मङ्किनेति श्रुतवता ततो मोहो महान् अपि । अशेषेण परित्यक्तस् तत्र वै त्वग् इवाहिना
प्रवाहापतितं कार्यं कुर्वतापास्तवासनम् । तेन वर्षशतस्यान्ते स्थितम् अद्रौ समाधिना
तत्राद्य यावत् पाषाणसमधर्मा स तिष्ठति । शान्तान्तẖकरणो योगी बोध्यमानḫ प्रबुध्यते
एतेन राघव विवेकपदेन शान्तिम् आसादयोदयवता मनसा विहर्तुम् । मा दीनतां व्रजतु रागमयी मतिस् ते क्षीणा क्षणाद् असलिलेव शरद्घनाली
निर्वाणो भव शान्तात्मा यथाप्रप्तानुवृत्तिमान् । सन्न् एवासत्समस् सोम्यस् स्फटिकाद् इव निर्मितः
एकस्मिन्न् एव सर्वस्मिन् संस्थिते विततात्मनि । नैकस्मिन् न च सर्वस्मिन् नानाता कलनाẖ कुतः
आद्यन्तरहितं सर्वं व्योम चित्तत्त्वनिर्भरम् । शरीरोत्पत्तिनाशेषु का चित्तत्त्वस्य खण्डना
स्फुरन्ति हि जगत्क्रीडाश् चिच्चमत्कारचापलात् । अचापलात् प्रलीयन्ते तरङ्गा इव वारिणि
यथा शुभ्राम्बुदे वस्त्रशङ्का न फलभागिनी । देहो ऽयम् अहम् इत्य् एषा तथा शङ्का न वास्तवी
मावस्तुनि निमग्नस् त्वं भव भूरिभयप्रदे । वस्त्व् अनन्तसुखायाद्यं भव्य भावय भूतये
चिद्व्योमानन्त एवास्मि नेयत्तास्ति ममात्मनः । इत्य् एवं परमं वस्तु वस्तुतस् स्तुत्यम् अस्तु ते
एवंनिश्चयवान् राम त्वम् एवासि निरञ्जनः । ध्याता ध्येयं तथा ध्यानं सत्यं वापि न किञ्चन
द्रष्टा दृश्यं दर्शनं च चित एता विभूतयः । अतस् तत् संविदो नान्यद् अध्येयं ध्येयम् अस्ति वा
उद्यति प्रतिपच्चन्द्रे वहति प्रलयानिले । आत्मतत्त्वं समं सोम्यं न क्षुभ्यति न शाम्यति
यथा नौयायिनस् स्थाणुतरुशैलादिचोपनम् । यथा शुक्तौ रजतधीस् तथा देहादि चेतसः
यथा देहादि चित्तस्य तथा देहस्य चित्तकम् । तथैव जीवḫ परमे द्वैतम् ऐक्यम् अतẖ कुतः
सर्वम् एवम् इदं शान्तं ब्रह्म बृंहितवेदनम् । न किञ्चिज् जगदाद्य् अस्ति भ्रान्तिर् अन्या न विद्यते
न विद्यते यथा व्योम्नि वनं स्नेहश् च सैकते । विद्युच् छशाङ्कबिम्बे वा तथा देहादि चेतसि
अविद्यमाने एवास्मिन् मा बिभीहि जगद्भ्रमे । एतद् एव परं सत्यं विद्धि सत्यविदां वर
जगद् अस्ति न मे वेति यासीद् भ्रान्तिस् तवाद्य सा । शान्ता मदुपदेशेन किम् अन्यद् बन्धकारणम्
स्थाल्युदञ्चनकुम्भादि यथा मृण्मात्रकं तथा । चित्तमात्रं जगद् इदं क्षीणं तच् च विचारणात्
आपत्सु सम्पत्सु भवाभवेषु शान्तैषणाहर्षविषादसंवित् । साम्याद् अहम्भावविदा विमुक्तो यथास्थितं तिष्ठ विलीय वास्स्व
यथास्थितं वस्त्व् अवगम्य सम्यक् स्थितो ऽसि चेद् वा स्वकुलाम्बरेन्दो । तद् धर्षशोकैषणदूषणादि विमुच्य वाश्रित्य यथेच्छम् आस्स्व
बीजाङ्कुराणां पुरुषकर्मणां जन्मकारिणाम् । दैवशब्दार्थयुक्तानां तत्त्वं वद विभो पुनः
दैवकर्मादिपर्यायं घटादिघटनावधि । संवित्स्पन्दनम् एवेदं लोके पुरुषतां गतम्
संवित्स्पन्दाद् ऋते पुंस्त्वं कर्म वा कीदृशं भवेत् । घटावटपटाद्यात्म ह्य् एतेनैव जगत् कृतम्
प्रवर्तते जगल्लक्ष्मीस् संवित्स्पन्दात् सवासनात् । निवर्तते हि संसारस् संवित्स्पन्दाद् अवासनात्
अवासनं हि संवित्तेस् स्पन्दम् अस्पन्दनं विदुः । स स्पन्दो ऽप्य् अप्सु न स्पन्दो येनावर्तादि नोह्यते
मनाग् अपि न भेदो ऽस्ति संवित्स्पन्दमयात्मनोः । कल्पनांशाद् ऋते राम सृष्टौ पुरुषकर्मणोः
जलवीच्योर् यथा द्वित्वं सङ्कल्पोत्थं न वास्तवम् । तथेह चित्परिस्पन्दरूपयोर् जन्तुकर्मणोः