चिद्व्योमानन्त एवास्मि नेयत्तास्ति ममात्मनः । इत्य् एवं परमं वस्तु वस्तुतस् स्तुत्यम् अस्तु ते
एवंनिश्चयवान् राम त्वम् एवासि निरञ्जनः । ध्याता ध्येयं तथा ध्यानं सत्यं वापि न किञ्चन
द्रष्टा दृश्यं दर्शनं च चित एता विभूतयः । अतस् तत् संविदो नान्यद् अध्येयं ध्येयम् अस्ति वा
उद्यति प्रतिपच्चन्द्रे वहति प्रलयानिले । आत्मतत्त्वं समं सोम्यं न क्षुभ्यति न शाम्यति
यथा नौयायिनस् स्थाणुतरुशैलादिचोपनम् । यथा शुक्तौ रजतधीस् तथा देहादि चेतसः
यथा देहादि चित्तस्य तथा देहस्य चित्तकम् । तथैव जीवḫ परमे द्वैतम् ऐक्यम् अतẖ कुतः
सर्वम् एवम् इदं शान्तं ब्रह्म बृंहितवेदनम् । न किञ्चिज् जगदाद्य् अस्ति भ्रान्तिर् अन्या न विद्यते
न विद्यते यथा व्योम्नि वनं स्नेहश् च सैकते । विद्युच् छशाङ्कबिम्बे वा तथा देहादि चेतसि
अविद्यमाने एवास्मिन् मा बिभीहि जगद्भ्रमे । एतद् एव परं सत्यं विद्धि सत्यविदां वर
जगद् अस्ति न मे वेति यासीद् भ्रान्तिस् तवाद्य सा । शान्ता मदुपदेशेन किम् अन्यद् बन्धकारणम्
स्थाल्युदञ्चनकुम्भादि यथा मृण्मात्रकं तथा । चित्तमात्रं जगद् इदं क्षीणं तच् च विचारणात्
आपत्सु सम्पत्सु भवाभवेषु शान्तैषणाहर्षविषादसंवित् । साम्याद् अहम्भावविदा विमुक्तो यथास्थितं तिष्ठ विलीय वास्स्व
यथास्थितं वस्त्व् अवगम्य सम्यक् स्थितो ऽसि चेद् वा स्वकुलाम्बरेन्दो । तद् धर्षशोकैषणदूषणादि विमुच्य वाश्रित्य यथेच्छम् आस्स्व
बीजाङ्कुराणां पुरुषकर्मणां जन्मकारिणाम् । दैवशब्दार्थयुक्तानां तत्त्वं वद विभो पुनः
दैवकर्मादिपर्यायं घटादिघटनावधि । संवित्स्पन्दनम् एवेदं लोके पुरुषतां गतम्
संवित्स्पन्दाद् ऋते पुंस्त्वं कर्म वा कीदृशं भवेत् । घटावटपटाद्यात्म ह्य् एतेनैव जगत् कृतम्
प्रवर्तते जगल्लक्ष्मीस् संवित्स्पन्दात् सवासनात् । निवर्तते हि संसारस् संवित्स्पन्दाद् अवासनात्
अवासनं हि संवित्तेस् स्पन्दम् अस्पन्दनं विदुः । स स्पन्दो ऽप्य् अप्सु न स्पन्दो येनावर्तादि नोह्यते
मनाग् अपि न भेदो ऽस्ति संवित्स्पन्दमयात्मनोः । कल्पनांशाद् ऋते राम सृष्टौ पुरुषकर्मणोः
जलवीच्योर् यथा द्वित्वं सङ्कल्पोत्थं न वास्तवम् । तथेह चित्परिस्पन्दरूपयोर् जन्तुकर्मणोः
कर्मैव पुरुषो राम पुरुषस्यैव कर्मता । एते ह्य् अभिन्ने विद्धि त्वं यथा तुहिनशीतते
हिमं यत् तद् यथा शैत्यं यच् छैत्यं तद् यथा हिमम् । यत् कर्मासौ तथा जन्तुर् यो जन्तुẖ कर्म तत् तथा
संवित्स्पन्दरसस्यैते दैवकर्मनरादयः । पर्यायशब्दा न पुनḫ पृथक् कर्मादयस् स्थिताः
स्पन्दात् संविज् जगद्बीजम् अस्पन्दाद् यात्य् अबीजताम् । अङ्कुरश् च तद् एवान्तस्स्थितत्वाद् अङ्कुरश्रियः
चित्त्वं च क्वचिद् अस्पन्दं क्वचित् स्पन्दि स्वभावतः । अनन्तम् एकार्णववद् अदिक्कालक्रमं स्थितम्
संवित्स्पन्दो वासनावान् इह बीजम् अकारणम् । भूत्वा कारणताम् एति देहादेर् अङ्कुरावलेः
तृणवल्लीलतागुल्मबीजाङ्कुरगतेर् अपि । बीजं संवित्स्पन्द एव तस्य बीजं न विद्यते
न बीजाङ्कुरयोर् भेदो विद्यते ऽग्न्यौष्ण्ययोर् इव । बीजम् एवाङ्कुरं विद्धि विद्धि कर्मैव मानवम्
संवित् स्फुरन्ती भूकोशे करोति स्थावराङ्कुरम् । स्थूलान् सूक्ष्मान् मृदून् क्रूरान् पयो बुद्बुदकान् इव
विदा विना धराकोशाद् अत्यन्तपरिपेलवात् । अङ्कुरान् वज्रसारांश् च क उल्लासयितुं क्षमः