम् एव मुहूर्तार्धम् अतिष्ठत् स्पष्टचेष्टितः
तस्मिंस् तूष्णीं स्थिते किं स्याद् इति सभ्ये महाजने । पतिते संशयाम्भोधौ रामḫ पुनर् उवाच ह
किमर्थं भगवंस् तूष्णीं भवान् अहम् इव स्थितः । न सो ऽस्ति जगति न्यायस् सतां यत्रोत्तरक्षयः
न मे वक्तुम् अशक्यत्वाद् उक्तिक्षय उपस्थितः । किं तु प्रश्नस्य ते ऽद्यास्य तूष्णीम् एवानघोत्तरः
द्विविधो भवति प्रष्टा तत्त्वज्ञो ऽज्ञो ऽथ वापि च । अज्ञस्याज्ञतया देयो ज्ञस्य तु ज्ञतयोत्तरः
एतावन्तम् अभूत् कालं भवान् अज्ञाततत्पदः । भाजनं सविकल्पानाम् उत्तराणां महामते
तज्ज्ञस् त्वम् अधुना जातो विश्रान्तḫ परमे पदे । योग्यो न सविकल्पानाम् उत्तराणाम् असि स्फुटम्
यावान् कश्चित् किलोल्लेखो वाङ्मयो वदतां वर । सूक्ष्मार्थḫ परमार्थो वा बहुर् अल्पतरो ऽपि वा
प्रतियोगिव्यवच्छेदसङ्ख्याभेदादिभिर् भ्रमैः । स स सर्वो ऽङ्कितस् साधो भा इव त्रसरेणुभिः
उत्तरं सकलङ्कं च तज्ज्ञो नार्हति सुन्दर । नाकलङ्का च वाग् अस्ति त्वं च तज्ज्ञतरस् स्थितः
यथाभूतं च वक्तव्यं ज्ञस्यान्तेवासिनो मया । यथाभूतं विदुẖ काष्ठमौनम् अन्तविवर्जितम्
अविरामम् असङ्कल्पं मौनम् आहुḫ परं पदम् । तद् एव तव तज्ज्ञस्य दत्तस् सुन्दर उत्तरः
यन्मयो हि भवत्य् अङ्ग पुरुषो वक्ति तादृशम् । ज्ञेयमात्रम् असच् चाहं वागतीते पदे स्थितः
वागतीतपदस्थो हि कथं गृह्णाति वाङ्मलम् । अवाच्यं वच्मि नो तेन वाग् घि सङ्कल्पनाङ्किता
वाचि ये ये प्रवर्तन्ते तान् अनादृत्य दोषकान् । प्रतियोगिव्यवच्छेदपूर्वकान् वद को भवान्
एवं स्थिते राघवेह यथाभूतम् इदं शृणु । कस् त्वं को ऽहं जगद् वा किम् इति तत्त्वविदां वर
अयं तावद् अहं शान्तश् चिदालोको निरामयः । चेत्यसंवेद्यरहितस् सर्वसङ्कल्पनातिगः