समागमेषु कान्तानां चोत्सवेषूदयेषु च । आनन्दं भज सोम्यात्मा वासनाक्रान्तमूढवत्
भूतानि मृत्युकार्येषु सङ्ग्रामादिषु निर्दयम् । दहानलस् तृणानीव वासनाक्रान्तमूढवत्
क्रमागतेष्व् अखिन्नो ऽर्थं बकवच् चिन्तयार्जय । अर्थोपार्जनकार्येषु वासनाक्रान्तमूढवत्
बलाद् विदलयाशेषान् अरीन् अरिनिसूदन । वातो रिक्तान् इवाम्भोदान् वासनाक्रान्तमूढवत्
जनेषु करुणार्हेषु दीनेषु करुणां कुरु । आत्माराममना मौनी वासनाक्रान्तमूढवत्
मुदितो भव हर्षेषु दुẖखेषु भव दुẖखितः । करुणां कुरु दीनेषु वीरेषु भव वीर्यवान्
अन्तर्मुखस् सदानन्दस् स्वात्मारामतयान्वितः । यत् करोषि शमोदारस् तत्र कर्तासि नानघ
आत्मभावनया साधो नित्यम् अन्तर्मुखस्थितेः । वज्रधारापि ते राम पतिता याति कुण्ठताम्
सङ्कल्पकलनोन्मुक्ते स्वसंविन्मात्रकोटरे । यस् तिष्ठत्य् आत्मनि स्वैरम् आत्मारामो महेश्वरः
न तं भिन्दन्ति शस्त्राणि न दहन्ति हुताशनाः । न क्लेदयन्ति वारीणि शोषयन्ति न मारुताः
सुस्तम्भम् अलम् आलिङ्ग्य स्वात्मानम् अजरामरम् । तिष्ठावष्टब्धधीरात्मा सुस्तम्भम् इव मन्दिरम्
जगद्वृक्षपदार्थौघपुष्पामोदश्रियं पराम् । संविदं संविदन् स्वच्छाम् आस्स्वान्तर्मुखम् अच्युतः
अन्तर्मुखतया नित्यं कार्यम् आहरतां बहिः । जीवताम् अपि नोदेति वासना दृषदाम् इव
पुनḫप्रसरणोन्मुक्तम् अन्तस्सुप्तं मनẖ कुरु । कुर्वन् सर्वाणि कर्माणि कूर्माङ्गवद् अवृत्तिमान्
अन्तर्वृत्तिविहीनेन बहिर्वृत्तिमतेव च । सुप्तप्रबुद्धप्रायेण कार्यम् आचर चेतसा
बालमूकादिविज्ञानवद् अन्तस्त्यक्तवासनम् । भवतẖ कुर्वतẖ कार्यं खवच् चित्तं न लिप्यते
वृत्तित्यागविलीनेन किञ्चित्प्रसरता बहिः । अन्तर् अत्यन्तसुप्तेन चेतसा तिष्ठ विज्वरम्
असङ्कल्पकलङ्कायां ज्ञानाच् चित्तक्षयोदये । शुद्धायां संविदि स्थित्वा कुरु मा कुरु वानघ
सुषुप्तसमया वृत्त्या जाग्रद् व्यवहरन् स्वपन् । गृहाण मा किञ्चिद् अपि मा च किञ्चित् परित्यज
जाग्रत्य् अपि सुषुप्तश् चेज् जागर्षि च सुषुप्तके । जाग्रत्सुषुप्तयोर् ऐक्यात् तद् अस्य् असि निरामयः
एवम् आद्यन्तरहितम् अभ्यासेन शनैश् शनैः । पदम् आसादयाद्वन्द्वम् अतीतं सर्ववस्तुनः
न च द्वैतं न चैवैक्यं जगद् इत्य् एव निश्चयी । परमाम् एहि विश्रान्तिम् आकाशविशदाशयः
यद्य् एवं मुनिशार्दूल तद् अहम्प्रत्ययात्मकः । भवान् एवेह किं तावद् वसिष्ठाख्यस् ततो वद
राघवे गदति त्व् एवं वसिष्ठो वदतां वरः । तूष्णीम् एव मुहूर्तार्धम् अतिष्ठत् स्पष्टचेष्टितः
तस्मिंस् तूष्णीं स्थिते किं स्याद् इति सभ्ये महाजने । पतिते संशयाम्भोधौ रामḫ पुनर् उवाच ह
किमर्थं भगवंस् तूष्णीं भवान् अहम् इव स्थितः । न सो ऽस्ति जगति न्यायस् सतां यत्रोत्तरक्षयः
न मे वक्तुम् अशक्यत्वाद् उक्तिक्षय उपस्थितः । किं तु प्रश्नस्य ते ऽद्यास्य तूष्णीम् एवानघोत्तरः
द्विविधो भवति प्रष्टा तत्त्वज्ञो ऽज्ञो ऽथ वापि च । अज्ञस्याज्ञतया देयो ज्ञस्य तु ज्ञतयोत्तरः
एतावन्तम् अभूत् कालं भवान् अज्ञाततत्पदः । भाजनं सविकल्पानाम् उत्तराणां महामते
तज्ज्ञस् त्वम् अधुना जातो विश्रान्तḫ परमे पदे । योग्यो न सविकल्पानाम् उत्तराणाम् असि स्फुटम्