कर्मैव पुरुषो राम पुरुषस्यैव कर्मता । एते ह्य् अभिन्ने विद्धि त्वं यथा तुहिनशीतते
हिमं यत् तद् यथा शैत्यं यच् छैत्यं तद् यथा हिमम् । यत् कर्मासौ तथा जन्तुर् यो जन्तुẖ कर्म तत् तथा
संवित्स्पन्दरसस्यैते दैवकर्मनरादयः । पर्यायशब्दा न पुनḫ पृथक् कर्मादयस् स्थिताः
स्पन्दात् संविज् जगद्बीजम् अस्पन्दाद् यात्य् अबीजताम् । अङ्कुरश् च तद् एवान्तस्स्थितत्वाद् अङ्कुरश्रियः
चित्त्वं च क्वचिद् अस्पन्दं क्वचित् स्पन्दि स्वभावतः । अनन्तम् एकार्णववद् अदिक्कालक्रमं स्थितम्
संवित्स्पन्दो वासनावान् इह बीजम् अकारणम् । भूत्वा कारणताम् एति देहादेर् अङ्कुरावलेः
तृणवल्लीलतागुल्मबीजाङ्कुरगतेर् अपि । बीजं संवित्स्पन्द एव तस्य बीजं न विद्यते
न बीजाङ्कुरयोर् भेदो विद्यते ऽग्न्यौष्ण्ययोर् इव । बीजम् एवाङ्कुरं विद्धि विद्धि कर्मैव मानवम्
संवित् स्फुरन्ती भूकोशे करोति स्थावराङ्कुरम् । स्थूलान् सूक्ष्मान् मृदून् क्रूरान् पयो बुद्बुदकान् इव
विदा विना धराकोशाद् अत्यन्तपरिपेलवात् । अङ्कुरान् वज्रसारांश् च क उल्लासयितुं क्षमः
प्राणिवीर्यरसान्तस्स्था संविज् जङ्गमम् आततम् । तनोति लतिकान्तस्स्थो रसḫ पुष्पफलं यथा
यदि सर्वगता संविद् भवेन् नातिबलीयसी । तत् क उल्लासने शक्तस् स्याद् एवासुरभूभृताम्
जङ्गमानां स्थावराणाम् एतद् आद्यं हि बीजकम् । संविद्विस्फुरणामात्रम् अस्य बीजं न विद्यते
बीजाङ्कुरविकल्पानां क्रियापुरुषकर्मणाम् । ऊर्मिवीचितरङ्गानां नाम्नि भेदो न वस्तुनि
द्वित्वं नृकर्मणोर् यस्य बीजाङ्कुरधियात्तयोः । विपश्चित्पशवे तस्मै महते ऽस्तु सदा नमः
संवित्तेर् जन्मबीजस्य यो ऽन्तस्स्थो वासनारसः । स करोत्य् अङ्कुरोल्लासं तम् असङ्गाग्निना दह
कुर्वतो ऽकुर्वतश् चैव मनसा यद् अमज्जनम् । शुभाशुभेषु कार्येषु तद् असङ्गं विदुर् बुधाः
अथ वा वासनोत्साद एवासङ्ग इति स्मृतः । यया कयाचिद् युक्त्यान्तस् सम्पादय तम् एव हि
ययैव वा वेत्सि तया युक्त्या पुरुषयत्नतः । वासनां कुरु निर्मूलाम् एतद् एव परं शिवम्
पौरुषेण प्रयत्नेन यथा जानासि वा तथा । निवारयाहम्भावांशम् एषो ऽसौ वासनाक्षयः
नास्त्य् एव पौरुषाद् अन्या संसारोत्तरणे गतिः । निरहम्भावरूपे ऽस्मिन् वासनाक्षयनामनि
आद्यैव संविद् अस्तीह सो ऽङ्कुरो बीजम् अस्ति तत् । तत् कर्म तच् च पुरुषस् तद् दैवं तच् छुभाशुभम्
न बीजम् आदाव् अस्त्य् अन्यन् नाङ्कुरो न च वा नरः । न कर्म न च दैवादि केवलं विद् उदेति हि
नो बीजम् अस्ति न किलाङ्कुरको ऽपि वास्ति नाप्य् अस्ति कर्म पुरुषश् च न वास्ति साधो । एकं तु वित्त्वम् उदितं ह्य् अनयाभिधानलक्ष्म्या नटस् सुरनरासुरशोभयेव
इत्य् एव निश्चयम् अनामय भावयित्वा त्यक्त्वा भृशं पुरुषकर्मविचारशङ्काम् । निर्वासनस् सकलसङ्कलनाविमुक्तस् संविद्वपुर् ननु यथाभिमतेच्छम् आस्स्व
प्रशान्तसर्वेच्छम् अशङ्कम् अच्छचिन्मात्रसंस्थो ऽखिलकार्यकारी । आत्मैकरामḫ परिपूर्णकामो भवाभयो राम शमाभिरामः
नित्यम् अन्तर्मुखस् तिष्ठ वीतरागो विवासनः । चिन्मात्रम् अमलं शान्तं ब्रह्म सर्वत्र भावयन्
आकाशविशदप्रज्ञश् चिन्मात्रैकघनस्थितिः । समस् सोम्यस् समानन्दस् सद्ब्रह्मोद्बृंहिताशयः
शोकेष्व् आपत्सु घोरासु सङ्कटेष्व् अवटेषु च । यथाप्राप्तेषु सर्वेषु खर्वेषून्नतिमत्सु च
यथाक्रमं यथादेशं कुरु दुẖखम् अदुẖखितः । बाष्पाक्रन्दादिपर्यन्तं वासनाक्रान्तमूढवत्